भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 02.10

02.10.01

शासने शासनम् इत्य् आचक्षते ॥

02.10.02

शासन.प्रधाना हि राजानः, तन्.मूलत्वात् संधि.विग्रहयोः ॥

02.10.03

तस्माद् अमात्य.सम्पदा^उपेतः सर्व.समयविद् आशु.ग्रन्थश् चारु.अक्षरो लेखन.वाचन.समर्थो लेखकः स्यात् ॥

02.10.04

सो^अव्यग्र.मना राज्ञः संदेशं श्रुत्वा निश्चित.अर्थं लेखं विदध्यात् देश.ऐश्वर्य.वंश.नामधेय.उपचारम् ईश्वरस्य, देश.नामधेय.उपचारम् अनीश्वरस्य ॥
कz02.10.05अब्। जातिं कुलं स्थान.वयः.श्रुतानि कर्म.ऋद्धि.शीलान्य् अथ देश.कालौ ।[श्]
कz02.10.05च्द्। यौन.अनुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात् पुरुष.अनुरूपम् ॥[श्]

02.10.06

अर्थ.क्रमः सम्बन्धः परिपूर्णता माधुर्यम् औदार्यं स्पष्टत्वम् इति लेख.सम्पत् ॥

02.10.07

तत्र यथावद् अनुपूर्व.क्रिया प्रधानस्य^अर्थस्य पूर्वम् अभिनिवेश इत्य् अर्थ.क्रमः ॥

02.10.08

प्रस्तुतस्य^अर्थस्य^अनुपरोधाद् उत्तरस्य विधानम् आ.समाप्तेर् इति सम्बन्धः ॥

02.10.09

अर्थ.पद.अक्षराणाम् अन्यून.अतिरिक्तता हेतु.उदाहरण.दृष्टान्तैर् अर्थ.उपवर्णना^अश्रान्त.पदता^इति परिपूर्णता ॥

02.10.10

सुख.उपनीत.चारु.अर्थ.शब्द.अभिधानं माधुर्यम् ॥

02.10.11

अग्राम्य.शब्द.अभिधानम् औदार्यम् ॥

02.10.12

प्रतीत.शब्द.प्रयोगः स्पष्टत्वम् इति ॥

02.10.13

अ.कार.आदयो वर्णास् त्रिषष्टिः ॥

02.10.14

वर्ण.संघातः पदम् ॥

02.10.15

तच् चतुर्विधं नाम.आख्यात.उपसर्ग.निपाताश् च^इति ॥

02.10.16

तत्र नाम सत्त्व.अभिधायि ॥

02.10.17

अविशिष्ट.लिङ्गम् आख्यातं क्रिया.वाचि ॥

02.10.18

क्रिया.विशेषकाः प्र.आदय उपसर्गाः ॥

02.10.19

अव्ययाश् च.आदयो निपाताः ॥

02.10.20

पद.समूहो वाक्यम् अर्थ.परिसमाप्तौ ॥

02.10.21

एक.पद.अवरस् त्रि.पद.परः पर.पद.अर्थ.अनुपरोधेन वर्गः कार्यः ॥

02.10.22

लेख.परिसंहरण.अर्थ इति.शब्दो वाचिकम् अस्य^इति च ॥
कz02.10.23अब्। निन्दा प्रशंसा पृच्छा च तथा^आख्यानम् अथ^अर्थना ।[श्]
कz02.10.23च्द्। प्रत्याख्यानम् उपालम्भः प्रतिषेधो^अथ चोदना ॥[श्]
कz02.10.24अब्। सान्त्वम् अभ्युपपत्तिश् च भर्त्सन.अनुनयौ तथा ।[श्]
कz02.10.24च्द्। एतेष्व् अर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः ॥[श्]

02.10.25

तत्र^अभिजन.शरीर.कर्मणां दोष.वचनं निन्दा ॥

02.10.26

गुण.वचनम् एतेषाम् एव प्रशंसा ॥

02.10.27

"कथम् एतद्" इति पृच्छा ॥

02.10.28

"एवम्" इत्य् आख्यानम् ॥

02.10.29

"देहि" इत्य् अर्थना ॥

02.10.30

"न प्रयच्छामि" इति प्रत्याख्यानम् ॥

02.10.31

"अननुरूपं भवतः" इत्य् उपालम्भः ॥

02.10.32

"मा कार्षीः" इति प्रतिषेधः ॥

02.10.33

"इदं क्रियताम्" इति चोदना ॥

02.10.34

"यो^अहं स भवान्, यन् मम द्रव्यं तद् भवतः" इत्य् उपग्रहः सान्त्वम् ॥

02.10.35

व्यसन.साहाय्यम् अभ्युपपत्तिः ॥

02.10.36

सदोषम् आयति.प्रदर्शनम् अभिभर्त्सनम् ॥

02.10.37

अनुनयस् त्रिविधो^अर्थ.कृताव् अतिक्रमे पुरुष.आदि.व्यसने च^इति ॥
कz02.10.38अब्। प्रज्ञापन.आज्ञा.परिदान.लेखास् तथा परीहार.निसृष्टि.लेखौ ।[श्]
कz02.10.38च्द्। प्रावृत्तिकश् च प्रतिलेख एव सर्वत्रगश् च^इति हि शासनानि ॥[श्]
कz02.10.39अब्। अनेन विज्ञापितम् एवम् आह तद् दीयतां चेद् यदि तत्त्वम् अस्ति ।[श्]
कz02.10.39च्द्। राज्ञः समीपे वर.कारम् आह प्रज्ञापना^एषा विविधा^उपदिष्टा ॥[श्]
कz02.10.40अब्। भर्तुर् आज्ञा भवेद् यत्र निग्रह.अनुग्रहौ प्रति ।[श्]
कz02.10.40च्द्। विशेषेण तु भृत्येषु तद्.आज्ञा.लेख.लक्षणम् ॥[श्]
कz02.10.41अब्। यथा.अर्ह.गुण.सम्युक्ता पूजा यत्र^उपलक्ष्यते ।[श्]
कz02.10.41च्द्। अप्य् आधौ परिदाने वा भवतस् ताव् उपग्रहौ ॥[श्]
कz02.10.42अब्। जातेर् विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु ।[श्]
कz02।10.42च्द्। अनुग्रहो यो नृप्तेर् निदेशात् तज्.ज्ञः परीहार इति व्यवस्येत् ॥[श्]
कz02.10.43अब्। निसृष्टिस्था^आपना कार्य.करणे वचने तथा ।[श्]
कz02.10.43च्द्। एष वाचिक.लेखः स्याद् भवेन् नैसृष्टिको^अपि वा ॥[श्]
कz02.10.44अब्। विविधां दैव.सम्युक्तां तत्त्वजां चैव मानुषीम् ।[श्]
कz02.10.44च्द्। द्वि.विधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति ॥[श्]
कz02.10.45अब्। दृष्ट्वा लेखं यथा.तत्त्वं ततः प्रत्यनुभाष्य च ।[श्]
कz02.10.45च्द्। प्रतिलेखो भवेत् कार्यो यथा राज.वचस् तथा ॥[श्]
कz02.10.46अब्। यत्र^ईश्वरांश् च^अधिकृतांश् च राजा रक्षा.उपकारौ पथिक.अर्थम् आह ।[श्]
कz02.10.46च्द्। सर्वत्रगो नाम भवेत् स मार्गे देशे च सर्वत्र च वेदितव्यः ॥

02.10.47

उपायाः साम.उपप्रदान.भेद.दण्डाः ॥

02.10.48

तत्र साम पञ्चविधं - गुण.संकीर्तनम्, सम्बन्ध.उपाख्यानम्, परस्पर.उपकार.संदर्शनम्, आयति.प्रदर्शनम्, आत्म.उपनिधानम् इति ॥

02.10.49

तत्र^अभिजन.शरीर.कर्म.प्रकृति.श्रुत.द्रव्य.आदीनां गुण.ग्रहणं प्रशंसा स्तुतिर् गुण.संकीर्तनम् ॥

02.10.50

ज्ञाति.यौन.मौख.स्रौव.कुल.हृदय.मित्र.संकीर्तनं सम्बन्ध.उपाख्यानम् ॥

02.10.51

स्व.पक्ष.पर.पक्षयोर् अन्योन्य.उपकार.संकीर्तनं परस्पर.उपकार.संदर्शनम् ॥

02.10.52

"अस्मिन्न् एवं कृत इदम् आवयोर् भवति" इत्य् आशा.जननम् आयति.प्रदर्शनम् ॥

02.10.53

"यो^अहं स भवान्, यन् मम द्रव्यं तद् भवता स्व.कृत्येषु प्रयोज्यताम्" इत्य् आत्म.उपनिधानम् । इति ॥

02.10.54

उपप्रदानम् अर्थ.उपकारः ॥

02.10.55

शङ्का.जननं निर्भर्त्सनं च भेदः ॥

02.10.56

वधः परिक्लेशो^अर्थ.हरणं दण्डः । इति ॥

02.10.57

अकान्तिर् व्याघातः पुनर्.उक्तम् अपशब्दः सम्प्लव इति लेख.दोषः ॥

02.10.58

तत्र काल.पत्त्रकम् अचारु.विषम् अविराग.अक्षरत्वम् अकान्तिः ॥

02.10.59

पूर्वेण पश्चिमस्य^अनुपपत्तिर् व्याघातः ॥

02.10.60

उक्तस्य^अविशेषेण द्वितीयम् उच्चारणं पुनर्.उक्तम् ॥

02.10.61

लिङ्ग.वचन.काल.कारकाणाम् अन्यथा.प्रयोगो^अपशब्दः ॥

02.10.62

अवर्गे वर्ग.करणं च^अवर्ग.क्रिया गुण.विपर्यासः सम्प्लवः । इति ॥
कz02.10.63अब्। सर्व.शास्त्राण्य् अनुक्रम्य प्रयोगम् उपलभ्य च ।[श्]
कz02.10.63च्द्। कौटिल्येन नर.इन्द्र.अर्थे शासनस्य विधिः कृतः ॥[श्] ए
(एxअमिनतिओन् ओf थे प्रेचिओउस् अर्तिच्लेस् तो बे रेचेइवेद् इन्तो थे त्रेअसुर्य्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc