अर्थशास्त्र · अध्याय 02.18
आयुध.अगार.अध्यक्षः सांग्रामिकं दौर्गकर्मिकं पर.पुर.अभिघातिकं च यन्त्रम् आयुधम् आवरणम् उपकरणं च तज्.जात.कारु.शिल्पिभिः कृत.कर्म.प्रमाण.काल.वेतन.फल.निष्पत्तिभिः कारयेत्, स्व.भूमिषु च स्थापयेत् ॥
स्थान.परिवर्तनम् आतप.प्रवात.प्रदानं च बहुशः कुर्यात् ॥
ऊष्म.उपस्नेह.क्रिमिभिर् उपहन्यमानम् अन्यथा स्थापयेत् ॥
जाति.रूप.लक्षण.प्रमाण.आगम.मूल्य.निक्षेपैश् च^उपलभेत ॥
सर्वतो.भद्र.जामदग्न्य.बहु.मुख.विश्वास.घाति.संघाटी.यानक.पर्जन्यक.बाहु.ऊर्ध्व.बाह्व्.अर्ध.बाहूनि स्थित.यन्त्राणि ॥
पाञ्चालिक.देव.दण्ड.सूकरिका.मुसल.यष्टि.हस्ति.वारक.ताल.वृन्त.मुद्गर.गदा.स्पृक्तला.कुद्दाल.आस्फाटिम.उत्पाटिम.उद्घाटिम.शतघ्नि.त्रि.शूल.चक्राणि चल.यन्त्राणि ॥
शक्ति.प्रास.कुन्त.हाटक.भिण्डि.पाल.शूल.तोमर.वराह.कर्ण.कणय.कर्पण.त्रासिक.आदीनि च हुल.मुखानि ॥
ताल.चाप.दारव.शार्ङ्गाणि कार्मुक.कोदण्ड.द्रूणा धनूंषि ॥
मूर्वा.अर्क.शन.गवेधु.वेणु.स्नायूनि ज्याः ॥
वेणु.शर.शलाका.दण्ड.आसन.नाराचाश् च^इषवः ॥
तेषां मुखानि छेदन.भेदन.ताडनान्य् आयस.अस्थि.दारवाणि ॥
निस्त्रिंश.मण्डल.अग्र.असि.यष्टयः खड्गाः ॥
खड्ग.महिष.वारण.विषाण.दारु.वेणु.मूलानि त्सरवः ॥
परशु.कुठार.पट्टस.खनित्र.कुद्दाल.क्रकच.काण्डच्.छेदनाः क्षुर.कल्पाः ॥
यन्त्र.गोष्पण.मुष्टि.पाषाण.रोचनी.दृषदश् च^अश्म.आयुधानि ॥
लोह.जालिका.पट्ट.कवच.सूत्र.कङ्कट.शिंशुमारक.खड्गि.धेनुक.हस्ति.गो.चर्म.खुर.शृङ्ग.संघातं वर्माणि ॥
शिरस्.त्राण.कण्ठ.त्राण.कूर्पास.कञ्चुक.वार.वाण.पट्ट.नाग.उदरिकाः पेटी.चर्म.हस्ति.कर्ण.ताल.मूल.धमनि.काक.पाट.किटिका.अप्रतिहत.बलाह.कान्ताश् च^आवरणाणि ॥
हस्ति.रथ.वाजिनां योग्या.भाण्डम् आलंकारिकं सम्नाह.कल्पनाश् च^उपकरणानि ॥
ऐन्द्रजालिकम् औपनिषदिकं च कर्म ॥
कz02.18.20अब्। कर्म.अन्तानां च - इच्छाम् आरम्भ.निष्पत्तिं प्रयोगं व्याजम् उद्दयम् ।
कz02.18.20च्द्। क्षय.व्ययौ च जानीयात् कुप्यानाम् आयुध.ईश्वरः ॥ए
(ष्तन्दर्दिसतिओन् ओf ऋएइघ्त्स् अन्द् मेअसुरेस्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0