अर्थशास्त्र · अध्याय 02.27
गणिका.अध्यक्षो गणिका.अन्वयाम् अगणिका.अन्वयां वा रूप.यौवन.शिल्प.सम्पन्नां सहस्रेण गणिकां कारयेत्, कुटुम्ब.अर्धेन प्रतिगणिकाम् ॥
निष्पतिता.प्रेतयोर् दुहिता भगिनी वा कुटुम्बं भरेत, माता वा प्रतिगणिकां स्थापयेत् ॥
तासाम् अभावे राजा हरेत् ॥
सौभाग्य.अलंकार.वृद्ध्या सहस्रेण वारं कनिष्ठं मध्यमम् उत्तमं वा^आरोपयेत् छत्र.भृङ्गार.व्यजन.शिबिका.पीठिका.रथेषु च विशेष.अर्थम् ॥
सौभाग्य.भङ्गे मातृकां कुर्यात् ॥
निष्क्रयश् चतुर्.विंशति.साहस्रो गणिकायाः, द्वादश.साहस्रो गणिका.पुत्रस्य ॥
अष्ट.वर्षात् प्रभृति राज्ञः कुशीलव.कर्म कुर्यात् ॥
गणिका.दासी भग्न.भोगा कोष्ठ.अगारे महानसे वा कर्म कुर्यात् ॥
अविशन्ती सपाद.पणम् अवरुद्धा मास.वेतनं दद्यात् ॥
भोगं दायमायं व्ययम् आयतिं च गणिकाया निबन्धयेत्, अति.व्यय.कर्म च वारयेत् ॥
मातृ.हस्ताद् अन्यत्र अभरण.न्यासे स.पाद.चतुष्.पणो दण्डः ॥
स्वापतेयं विक्रयम् आधानं वा नयन्त्याः स.पाद.पञ्चाशत्.पणः पणो^अर्ध.पण.च्छेदने ॥
अकामायाः कुमार्या वा साहसे उत्तमो दण्डः, स.कामायाः पूर्वः साहस.दण्डः ॥
गणिकाम् अकामां रुन्धतो निष्पातयतो वा व्रण.विदारणेन वा रूपं.उपघ्नतः सहस्रं दण्डः ॥
स्थान्.विशेषेण वा दण्ड.वृद्धिः आ.निष्क्रय.द्वि.गुणात् ॥
प्राप्त.अधिकारं गणिकां घतयतो निष्क्रय.त्रि.गुणो दण्डः ॥
मातृका.दुहितृका.रूप.दासीनां घाते उत्तमः साहस.दण्डः ॥
सर्वत्र प्रथमे^अपराधे प्रथमः, द्वितीये द्वि.गुणः, तृतीये त्रि.गुणः, चतुर्थे यथा.कामी स्यात् ॥
राज.आज्ञया पुरुषम् अनभिगच्छन्ती गणिका शिफा.सहस्रं लभेएत, पञ्च.सहस्रं वा दण्डः ॥
भोगं गृहीत्वा द्विषत्या भोग.द्वि.गुणो दण्डः ॥
वसति.भोग.अपहारे भोगम् अष्ट.गुणं दद्याद् अन्यत्र व्याधि.पुरुष.दोषेभ्यः ॥
पुरुषं घ्नत्याश् चिता.प्रतापे^अप्सु प्रवेशनं वा ॥
गणिका.भरणम् अर्थं भोगं वा^अपहरतो^अष्ट.गुणो दण्डः ॥
गणिका भोगम् आयतिं पुरुषं च निवेदयेत् ॥
एतेन नट.नर्तक.गायन.वादक.वाग्.जीवन.कुशीलव.प्लवक.सौभिक.चारणानां स्त्री.व्यवहारिणां स्त्रियो गूढ.आजीवाश् च व्याख्याताः ॥
तेषां तूर्यम् आगन्तुकं पञ्च.पणं प्रेक्षा.वेतनं दद्यात् ॥
रूप.आजीवा भोग.द्वय.गुणं मासं दद्युः ॥
गीत.वाद्य.पाठ्य.नृत्य.नाट्य.अक्षर.चित्र.वीणा.वेणु.मृदङ्ग.पर.चित्त.ज्ञान.गन्ध.माल्य.सम्यूहन.संवादन.संवाहन.वैशिक.कला.ज्ञानानि गणिका दासी रङ्ग.उपजीविनीश् च ग्राहयतो राज.मण्डलाद् आजीवं कुर्यात् ॥
गणिका.पुत्रान् रङ्ग.उपजीविनां च मुख्यान् निष्पादयेयुः, सर्व.ताल.अवचराणां च ॥
कz02.27.30अब्। संज्ञा.भाषा.अन्तरज्ञाश् च स्त्रियस् तेषाम् अनात्मसु ।
कz02.27.30च्द्। चार.घात.प्रमाद.अर्थं प्रयोज्या बन्धु.वाहनाः ॥ए
(चोन्त्रोल्लेर् ओf स्हिप्पिन्ग्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0