भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 03.5

03.5.01

अनीश्वराः पितृमन्तः स्थित.पितृ.मातृकाः पुत्राः ॥

03.5.02

तेषाम् ऊर्ध्वं पितृतो दाय.विभागः पितृ.द्रव्याणाम् ॥

03.5.03

स्वयं.आर्जितम् अविभाज्यम्, अन्यत्र पितृ.द्रव्याद् उत्थितेभ्यः ॥

03.5.04

पितृ.द्रव्याद् अविभक्त.उपगतानां पुत्राः पौत्रा वा आ.चतुर्थाद् इत्य् अंश.भाजः ॥

03.5.05

तावद् अविच्छिन्नः पिण्डो भवति ॥

03.5.06

विच्छिन्न.पिण्डाः सर्वे समं विभजेरन् ॥

03.5.07

अपितृ.द्रव्या विभक्त.पितृ.द्रव्या वा सह जीवन्तः पुनर् विभजेरन् ॥

03.5.08

यतश् च^उत्तिष्ठेत स द्व्य्.अंशं लभेत ॥

03.5.09

द्रव्यम् अपुत्रस्य सोदर्या भ्रातरः सह.जीविनो वा हरेयुः कन्याश् च ॥

03.5.10

रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः ॥

03.5.11

तद्.अभावे पिता धरमाणः ॥

03.5.12

पित्र्.अभावे भ्रातरो भ्रातृ.पुत्राश् च ॥

03.5.13

अपितृका बहवो^अपि च भ्रातरो भ्रातृ.पुत्राश् च पितुर् एकम् अंशं हरेयुः ॥

03.5.14

सोदर्याणाम् अनेक.पितृकाणां पितृतो दाय.विभागः ॥03.5.15। पितृ.भ्रातृ.पुत्राणां पूर्वे विद्यमाने न^अपरम् अवलम्बन्ते, ज्येष्ठे च कनिष्ठम् अर्थ.ग्राहिणम् ॥

03.5.16

जीवद्.विभागे पिता न^एकं विशेषयेत् ॥

03.5.17

न च^एकम् अकारणान् निर्विभजेत ॥

03.5.18

पितुर् असत्य् अर्थे ज्येष्ठाः कनिष्ठान् अनुगृह्णीयुः, अन्यत्र मिथ्या.वृत्तेभ्यः ॥

03.5.19

प्राप्त.व्यवहाराणां विभागः ॥

03.5.20

अप्राप्त.व्यवहाराणां देय.विशुद्धं मातृ.बन्धुषु ग्राम.वृद्धेषु वा स्थापयेयुः आ.व्यवहार.प्रापणात्, प्रोषितस्य वा ॥

03.5.21

सम्निविष्ट.समम् असम्निविष्टेभ्यो नैवेशनिकं दद्युः, कन्याभ्यश् च प्रादानिकम् ॥

03.5.22

ऋण.रिक्थयोः समो विभागः ॥

03.5.23

"उद.पात्राण्य् अपि निष्किंचना विभजेरन्" इत्य् आचार्याः ॥

03.5.24

छलम् एतद् इति कौटिल्यः ॥

03.5.25

सतो^अर्थस्य विभागो न^असतः ॥

03.5.26

एतावान् अर्थः सामान्यस् तस्य^एतावान् प्रत्य्.अंश इत्य् अनुभाष्य ब्रुवन् साक्षिषु विभागं कारयेत् ॥

03.5.27

दुर्विभक्तम् अन्योन्य.अपहृतम् अन्तर्हितम् अविज्ञात.उत्पन्नं वा पुनर् विभजेरन् ॥

03.5.28

अदायादकं राजा हरेत् स्त्री.वृत्ति.प्रेत.कार्य.वर्जम्, अन्यत्र श्रोत्रिय.द्रव्यात् ॥

03.5.29

तत् त्रैवेद्येभ्यः प्रयच्छेत् ॥

03.5.30

पतितः पतिताज् जातः क्लीबश् च^अनंशाः, जड.उन्मत्त.अन्ध.कुष्ठिनश् च ॥

03.5.31

सति भार्य.अर्थे तेषाम् अपत्यम् अतद्.विधं भागं हरेत् ॥

03.5.32

ग्रास.आच्छादनम् इतरे पतित.वर्जाः ॥
कz03.5.33अब्। तेषां च कृत.दाराणां लुप्ते प्रजनने सति ।
कz03.5.33च्द्। सृजेयुर् बान्धवाः पुत्रांस् तेषाम् अंशान् प्रकल्पयेत् ॥ए
(डिविसिओन् इन्तो स्हरेस्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc