भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 02.28

02.28.01

नाव्.अध्यक्षः समुद्र.सम्यान.नदी.मुखतर.प्रचारान् देव.सरो.विसरो.नदी.तरांश् च स्थानीय.आदिष्व् अवेक्षेत ॥

02.28.02

तद्.वेला.कूल.ग्रामाः क्लृप्तं दद्युः ॥

02.28.03

मत्स्य.बन्धका नौका.भाटकं षड्.भागं दद्युः ॥

02.28.04

पत्तन.अनुवृत्तं शुल्क.भागं वणिजो दद्युः, यात्रा.वेतनं राज.नौभिः सम्पतन्तः ॥

02.28.05

शङ्ख.मुक्ता.ग्राहिणो नौ.भाटकं दद्युः, स्व.नौभिर् वा तरेयुः ॥

02.28.06

अध्यक्षश् च^एषां खन्य्.अध्यक्षेण व्याख्यातः ॥

02.28.07

पत्तन.अध्यक्ष.निबद्धं पण्य.पत्तन.चारित्रं नाव्.अध्यक्षः पालयेत् ॥

02.28.08

मूढ.वात.आहता नावः पिता^इव^अनुगृह्णीयात् ॥

02.28.09

उदक.प्राप्तं पण्यम् अशुल्कम् अर्ध.शुल्कं वा कुर्यात् ॥

02.28.10

यथा.निर्दिष्टाश् च^एताः पण्य.पत्तन.यात्रा.कालेषु प्रेषयेत् ॥

02.28.11

सम्यातीर् नावः क्षेत्र.अनुगताः शुल्कं याचेत् ॥

02.28.12

हिंस्रिका निर्घातयेत्, अमित्र.विषय.अतिगाः पण्य.पत्तन.चारित्र.उपघातिकाश् च ॥

02.28.13

शासक.निर्यामक.दात्र..रश्मि.ग्राहक.उत्सेचक.अधिष्ठिताश् च महा.नावो हेमन्त.ग्रीष्म.तार्यासु महा.नदीषु प्रयोजयेत्, क्षुद्रिकाः क्षुद्रिकासु वर्षा.स्राविणीषु ॥

02.28.14

बाध.तीर्थाश् च^एताः कार्या राज.द्विष्ट.कारिणां तरण.भयात् ॥

02.28.15

अकाले^अतीर्थे च तरतः पूर्वः साहस.दण्डः ॥

02.28.16

काले तीर्थे च^अनिषृष्ट.तारिणः पाद.ऊन.सप्त.विंशति.पणस् तर.अत्ययः ॥

02.28.17

कैवर्तक.अष्ट.तृण.भार.पुष्प.फल.वाट.षण्ड.गो.पालकानाम् अनत्ययः, सम्भाव्य.दूत.अनुपातिनां च सेना.भाण्ड.प्रयोगाणां च स्व.तरणैस् तरताम्, बीज.भक्त.द्रव्य.उपस्करांश् च^आनूप.ग्रामाणां तारयताम् ॥

02.28.18

ब्राह्मण.प्रव्रजित.बाल.वृद्ध.व्याधित.शासन.हर.गर्भिण्यो नाव्.अध्यक्ष.मुद्राभिस् तरेयुः ॥

02.28.19

कृत.प्रवेशाः पारविषयिकाः सार्थ.प्रमाणा वा प्रविशेयुः ॥

02.28.20

परस्य भार्यां कन्यां वित्तं वा^अपहरन्तं शवित्तं वा^अपहरन्तं शङ्कितम् आविग्नम् उद्भाण्डी.कृतं महा.भाण्डेन मूर्ध्नि भारेण^अवच्छादयन्तं सद्यो.गृहीत.लिङ्गिनम् अलिङ्गिनं वा प्रव्रजितम् अलक्ष्य.व्याधितं भय.विकारिणं गूढ.सार.भाण्ड.शासन.शस्त्र.अग्नियोगं विष.हस्तं दीर्घ.पथिकम् अमुद्रं च^उपग्राहयेत् ॥

02.28.21

क्षुद्र.पशुर् मनुष्यश् च स.भारो माषकं दद्यात्, शिरो.भारः काय.भारो गव^अश्वं च द्वौ, उष्ट्र.महिषं चतुरः, पञ्च लभुयानम्, षड् गोलिङ्गम्, सप्त शकटम्, पन्य.भारः पादम् ॥

02.28.22

तेन भाण्ड.भारो व्याख्यातः ॥

02.28.23

द्वि.गुणो महा.नदीषु तरः ॥

02.28.24

क्लृप्तम् आनूप.ग्रामा भक्त.वेतनं दद्युः ॥

02.28.25

प्रत्यन्तेषु तराः शुल्कम् आतिवाहिकं वर्तनीं च गृह्णीयुः, निर्गच्छतश् च^अमुद्र.द्रव्यस्य भाण्डं हरेयुः, अतिभारेण^अवेलायाम् अतिर्थे तरतश् च ॥

02.28.26

पुरुष.उपकरण.हीनायाम् असंस्कृतायां वा नावि विपन्नायां नाव्.अध्ह्यक्षो नष्टं विनष्टं वा^अभ्यावहेत् ॥
कz02.28.27अब्। सप्त.अह.वृत्ताम् आषाढीं कार्त्तिकीं च^अन्तरा तरः ।
कz02.28.27च्द्। कार्मिकः प्रत्ययं दद्यान् नित्यं च^आह्निकम् आवहेत् ॥ए
(षुपेरिन्तेन्देन्त् ओf चत्त्ले)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc