अर्थशास्त्र · अध्याय 02.13
सुवर्ण.अध्यक्षः सुवर्ण.रजत.कर्म.अन्तानाम् असम्बन्ध.आवेशन.चतुः.शालाम् एक.द्वाराम् अक्ष.शालां कारयेत् ॥
विशिखा.मध्ये सौवर्णिकं शिल्पवन्तम् अभिजातं प्रात्ययिकं च स्थापयेत् ॥
जाम्बूनदं शातकुम्भं हाटकं वैणवं शृङ्ग.शुक्तिजं जात.रूपं रस.विद्धम् आकर.उद्गतं च सुवर्णम् ॥
किञ्जल्क.वर्णं मृदु स्निग्धम् अनादि भ्राजिष्णु च श्रेष्ठम्, रक्त.पीतकं मध्यमम्, रक्तम् अवरम् ॥
श्रेष्ठानां पाण्डु श्वेतं च^अप्राप्तकम् ॥
तद् येन^अप्राप्तकं तच् चतुर्.गुणेन सीसेन शोधयेत् ॥
सीस.अन्वयेन भिद्यमानं शुष्क.पटलैर् ध्मापयेत् ॥
रूक्षत्वाद् भिद्यमानं तैल.गोमये निषेचयेत् ॥
आकर.उद्गतं सीस.अन्वयेन भिद्यमानं पाक.पत्त्राणि कृत्वा गण्डिकासु कुट्टयेत्, कदली.वज्र.कन्द.कल्के वा निषेचयेत् ॥
तुत्थ.उद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यम् ॥
श्वेतं स्निग्धं मृदु च श्रेष्ठम् ॥
विपर्यये स्फोटनं च दुष्टम् ॥
तत्.सीस.चतुर्.भागेन शोधयेत् ॥
उद्गत.चूलिकम् अच्छं भ्राजिष्णु दधि.वर्णं च शुद्धम् ॥
शुद्धस्य^एको हारिद्रस्य सुवर्णो वर्णकः ॥
ततः शुल्ब.काकण्य्.उत्तर.अपसारिता आ.चतुः.सीम.अन्ताद् इति षोडश वर्णकाः ॥
सुवर्णं पूर्वं निकष्य पश्चाद् वर्णिकां निकषयेत् ॥
सम.राग.लेखम् अनिम्न.उन्नते देशे निकषितम्, परिमृदितं परिलीढं नख.अन्तराद् वा गैरिकेण.अवचूर्णितम् उपधिं विद्यात् ॥
जाति.हिङ्गुलुकेन पुष्पका.सीसेन वा गो.मूत्र.भावितेन दिग्धेन^अग्र.हस्तेन संस्पृष्टं सुवर्णं श्वेती.भवति ॥
स-केसरः स्निग्धो मृदुर् भाजिष्णुश् च निकष.रागः श्रेष्ठः ॥
कालिङ्गकस् तापी.पाषाणो वा मुद्ग.वर्णो निकषः श्रेष्ठः ॥
सम.रागी विक्रय.क्रय.हितः ॥
हस्तिच्.छविकः सहरितः प्रति.रागी विक्रय.हितः ॥
स्थिरः परुषो विषम.वर्णश् च^अप्रतिरागी क्रय.हितः ॥
छेदश् चिक्कणः सम.वर्णः श्लक्ष्णो मृदुर् भाजिष्णुश् च श्रेष्ठः ॥
तापो बहिर्.अन्तश् च समः किञ्जल्क.वर्णः कुरण्डक.पुष्प.वर्णो वा श्रेष्ठः ॥
श्यावो नीलश् च^अप्राप्तकः ॥
तुला.प्रतिमानं पौतव.अध्यक्षे वक्ष्यामः ॥
तेन^उपदेशेन रूप्य.सुवर्णं दद्याद् आददीत च ॥
अक्ष.शालाम् अनायुक्तो न^उपगच्छेत् ॥
अभिगच्छन्न् उच्छेद्यः ॥
आयुक्तो वा सरूप्य.सुवर्णस् तेन^एव जीयेत ॥
विचित.वस्त्र.हस्त.गुह्याः काञ्चन.पृषत.त्वष्टृ.तपनीय.कारवो ध्मायक.चरक.पांसु.धावकाः प्रविशेयुर् निष्कसेयुश् च ॥
सर्वं च^एषाम् उपकरणम् अनिष्ठिताश् च प्रयोगास् तत्र^एव^अवतिष्ठेरन् ॥
गृहीतं सुवर्णं धृतं च प्रयोगं करण.मध्ये दद्यात् ॥
सायं प्रातश् च लक्षितं कर्तृ.कारयितृ.मुद्राभ्यां निदध्यात् ॥
क्षेपणो गुणः क्षुद्रकम् इति कर्माणि ॥
क्षेपणः काच.अर्पण.आदीनि ॥
गुणः सूत्र.वान.आदीनि ॥
घनं सुषिरं पृषत.आदि.युक्तं क्षुद्रकम् इति ॥
अर्पयेत् काच.कर्मणः पञ्च.भागं काञ्चनं दश.भागं कटु.मानम् ॥
ताम्र.पाद.युक्तं रूप्यं रूप्य.पाद.युक्तं वा सुवर्णं संस्कृतकम्, तस्माद् रक्षेत् ॥
पृषत.काच.कर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकम्, चत्वारो वा वास्तुकं त्रयः परिभाण्डम् ॥
त्वष्टृ.कर्मणः शुल्ब.भाण्डं सम.सुवर्णेन सम्यूहयेत् ॥
रूप्य.भाण्डं घनं सुषिरं वा सुवर्ण.अर्धेन^अवलेपयेत् ॥
चतुर्.भाग.सुवर्णं वा वालुका.हिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् ।
तपनीयं ज्येष्ठं सुवर्णं सुरागं सम.सीस.अतिक्रान्तं पाक.पत्त्र.पक्वं सैन्धविकया^उज्ज्वालितं नील.पीत.श्वेत.हरित.शुक.पत्त्र.वर्णानां प्रकृतिर् भवति ॥
तीक्ष्णं च^अस्य मयूर.ग्रीव.आभं श्वेत.भङ्गं चिमिचिमायितं पीत.चूर्णितं काकणिकः सुवर्ण.रागः ॥
तारम् उपशुद्धं वा - अस्थि.तुत्थे चतुः सम.सीसे चतुः शुष्क.तुत्थे चतुः कपाले त्रिर् गोमये द्विर् एवं सप्त.दश.तुत्थ.अतिक्रान्तं सैन्धविकया^उज्ज्वालितम् ॥
एतस्मात् काकण्य्.उत्तरमाद् विमाषाद् इति सुवर्णे देयम्, पश्चाद् राग.योगः, श्वेत.तारं भवति ।
त्रयो^अंशास् तपनीयस्य द्वात्रिंशद्.भाग.श्वेत.तारम् ऊर्च्छिताः तत् श्वेत.लोहितकं भवति ॥
ताम्रं पीतकं करोति ॥
तपनीयम् उज्ज्वाल्य राग.त्रि.भागं दद्यात्, पीत.रागं भवति ॥
श्वेत.तार.भागौ द्वाव् एकस् तपनीयस्य मुद्ग.वर्णं करोति ॥
काल.अयसस्य^अर्ध.भाग.अभ्यक्तं कृष्णं भवति ॥
प्रतिलेपिना रसेन द्वि.गुण.अभ्यक्तं तपनीयं शुक.पत्त्र.वर्णं भवति ॥
तस्य.आरम्भे राग.विशेषेषु प्रतिवर्णिकां गृह्णीयात् ॥
तीक्ष्ण.ताम्र.संस्कारं च बुध्येत ॥
तस्माद् वज्र.मणि.मुक्ता.प्रवाल.रूपाणाम् अपनेयि.मानं च रूप्य.सुवर्ण.भाण्ड.बन्ध.प्रमाणानि च ॥
कz02.13.60अब्। सम.रागं सम.द्वन्द्वम् असक्त.पृषतं स्थिरम् ।
कz02.13.60च्द्। सुप्रमृष्टम् असम्पीतं विभक्तं धारणे सुखम् ॥
कz02.13.61अब्। अभिनीतं प्रभा.युक्तं संस्थानम् अधुरं समम् ।
कz02.13.61च्द्। मनो.नेत्र.अभिरामं च तपनीय.गुणाः स्मृताः ॥ए
(अच्तिवित्य् ओf थे गोल्द्स्मिथ् इन् थे मर्केत्-हिघृअय्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0