अर्थशास्त्र · अध्याय 02.9
अमात्य.सम्पदा^उपेताः सर्व.अध्यक्षाः शक्तितः कर्मसु नियोज्याः ॥
कर्मसु च^एषां नित्यं परीक्षां कारयेत्, चित्त.अनित्यत्वात्^ मनुष्यानाम् ॥
अश्व.सधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते ॥
तस्मात् कर्तारं करणं देशं कालं कार्यं प्रक्षेपम् उदयं च^एषु विद्यात् ॥
ते यथा.संदेशम् असंहता अविगृहीताः कर्माणि कुर्युः ॥
संहता भक्षयेयुः, विगृहीता विनाशयेयुः ॥
न च^अनिवेद्य भर्तुः कंचिद् आरम्भं कुर्युः, अन्यत्र^आपत्.प्रतीकारेभ्यः ॥
प्रमाद.स्थानेषु च^एषाम् अत्ययं स्थापयेद् दिवस.वेतन.व्यय.द्वि.गुणम् ॥
यश् च^एषां यथा.आदिष्टम् अर्थं सविशेषं वा करोति स स्थान.मानौ लभेत ॥
"अल्प.आयतिश् चेत्^ महा.व्ययो भक्षयति ॥
विपर्यये यथा.आयति.व्ययश् च न भक्षयति" इत्य् आचार्याः ॥
अपसर्पेण^एव^उपलभ्येत^इति कौटिल्यः ॥
यः समुदयं परिहापयति स राज.अर्थं भक्षयति ॥
स चेद् अज्ञान.आदिभिः परिहापयति तद् एनं यथा.गुणं दापयेत् ॥
यः समुदयं द्वि.गुणम् उद्भावयति स जन.पदं भक्षयति ॥
स चेद् राज.अर्थम् उपनयत्य् अल्प.अपराधे वारयितव्यः, महति यथा.अपराधं दण्डयितव्यः ॥
यः समुदयं व्ययम् उपनयति स पुरुष.कर्माणि भक्षयति ॥
स कर्म.दिवस.द्रव्य.मूल्य.पुरुष.वेतन.अपहारेषु यथा.अपराधं दण्डयितव्यः ॥
तस्माद् अस्य यो यस्मिन्न् अधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यम् आय.व्ययौ च व्यास.समासाभ्याम् आचक्षीत ॥
मूल.हर.तादात्विक.कदर्यांश् च प्रतिषेधयेत् ॥
यः पितृ.पैतामहम् अर्थम् अन्यायेन भक्षयति स मूल.हरः ॥
यो यद् यद् उत्पद्यते तत् तद् भक्षयति स तादात्विकः ॥
यो भृत्य.आत्म.पीडाभ्याम् उपचिनोत्य् अर्थं स कदर्यः ॥
स पक्षवांश् चेद् अनादेयः, विपर्यये पर्यादातव्यः ॥
यो महत्य् अर्थ.समुदये स्थितः कदर्यः सम्निधत्ते^अवनिधत्ते^अवस्रावयति वा - सम्निधत्ते स्व.वेश्मनि, अवनिधत्ते पौर.जानपदेषु, अवस्रावयति पर.विषये - तस्य सत्त्री मन्त्रि.मित्र.भृत्य.बन्धु.पक्षम् आगतिं गतिं च द्रव्याणाम् उपलभेत ॥
यश् च^अस्य पर.विषये संचारं कुर्यात् तम् अनुप्रविश्य मन्त्रं विद्यात् ॥
सुविदिते शत्रु.शासन.अपदेशेन^एनं घातयेत् ॥
तस्माद् अस्य^अध्यक्षाः संख्यायक.लेखक.रूप.दर्शक.नीवी.ग्राहक.उत्तर.अध्यक्ष.सखाः कर्मणि कुर्युः ॥
उत्तर.अध्यक्षा हस्ति.अश्व.रथ.आरोहाः ॥
तेषाम् अन्तेवासिनः शिल्प.शौच.युक्ताः संख्यायक.आदीनाम् अपसर्पाः ॥
बहु.मुख्यम् अनित्यं च^अधिकरणं स्थापयेत् ॥
कz02.9.32अब्। यथा ह्य् अनास्वादयितुं न शक्यं जिह्वा.तलस्थं मधु7 वा विषं वा । [श्]
कz02.9.32च्द्। अर्थस् तथा ह्य् अर्थ.चरेण राज्ञः स्वल्पो^अप्य् अनास्वादयितुं न शक्यः ॥[श्]
कz02.9.33अब्। मत्स्या यथा^अन्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः ।[श्]
कz02.9.33च्द्। युक्तास् तथा कार्य.विधौ नियुक्ता ज्ञातुं न शक्या धनम् आददानाः ॥[श्]
कz02.9.34अब्। अपि शक्या गतिर् ज्ञातुं पततां खे पतत्रिणाम् ।[श्]
कz02.9.34च्द्। न तु प्रच्छन्न.भावानां युक्तानां चरतां गतिः ॥[श्]
कz02.9.35अब्। आस्रावयेच् च^उपचितान् विपर्यस्येच् च कर्मसु ।[श्]
कz02.9.35च्द्। यथा न भक्षयन्त्य् अर्थं भक्षितं निर्वमन्ति वा ॥[श्]
कz02.9.36अब्। न भक्षयन्ति ये त्व् अर्थान् न्यायतो वर्धयन्ति च ।[श्]
कz02.9.36च्द्। नित्य.अधिकाराः कार्यास् ते राज्ञः प्रिय.हिते रताः ॥[श्] ए
(ओन् एदिच्त्स्)
#
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0