अर्थशास्त्र · अध्याय 03.7
"पर.परिग्रहे बीजम् उत्सृष्टं क्षेत्रिणः" इत्य् आचार्याः ॥
"माता भस्त्रा, यस्य रेतस् तस्य^अपत्यम्" इत्य् अपरे ॥
विद्यमानम् उभयम् इति कौटिल्यः ॥
स्वयं.जातः कृत.क्रियायाम् औरसः ॥
तेन तुल्यः पुत्रिका.पुत्रः ॥
सगोत्रेण^अन्य.गोत्रेण वा नियुक्तेन क्षेत्र.जातः क्षेत्रजः पुत्रः ॥
जनयितुर् असत्य् अन्यस्मिन् पुत्रे स एव द्वि.पितृको द्वि.गोत्रो वा द्वयोर् अपि स्वधा.रिक्थ.भाग् भवति ॥
तत्.सधर्मा बन्धूनां गृहे गूढ.जातस् तु गूढजः ॥
बन्धुना^उत्सृष्टो^अपविद्धः संस्कर्तुः पुत्रः ॥
कन्या.गर्भः कानीनः ॥
सगर्भ.ऊढायाः सह.ऊढः ॥
पुनर्.भूतायाः पौनर्भवः ॥
स्वयं.जातः पितुर् बन्धूनां च दायादः ॥
पर.जातः संस्कर्तुर् एव न बन्धूनाम् ॥
तत्.सधर्मा माता.पितृभ्याम् अद्भिर् मुक्तो दत्तः ॥
स्वयं बन्धुभिर् वा पुत्र.भाव.उपगत उपगतः ॥
पुत्रत्वे^अधिकृतः कृतकः ॥
परिक्रीतः क्रीतः ॥ इति ।
औरसे तु^उत्पन्ने सवर्णास् तृतीय.अंश.हराः, असवर्णा ग्रास.आच्छादन.भागिनः ॥
ब्राह्मण.क्षत्रिययोर् अनन्तरा.पुत्राः सवर्णाः, एक.अन्तरा असवर्णाः ॥
ब्राह्मणस्य वैश्यायाम् अम्बष्ठः, शूद्रायां निषादः पारशवो वा ॥
क्षत्रियस्य शूद्रायाम् उग्रः ॥
शूद्र एव वैश्यस्य ॥
सवर्णासु च^एषाम् अचरित.व्रतेभ्यो जाता व्रात्याः ॥
इत्य् अनुलोमाः ॥
शूद्राद् आयोगव.क्षत्त.चण्डालाः ॥
वैश्यान् मागध.वैदेहकौ ॥
क्षत्रियात् सूतः ॥
पौराणिकस् त्व् अन्यः सूतो मागधश् च, ब्रह्म.क्षत्राद् विशेषः ॥
त एते प्रतिलोमाः स्वधर्म.अतिक्रमाद् राज्ञः सम्भवन्ति ॥
उग्रान् नैषाद्यां कुक्कुटः, विपर्यये पुल्कसः ॥
वैदेहिकायाम् अम्बष्ठाद् वैणः, विपर्यये कुशीलवः ॥
क्षत्तायाम् उग्रात्^श्व.पाकः ॥
इत्य् एते^अन्ये च^अन्तरालाः ॥
कर्मणा वैश्यो रथ.कारः ॥
तेषां स्व.योनौ विवाहः, पूर्व.अपर.गामित्वं वृत्त.अनुवृत्तं च ॥
शूद्र.सधर्माणो वा, अन्यत्र चण्डालेभ्यः ॥
केवलम् एवं वर्तमानः स्वर्गम् आप्नोति राजा, नरकम् अन्यथा ॥
सर्वेषाम् अन्तरालानां समो विभागः ॥
कz03.7.40अब्। देशस्य जात्याः संघस्य धर्मो ग्रामस्य वा^अपि यः ।
कz03.7.40च्द्। उचितस् तस्य तेन^एव दाय.धर्मं प्रकल्पयेत् ॥ए
(इम्मोवब्ले प्रोपेर्त्य्)
(ड्wएल्लिन्ग्-प्लचेस्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0