अर्थशास्त्र · अध्याय 02.14
सौवर्णिकः पौर.जान.पदानां रूप्य.सुवर्णम् आवेशनिभिः कारयेत् ॥
निर्दिष्ट.काल.कार्यं च कर्म कुर्युः, अनिर्दिष्ट.कालं कार्य.अपदेशम् ॥
कार्यस्य.अन्यथा.करणे वेतन.नाशः, तद्.द्वि.गुणश् च दण्डः ॥
काल.अतिपातने पाद.हीनं वेतनं तद्.द्वि.गुणश् च दण्डः ॥
यथा.वर्ण.प्रमाणं निक्षेपं गृह्णीयुस् तथा.विधम् एव^अर्पयेयुः ॥
काल.अन्तराद् अपि च तथा.विधम् एव प्रतिगृह्णीयुः, अन्यत्र क्षीण.परिशीर्णाभ्याम् ॥
आवेशनिभिः सुवर्ण.पुद्गल.लक्षण.प्रयोगेषु तत्.तज् जानीयात् ॥
तप्त.कल.धौतकयोः काकणिकः सुवर्णे क्षयो देयः ॥
तीक्ष्ण.काकणी - रूप्य.द्वि.गुणः - राग.प्रक्षेपः, तस्य षड्.भागः क्षयः ॥
वर्ण.हीने माष.अवरे पूर्वः साहस.दण्डः, प्रमाण.हीने मध्यमः, तुला.प्रतिमान.उपधाव् उत्तमः, कृत.भाण्ड.उपधौ च ॥
सौवर्णिकेन^अदृष्टम् अन्यत्र वा प्रयोगं कारयतो द्वादश.पणो दण्डः ॥
कर्तुर् द्वि.गुणः स-अपसारश् चेत् ॥
अनपसारः कण्टक.शोधनाय नीयेत ॥
कर्तुश् च द्वि.शतो दण्डः पणच्.छेदनं वा ॥
तुला.प्रतिमान.भाण्डं पौतव.हस्तात् क्रीणीयुः ॥
अन्यथा द्वादश.पणो दण्डः ॥
घनं सुषिरं सम्यूह्यम् अवलेप्यं संघात्यं वासितकं च कारु.कर्म ॥
तुला.विषमम् अपसारणं विस्रावणं पेटकः पिङ्कश् च^इति हरण.उपायाः ॥
सम्नामिन्य् उत्कीर्णिका भिन्न.मस्तक.उपकण्ठी कुशिक्या सकटु.कक्ष्या परिवेल्या^अयस्.कान्ता च दुष्ट.तुलाः ॥
रूप्यस्य द्वौ भागाव् एकः शुल्बस्य त्रिपुटकम् ॥
तेन^अकरोद् गतम् अपसार्यते तत्.त्रिपुटक.अपसारितम् ॥
शुल्बेन शुल्ब.अपसारितम्, वेल्लकेन वेल्लक.अपसारितम्, शुल्ब.अर्ध.सारेण हेम्ना हेम.अपसारितम् ॥
मूक.मूषा पूति.किट्टः करटुक.मुखं नाली संदंशो जोङ्गनी सुवर्चिका.लवणं तद् एव सुवर्णम् इत्य् अपसारण.मार्गाः ॥
पूर्व.प्रणिहिता वा पिण्ड.वालुका मूषा.भेदाद् अग्निष्ठाद् उद्ध्रियन्ते ॥
पश्चाद् बन्धने आचितक.पत्त्र.परीक्षायां वा रूप्य.रूपेण परिवर्तनं विस्रावणम्, पिण्ड.वालुकानां लोह.पिण्ड.वालुकाभिर् वा ॥
गाढश् च^अभ्युद्धार्यश् च पेटकः सम्यूह्य^अवलेप्य.संघात्येषु क्रियते ॥
सीस.रूपं सुवर्ण.पत्त्रेण^अवलिप्तम् अभ्यन्तरम् अष्टकेन बद्धं गाढ.पेटकः ॥
स एव पटल.सम्पुटेष्व् अभ्युद्धार्यः ॥
पत्त्रम् आश्लिष्टं यमकपत्त्रं वा^अवलेप्येषु क्रियते ॥
शुल्बं तारं वा गर्भः पत्त्राणां संघात्येषु क्रियते ॥
शुल्ब.रूपं सुवर्ण.पत्त्र.संहतं प्रमृष्टं सुपार्श्वम्, तद् एव यमक.पत्त्र.संहतं प्रमृष्टं ताम्र.तार.रुपं च^उत्तर.वर्णकः ॥
तद् उभयं तापनि.कषाभ्यां निह्शब्द.उल्लेखनाभ्यां वा विद्यात् ॥
अभ्युद्धार्यं बदर.आम्ले लवण.उदके वा सादयन्ति ॥ इति पेटकः ॥
घने सुषिरे वा रूपे सुवर्ण.मृन्.मालुका.हिङ्गुलुक.कल्पो वा तप्तो^अवतिष्ठते ॥
दृढ.वास्तुके वा रूपे वालुका.मिश्रं जतु गान्धार.पङ्को वा तप्तो^अवतिष्ठते ॥
तयोस् तापनम् अवध्वंसनं वा शुद्धिः ॥
स-परिभाण्डे वा रूपे लवणम् उल्कया कटु.शर्करया तप्तम् अवतिष्ठते ॥
तस्य क्वाथनं शुद्धिः ॥
अभ्र.पटलम् अष्टकेन द्वि.गुण.वास्तुके वा रूपे बध्यते ॥
तस्य^अपिहित.काचकस्य^उदके निमज्जत एक.देशः सीदति, पटल.अन्तरेषु वा सूच्या भिद्यते ॥
मणयो रूप्यं सुवर्णं वा घन.सुषिराणां पिङ्कः ॥
तस्य तापनम् अवध्वंसनं वा शुद्धिः । इति पिङ्कः ॥
तस्माद् वज्र.मणि.मुक्ता.प्रवाल.रूपाणां जाति.रूप.वर्ण.प्रमाण.पुद्गल.लक्षणान्य् उपलभेत ॥
कृत.भाण्ड.परीक्षायां पुराण.भाण्ड.प्रतिसंस्कारे वा चत्वारो हरण.उपायाः - परिकुट्टनम् अवच्छेदनम् उल्लेखनं परिमर्दनं वा ॥
पेटक.अपदेशेन पृषतं गुणं पिटकां वा यत् परिशातयन्ति तत्.परिकुट्टनम् ॥
यद्.द्वि.गुण.वास्तुकानां वा रूपे सीस.रूपं प्रक्षिप्य^आभ्यन्तरम् अवच्छिन्दन्ति तद् अवच्छेदनम् ॥
यद् घनानां तीक्ष्णेन^उल्लिखन्ति तद् उल्लेखनम् ॥
हरि.ताल.मनः.शिला.हिङ्गुलुक.चूर्णानाम् अन्यतमेन कुरु.विन्द.चूर्णेन वा वस्त्रं सम्यूह्य यत् परिमृद्नन्ति तत् परिमर्दनम् ॥
तेन सौवर्ण.राजतानि भाण्डानि क्षीयन्ते, न च^एषां किंचिद् अवरुग्णं भवति ॥
भग्न.खण्ड.घृष्टानां सम्यूह्यानां सदृशेन^अनुमानं कुर्यात् ॥02.14.51। अवलेप्यानां यावद् उत्पाटितं तावद् उत्पाट्य^अनुमानं कुर्यात् ॥
विरूपाणां वा तापनम् उदक.पेषणं च बहुशः कुर्यात् ॥
अवक्षेपः प्रतिमानम् अग्निर् गण्डिका भण्डिक.अधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्व.काय.ईक्षा दृतिर् उदक.शरावम् अग्निष्ठम् इति काचं विद्यात् ॥
राजतानां विस्रं मल.ग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टम् इति विद्यात् ॥
कz02.14.55अब्। एवं नवं च जीर्णं च विरूपं च^अपि भाण्डकम् ।
कz02.14.55च्द्। परीक्षेत^अत्ययं च^एषां यथा.उद्दिष्टं प्रकल्पयेत् ॥ए
(षुपेरिन्तेन्देन्त् ओf थे मगशिन्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0