अर्थशास्त्र · अध्याय 02.20
मान.अध्यक्ष्यो देश.काल.मानं विद्यात् ॥
अष्टौ परम.अणवो रथ.चक्र.विप्रुट् ॥
ता अष्टौ लिक्षा ॥
ता अष्तौ यूका ॥
ता अष्टौ यव.मध्यः ॥
अष्टौ यव.मध्या अङ्गुलम् ॥
मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्य.प्रकर्षो वा^अङ्गुलम् ॥
चतुर्.अङ्गुलो धनुर्.ग्रहः ॥
अष्ट.अङ्गुला धनुर्.मुष्टिः ॥
द्वादश.अङ्गुला वितस्तिः, छाया.पौरुषं च ॥
चतुर्.दश.अङ्गुलं शमः शलः परीरयः पदं च ॥
द्वि.वितस्तिर् अरत्निः प्राजापत्यो हस्तः ॥
स-धनुर्.ग्रहः पौतव.विवीत.मानम् ॥
स-धनुर्.मुष्टिः कुष्कुः कंसो वा ॥
द्वि.चत्वारिंशद्.अङ्गुलस् तक्ष्णः क्राकचनिक.किष्कुः स्कन्ध.आवार.दुर्ग.राज.परिग्रह.मानम् ॥
चतुष्.पञ्चाशद्.अङ्गुलः कूप्य.वन.हस्तः ॥
चतुर्.अशीत्य्.अङ्गुलो व्यामो रज्जु.मानं खात.पौरुषं च ॥
चतुर्.अरत्निर् दण्डो धनुर्.नालिका पौरुषं च गार्हपत्यम् ॥
अष्ट.शत.अङ्गुलं धनुः पथि.प्राकार.मानं पौरुषं च^अग्नि.चित्यानाम् ॥
षट्.कंसो दण्डो ब्रह्म.देय.आतिथ्य.मानम् ॥
दश.दण्डो रज्जुः ॥
द्वि.रज्जुकः परिदेशः ॥
त्रि.रज्जुकं निवर्तनम् एकतः ॥
द्वि.दण्ड.अधिको बाहुः ॥
द्वि.धनुः.सहस्रं गो.रुतम् ॥
चतुर्.गो.रुतं योजनम् ॥
इति देश.मानम् ॥
काल.मानम् अत ऊर्ध्वम् ॥
तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्व.अपर.भागौ दिवसो रात्रिः पक्षो मास ऋतुर् अयनं संवत्सरो युगम् इति कालाः ॥
द्वौ तुटौ लवः ॥
द्वौ लवौ निमेषः ॥
पञ्च.निमेषाः काष्ठाः ॥
त्रिंशत्.काष्ठाः कलाः ॥
चत्वारिंशत्.कलाः नालिका ॥
सुवर्ण.माषकाश् चत्वारश् चतुर्.अङ्गुल.आयामाः कुम्भच्.छिद्रम् आढकम् अम्भसो वा नालिका ॥
द्वि.नालिको मुहूर्तः ॥
पञ्च.दश.मुहूर्तो दिवसो रात्रिश् च चैत्रे च^आश्वयुजे च मासि भवतः ॥
ततः परं त्रिभिर् मुहूर्तैर् अन्यतरः षण्.मासं वर्धते ह्रसते च^इति ॥
छायायाम् अष्ट.पौरुष्याम् अष्टादश.भागश् छेदः, षट्.पौरुष्यां चतुर्.दश.भागः, त्रि.पौरुष्याम् अष्ट.भागः, द्वि.पौरुष्यां षड्.भागः, पौरुष्यां चतुर्.भागः, अष्ट.अङ्गुलायां त्रयो दश.भागाः, चतुर्.अङ्गुलायां त्रयो^अष्ट.भागाः, अच्छायो मध्य.अह्न इति ॥
परावृत्ते दिवसे शेषम् एवं विद्यात् ॥
आषाढे मासि नष्टच्.छायो मध्य.अह्नो भवति ॥
अतः परं श्रावण.आदीनां षण्.मासानां द्व्य्.अङ्गुल.उत्तरा माघ.आदीनां द्व्य्.अङ्गुल.अवरा छाया इति ॥
पञ्चदश.अहो.रात्राः पक्षः ॥
सोम.आप्यायनः शुक्लः ॥
सोम.अवच्छेदनो बहुलः ॥
द्वि.पक्षो मासः ॥
त्रिंशद्.अहो.रात्रः कर्म.मासः ॥
स-अर्धः सौरः ॥
अर्ध.न्यूनश् चान्द्र.मासः ॥
सप्त.विंशतिर् नाक्षत्र.मासः ॥
द्वात्रिंशद् बल.मासः ॥
पञ्चत्रिंशद् अश्व.वाहायाः ॥
चत्वारिंशद्द्.हस्ति.वाहायाः ॥
द्वौ मासाव् ऋतुः ॥
श्रावणः प्रौष्ठपदश् च वर्षाः ॥
आश्वयुजः कार्त्तिकश् च शरत् ॥
मार्ग.शीर्षः पौषश् च हेमन्तः ॥
माघः फाल्गुनश् च शिशिरः ॥
चैत्रो वैशाखश् च वसन्तः ॥
ज्येष्ठामूलीय आषाढश् च ग्रीष्मः ॥
शिशिर.आद्य् उत्तर.अयणम् ॥
वर्ष.आदि दक्षिण.अयनम् ॥
द्व्य्.अयनः संवत्सरः ॥
पञ्च.संवत्सरो युगम् । इति ॥
कz02.20.65अब्। दिवसस्य हरत्य् अर्कः षष्टि.भागम् ऋतौ ततः ।
कz02.20.65च्द्। करोत्य् एकम् अहश्.छेदं तथा^एव^एकं च चन्द्रमाः ॥
कz02.20.66अब्। एवम् अर्ध.तृतीयानाम् अब्दानाम् अधिमासकम् ।
कz02.20.66च्द्। ग्रीष्मे जनयतः पूर्वं पञ्च.अब्द.अन्ते च पश्चिमम् ॥ए
(चोल्लेच्तोर् ओf चोस्तुम्स् अन्द् तोल्ल्स्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0