अर्थशास्त्र · अध्याय 02.19
पौतव.अध्यक्षः पौतव.कर्म.अन्तान् कारयेत् ॥
धान्य.माषा दश सुवर्ण.माषकः, पञ्च वा गुञ्जाः ॥
ते षोडश सुवर्णः कर्षो वा ॥
चतुष्.कर्षं पलम् ॥
अष्ट.अशीतिर् गौर.सर्षपा रूप्य.माषकः ॥
ते षोडश धरणम्, शौम्ब्यानि वा विंशतिः ॥
विंशति.तण्डुलं वज्र.धरणम् ॥
अर्ध.माषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः, अष्टौ सुवर्णाः दश विंशतिः त्रिंशत् चत्वारिंशत् शतम् इति ॥
तेन धरणानि व्याख्यातानि ॥
प्रतिमानान्य् अयोमयानि मागध.मेकल.शैलमयानि यानि वा न^उदक.प्रदेहाभ्यां वृद्धिं गच्छेयुर् उष्णेन वा ह्रासम् ॥
षडङ्गुलाद् ऊर्ध्वम् अष्ट.अङ्गुल.उत्तरा दश तुलाः कारयेत् लोह.पलाद् ऊर्ध्वम् एक.पल.उत्तराः, यन्त्रम् उभयतः.शिक्यं वा ॥
पञ्च.त्रिंशत्.पललोहां द्वि.सप्तत्य्.अङ्गुल.आयामां सम.वृत्तां कारयेत् ॥
तस्याः पञ्च.पलिकं मण्डलं बद्ध्वा सम.करणं कारयेत् ॥
ततः कर्ष.उत्तरं पलं पल.उत्तरं दश.पलं द्वादश पञ्चदश विंशतिर् इति पदानि कारयेत् ॥
तत आ.शताद् दश.उत्तरं कारयेत् ॥
अक्षेषु नान्दी.पिनद्धं कारयेत् ॥
द्वि.गुण.लोहां तुलाम् अतः षण्णवत्य्.अङ्गुल.आयामां परिमाणीं कारयेत् ॥
तस्याः शत.पदाद् ऊर्ध्वं विंशतिः पञ्चाशत् शतम् इति पदानि कारयेत् ॥
विंशति.तौलिको भारः ॥
दश.धारणिकं पलम् ॥
तत्.पल.शतम् आय.मानी ॥
पञ्च.पल.अवरा व्यावहारिकी भाजन्य् अन्तः.पुर.भाजनी च ॥
तासाम् अर्ध.धरण.अवरं पलम्, द्वि.पल.अवरम् उत्तर.लोहम्, षड्.अङ्गुल.अवराश् च^आयामाः ॥
पूर्वयोः पञ्च.पलिकः प्रयामो मांस.लोह.लवण.मणि.वर्जम् ॥
काष्ठ.तुला अष्ट.हस्ता पदवती प्रतिमानवती मयूर.पद.अधिष्ठिता ॥
काष्ठ.पञ्चविंशति.पलं तण्डुल.प्रस्थ.साधनम् ॥
एष प्रदेशो बह्व्.अल्पयोः ॥
इति तुला.प्रतिमानं व्याख्यातम् ॥
अथ धान्य.माष.द्वि.पल.शतं द्रोणम् आय.मानम्, सप्त.अशीति.पल.शतम् अर्ध.पलं च व्यावहारिकम्, पञ्च.सप्तति.पल.शतं भाजनीयम्, द्वि.षष्टि.पल.शतम् अर्ध.पलं च^अन्तः.पुर.भाजनीयम् ॥
तेषाम् आढक.प्रस्थ.कुडुबाश् चतुर्.भाग.अवराः ॥
षोडश.द्रोणा खारी ॥
विंशति.द्रोणिकः कुम्भः ॥
कुम्भैर् दशभिर् वहः ॥
शुष्क.सार.दारु.मयं समं चतुर्.भाग.शिखं मानं कारयेत्, अन्तः.शिखं वा ॥
रसस्य तु सुरायाः पुष्प.फलयोस् तुष.अङ्गाराणां सुधायाश् च शिखा.मानं द्वि.गुण.उत्तरा वृद्धिः ॥
स-पाद.पणो द्रोण.मूल्यम् आढकस्य पाद.ऊनः, षण्.माषकाः प्रस्थस्य, माषकः कुडुबस्य ॥
द्वि.गुणं रस.आदीनां मान.मूल्यम् ॥
विंशति.पणाः प्रतिमानस्य ॥
तुला.मूल्यं त्रि.भागः ॥
चतुर्.मासिकं प्रातिवेधनिकं कारयेत् ॥
अप्रतिविद्धस्य^अत्ययः स-पादः सप्त.विंशति.पणः ॥
प्रातिवेधनिकं काकणीकम् अहर् अहः पौतव.अध्यक्षाय दद्युः ॥
द्वात्रिंशद्.भागस् तप्त.व्याजी सर्पिषः, चतुः.षष्टि.भागस् तैलस्य ॥
पञ्चाशद् भागो मान.स्रावो द्रवाणाम् ॥
कुडुब.अर्ध.चतुर्.अष्ट.भागानि मानानि कारयेत् ॥
कुडुबाश् चतुर्.अशीतिर् वारकः सर्पिषो मतः ॥
चतुः.षष्टिस् तु तैलस्य पादश् च घटिका^अनयोः ॥
(ंएअसुरेस् ओf स्पचे अन्द् तिमे)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0