भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 03.4

03.4.01

पति.कुलान् निष्पतितायाः स्त्रियाः षट्.पणो दण्डः, अन्यत्र विप्रकारात् ॥

03.4.02

प्रतिषिद्धायां द्वादश.पणः ॥

03.4.03

प्रतिवेश.गृह.अतिगतायाः षट्.पणः ॥

03.4.04

प्रातिवेशिक.भिक्षुक.वैदेहकानाम् अवकाश.भिक्षा.पण्य.दाने द्वादश.पणो दण्डः ॥

03.4.05

प्रतिषिद्धानां पूर्वः साहस.दण्डः ॥

03.4.06

पर.गृह.अतिगतायाश् चतुर्.विंशति.पणः ॥

03.4.07

पर.भार्या.अवकाश.दाने शत्यो दण्डः, अन्यत्र^आपद्भ्यः ॥

03.4.08

वारण.अज्ञानयोर् निर्दोषः ॥

03.4.09

"पति.विप्रकारात् पति.ज्ञाति.सुख.अवस्थ.ग्रामिक.अन्वाधि.भिक्षुकी.ज्ञाति.कुलानाम् अन्यतमम् अपुरुषं गन्तुम् अदोषः" इति आचार्याः ॥

03.4.10

स-पुरुषं वा ज्ञाति.कुलम् ॥

03.4.11

कुतो हि साध्वी.जनस्यच्^छलम् ॥

03.4.12

सुखम् एतद् अवबोद्धुम्, इति कौटिल्यः ॥

03.4.13

प्रेत.व्याधि.व्यसन.गर्भ.निमित्तम् अप्रतिषिद्धम् एव ज्ञाति.कुल.गमनम् ॥

03.4.14

तन्.निमित्तं वारयतो द्वादश.पणो दण्डः ॥

03.4.15

तत्र^अपि गूहमाना स्त्री.धनं जीयेत, ज्ञातयो वा छादयन्तः शुल्क.शेषम् ॥ इति निष्पतनम् ।

03.4.16

पति.कुलान् निष्पत्य ग्राम.अन्तर.गमने द्वादश.पणो दण्डः स्थाप्या.आभरण.लोपश् च ॥

03.4.17

गम्येन वा पुंसा सह प्रस्थाने चतुर्.विंशति.पणः सर्व.धर्म.लोपश् च, अन्यत्र भर्म.दान.तीर्थ.गमनाभ्याम् ॥

03.4.18

पुंसः पूर्वः साहस.दण्डः तुल्य.श्रेयसोः, पापीयसो मध्यमः ॥

03.4.19

बन्धुर्.अदण्ड्यः ॥

03.4.20

प्रतिषेधे^अर्ध.दण्डाः ॥

03.4.21

पथि व्यन्तरे गूढ.देश.अभिगमने मैथुन.अर्थेन शङ्कित.प्रतिषिद्धायां वा पथ्य्.अनुसरणे संग्रहणं विद्यात् ॥

03.4.22

ताल.अवचर.चारण.मत्स्य.बन्धक.लुब्धक.गो.पालक.शौण्डिकानाम् अन्येषां च प्रसृष्ट.स्त्रीकाणां पथ्य्.अनुसरणम् अदोषः ॥

03.4.23

प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्यास् त एव^अर्ध.दण्डाः ॥ इति पथ्य्.अनुसरणम् ।

03.4.24

ह्रस्व.प्रवासिनां शूद्र.वैश्य.क्षत्रिय.ब्राह्मणानां भार्याः संवत्सर.उत्तरं कालम् आकाङ्क्षेरन् अप्रजाताः, संवत्सर.अधिकं प्रजाताः ॥

03.4.25

प्रतिविहिता द्वि.गुणं कालम् ॥

03.4.26

अप्रतिविहिताः सुख.अवस्था बिभृयुः, परं चत्वारि वर्षाण्य् अष्टौ वा ज्ञातयः ॥

03.4.27

ततो यथा.दत्तम् आदाय प्रमुञ्चेयुः ॥

03.4.28

ब्राह्मणम् अधीयानं दश.वर्षाण्य् अप्रजाता, द्वादश प्रजाता, राज.पुरुषम् आयुः.क्षयाद् आकाङ्क्षेत ॥

03.4.29

सवर्णतश् च प्रजाता न^अपवादं लभेत ॥

03.4.30

कुटुम्ब.ऋद्धि.लोपे वा सुख.अवस्थैर् विमुक्ता यथा.इष्टं विन्देत, जीवित.अर्थम् आपद्.गता वा ॥

03.4.31

धर्म.विवाहात् कुमारी परिग्रहीतारम् अनाख्याय प्रोषितम् अश्रूयमाणं सप्त तीर्थान्य् आकाङ्क्षेत, संवत्सरं श्रूयमाणम् ॥

03.4.32

आख्याय प्रोषितम् अश्रूयमाणं पञ्च तीर्थान्य् आकाङ्क्षेत, दश श्रूयमाणम् ॥

03.4.33

एक.देश.दत्त.शुल्कं त्रीणि तीर्थान्य् अश्रूयमाणम्, श्रूयमाणं सप्त तीर्थान्य् आकाङ्क्षेत ॥

03.4.34

दत्त.शुल्कं पञ्च तीर्थान्य् अश्रूयमाणम्, दश श्रूयमाणम् ॥

03.4.35

ततः परं धर्मस्थैर् विसृष्टा यथा.इष्टं विन्देत ॥

03.4.36

तीर्थ.उपरोधो हि धर्म.वध इति कौटिल्यः ॥ इति ह्रस्व.प्रवासः ॥

03.4.37

दीर्घ.प्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्य् आकाङ्क्षेत, संवत्सरं प्रजाता ॥

03.4.38

ततः पति.सोदर्यं गच्छेत् ॥

03.4.39

बहुषु प्रत्यासन्नं धार्मिकं भर्म.समर्थं कनिष्ठम् अभार्यं वा ॥

03.4.40

तद्.अभावे^अप्य् असोदर्यं सपिण्डं कुल्यं वा^आसन्नम् ॥

03.4.41

एतेषाम् एष एव क्रमः ॥
कz03.4.42अब्। एतान् उत्क्रम्य दायादान् वेदने जार.कर्मणि ।
कz03.4.42च्द्। जार.स्त्री.दातृ.वेत्तारः सम्प्राप्ताः संग्रह.अत्ययम् ॥ए
(पर्तितिओन् ओf इन्हेरितन्चे)
(ओर्देर् ओf इन्हेरितन्चे)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc