भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 02.26

02.26.01

सूना.अध्यक्षः प्रदिष्ट.अभयानाम् अभय.वन.वासिनां च मृग.पशु.पक्षि.मत्स्यानां बन्ध.वध.हिंसायाम् उत्तमं दण्डं कारयेत्, कुटुम्बिनाम् अभय.वन.परिग्रहेषु मध्यमम् ॥

02.26.02

अप्रवृत्त.वधानां मत्स्य.पक्षिणां बन्ध.वध.हिंसायां पाद.ऊन.सप्त.विंशति.पणम् अत्ययं कुर्यात्, मृग.पशूनां द्वि.गुणम् ॥

02.26.03

प्रवृत्त.हिंसानाम् अपरिगृहीतानां षड्.भागं गृह्णीयात्, मत्स्य.पक्षिणां दश.भागं वा^अधिकम्, मृग.पशूनां शुल्कं वा^अधिकम् ॥

02.26.04

पक्षि.मृगाणां जीवत् षड्.भागम् अभय.वनेषु प्रमुञ्चेत् ॥

02.26.05

सामुद्र.हस्त्य्.अश्व.पुरुष.वृष.गर्दभ.आकृतयो मत्स्याः सारसा न^आदेयास् तटाक.कुल्या.उद्भवा वा क्रौञ्च.उत्क्रोशक.दात्यूह.हंस.चक्रवाक.जीवन्.जीवक.भृङ्ग.राज.चकोर.मत्त.कोकिल.मयूर.शुक.मदन.शारिका विहार.पक्षिणो मङ्गल्याश् च^अन्ये^अपि प्राणिनः पक्षि.मृगा हिंसा.बाधेभ्यो रक्ष्याः ॥

02.26.06

रक्षा.अतिक्रमे पूर्वः साहस.दण्डः ॥

02.26.07

मृग.पशूनाम् अनस्थि.मांसं सद्यो.हतं विक्रीणीरन् ॥

02.26.08

अस्थिमतः प्रतिपातं दद्युः ॥

02.26.09

तुला.हीने हीन.अष्ट.गुणम् ॥

02.26.10

वत्सो वृषो धेनुश् च^एषाम् अवध्याः ॥

02.26.11

घ्नतः पञ्चाशत्को दण्डः, क्लिष्ट.घातं घातयतश् च ॥

02.26.12

परिशूनम् अशिरः.पाद.अस्थि विगन्धं स्वयं.मृतं च न विक्रीणीरन् ॥

02.26.13

अन्यथा द्वादश.पणो दण्डः ॥
कz02.26.14अब्। दुष्टाः पशु.मृग.व्याला मत्स्यश् च^अभय.चारिणः ।
कz02.26.14च्द्। अन्यत्र गुप्ति.स्थानेभ्यो वध.बन्धम् अवाप्नुयुः ॥ए
(षुपेरिन्तेन्देन्त् ओf चोउर्तेसन्स्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc