भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 03.6

03.6.01

एक.स्त्री.पुत्राणां ज्येष्ठ.अंशः - ब्राह्मणानाम् अजाः, क्षत्रियाणाम् अश्वाः, वैश्यानां गावः, शूद्राणाम् अवयः ॥

03.6.02

काण.लङ्गास् तेषां मध्यम.अंशः, भिन्न.वर्णाः कनिष्ठ.अंशः ॥

03.6.03

चतुष्पद.अभावे रत्न.वर्जानां दशानां भागं द्रव्याणाम् एकं ज्येष्ठो हरेत् ॥

03.6.04

प्रतिमुक्त.स्वधा.पाशो हि भवति ॥

03.6.05

इत्य् औशनसो विभागः ॥

03.6.06

पितुः परिवापाद् यानम् आभरणं च ज्येष्ठ.अंशः, शयन.आसनं भुक्त.कांस्यं च मध्यम.अंशः, कृष्णं धान्य.आयसं गृह.परिवापो गो.शकटं च कनिष्ठ.अंशः ॥

03.6.07

शेष.द्रव्याणाम् एक.द्रव्यस्य वा समो विभागः ॥

03.6.08

अदायादा भगिन्यः, मातुः परिवापाद् भुक्त.कांस्य.आभरण.भागिन्यः ॥

03.6.09

मानुष.हीनो ज्येष्ठस् तृतीयम् अंशं ज्येष्ठ.अंशाल् लभेत, चतुर्थम् अन्याय.वृत्तिः, निवृत्त.धर्म.कार्यो वा ॥

03.6.10

काम.आचारः सर्वं जीयेत ॥

03.6.11

तेन मध्यम.कनिष्ठौ व्याख्यातौ ॥

03.6.12

तयोर् मानुष.उपेतो ज्येष्ठ.अंशाद् अर्धं लभेत ॥

03.6.13

नाना.स्त्री.पुत्राणां तु संस्कृत.असंस्कृतयोः कन्या.कृत.क्षतयोर् अभावे च एकस्याः पुत्रयोर् यमयोर् वा पूर्व.जन्मना ज्येष्ठ.भावः ॥

03.6.14

सूत.मागध.व्रात्य.रथ.काराणाम् ऐश्वर्यतो विभागः ॥

03.6.15

शेषास् तम् उपजीवेयुः ॥

03.6.16

अनीश्वराः सम.विभागाः ॥

03.6.17

चातुर्वर्ण्य.पुत्राणां ब्राह्मणी.पुत्रश् चतुरो^अंशान् हरेत्, क्षत्रिया.पुत्र.स्त्रीन् अंशान्, वैश्या.पुत्रो द्वाव् अंशौ, एकं शूद्रा.पुत्रः ॥

03.6.18

तेन त्रि.वर्ण.द्वि.वर्ण.पुत्र.विभागः क्षत्रिय.वैश्ययोर् व्याख्यातः ॥

03.6.19

ब्राह्मणस्य^अनन्तरा.पुत्रस् तुल्य.अंशः ॥

03.6.20

क्षत्रिय.वैश्ययोर् अर्ध.अंशः तुल्य.अंशो वा मानुष.उपेतः ॥

03.6.21

तुल्य.अतुल्ययोर् एक.पुत्रः सर्वं हरेत्, बन्धूंश् च बिभृयात् ॥

03.6.22

ब्राह्मणानां तु पारशवस् तृतीयम् अंशं लभेत, द्वाव् अंशौ सपिण्डः कुल्यो वा^आसन्नः, स्वधा.दान.हेतोः ॥

03.6.23

तद्.अभावे पितुर् आचार्यो^अन्तेवासी वा ॥
कz03.6.24अब्। क्षेत्रे वा जनयेद् अस्य नियुक्तः क्षेत्रजं सुतम् ।
कz03.6.24च्द्। मातृ.बन्धुः सगोत्रो वा तस्मै तत् प्रदिशेद् धनम् ॥ए
(च्लस्सिfइचतिओन् ओf सोन्स्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc