अर्थशास्त्र · अध्याय 02.8
कोश.पूर्वाः सर्व.आरम्भाः ॥
तस्मात् पूर्वं कोशम् अवेक्षेत ॥
प्रचार.समृद्धिश् चरित्र.अनुग्रहश् चोर.निग्रहो युक्त.प्रतिषेधः सस्य.सम्पत् पण्य.बाहुल्यम् उपसर्ग.प्रमोक्षः परिहार.क्षयो हिरण्य.उपायनम् इति कोश.वृद्धिः ॥
प्रतिबन्धः प्रयोगो व्यवहारो^अवस्तारः परिहापणम् उपभोगः परिवर्तनम् अपहारश् च^इति कोश.क्षयः ॥
सिद्धीनाम् असाधनम् अनवतारणम् अप्रवेशनं वा प्रतिबन्धः ॥
तत्र दश.बन्धो दण्डः ॥
कोश.द्रव्याणां वृद्धि.प्रयोगाः प्रयोगः ॥
पण्य.व्यवहारो व्यवहारः ॥
तत्र फल.द्वि.गुणो दण्डः ॥
सिद्धं कालम् अप्राप्तं करोति^ अप्राप्तं प्राप्तं वा^इत्य् अवस्तारः ॥
तत्र पञ्च.बन्धो दण्डः ॥
क्लृप्तम्(कॢप्तम्) आयं परिहापयति व्ययं वा विवर्धयति^इति परिहापणम् ॥
तत्र हीन.चतुर्.गुणो दण्डः ॥
स्वयम् अन्यैर् वा राज.द्रव्याणाम् उपभोजनम् उपभोगः ॥
तत्र रत्न.उपभोगे घातः, सार.उपभोगे मध्यमः साहस.दण्डः, फल्गु.कुप्य.उपभोगे तच् च तावत्^ च दण्डः ॥
राज.द्रव्याणाम् अन्य.द्रव्येन^आदानं परिवर्तनम् ॥
तद् उपभोगेन व्याख्यातम् ॥
सिद्धम् आयं न प्रवेशयति, निबद्धं व्ययं न प्रयच्छति, प्राप्तां नीवीं विप्रतिजानीत इत्य् अपहारः ॥
तत्र द्वादश.गुणो दण्डः ॥
तेषां हरण.उपायाश् चत्वारिंशत् ॥
पूर्वं सिद्धं पश्चाद् अवतारितम्, पश्चात् सिद्धं पूर्वम् अवतारितम्, साध्यं न सिद्धम्, असाध्यं सिद्धम्, सिद्धम् असिद्धं कृतम्, असिद्धं सिद्धं कृतम्, अल्प.सिद्धं बहु कृतम्, बहु.सिद्धम् अल्पं कृतम्, अन्यत् सिद्धम् अन्यत् कृतम्, अन्यतः सिद्धम् अन्यतः कृतम्,-
देयं न दत्तम्, अदेयं दत्तम्, काले न दत्तम्, अकाले दत्तम्, अल्पं दत्तं बहु कृतम्, बहु दत्तम् अल्पं कृतम्, अन्यद् दत्तम् अन्यत् कृतम्, अन्यतो दत्तम् अन्यतः कृतम्,-
प्रविष्टम् अप्रविष्टं कृतम्, अप्रविष्टं प्रविष्टं कृतम्, कुप्यम् अदत्त.मूल्यं प्रविष्टम्, दत्त.मूल्यं न प्रविष्टं -
संक्षेपो विक्षेपः कृतः, विक्षेपः संक्षेपो वा, महा.अर्घम् अल्प.अर्घेण परिवर्तितम्, अल्प.अर्घं महा.अर्घेण वा -
समारोपितो^अर्घः, प्रत्यवरोपितो वा, संवत्सरो मास.विषमः कृतः, मासो दिवस.विषमो वा, समागम.विषमः, मुख.विषमः, कार्मिक.विषमः -
निर्वर्तन.विषमः, पिण्ड.विषमः, वर्ण.विषमः, अर्घ.विषमः, मान.विषमः, मापन.विषमः, भाजन.विषमः - इति हरण.उपायाः ॥ -
तत्र^उपयुक्त.निधायक.निबन्धक.प्रतिग्राहक.दायक.दापक.मन्त्रि.वैयावृत्य.करान् एक.एकशो^अनुयुञ्जीत ॥
मिथ्या.वादे च^एषां युक्त.समो दण्डः ॥
प्रचारे च^अवघोषयेत् "अमुना प्रकृतेन^उपहताः प्रज्ञापयन्तु" इति ॥
प्रज्ञापयतो यथा.उपघातं दापयेत् ॥
अनेकेषु च^अभियोगेष्व् अपव्ययमानः सकृद् एव पर.उक्तः सर्वं भजेत ॥
वैषम्ये सर्वत्र^अनुयोगं दद्यात् ॥
महत्य् अर्थ.अपहारे च^अल्पेन^अपि सिद्धः सर्वं भजेत ॥
कृत.प्रतिघात.अवस्थः सूचको निष्पन्न.अर्थः षष्ठम् अंशं लभेत, द्वादशम् अंशं भृतकः ॥
प्रभूत.अभियोगाद् अल्प.निष्पत्तौ निष्पन्नस्य^अंशं लभेत ॥
अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत, न च^अनुग्राह्यः ॥
कz02.8.32अब्। निष्पत्तौ निक्षिपेद् वादम् आत्मानं वा^अपवाहयेत् ।[श्]
कz02.8.32च्द्। अभियुक्त.उपजापात् तु सूचको वधम् आप्नुयात् ॥[श्] ए
(इन्स्पेच्तिओन् ओf थे ऋओर्क् ओf ओffइचेर्स्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0