भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 02.12

02.12.01

आकर.अध्यक्षः शुल्ब.धातु.शास्त्र.रस.पाक.मणि.रागज्ञस् तज्ज्ञ.सखो वा तज्.जात.कर्म.कर.उपकरण.सम्पन्नः किट्ट.मूष.अङ्गार.भस्म.लिङ्गं वा^आकरं भूत.पूर्वम् अभुत.पूर्वं वा भूमि.प्रस्तर.रस.धातुम् अत्यर्थ.वर्ण.गौरवम् उग्र.गन्ध.रसं परीक्षेत ॥

02.12.02

पर्वतानाम् अभिज्ञात.उद्देशानां बिल.गुह.उपत्यक.आलयन.गूढ.खातेष्व् अन्तः प्रस्यन्दिनो जम्बू.चूत.ताल.फल.पक्व.हरिद्रा.भेद.गुड(गूड?).हरि.ताल.मनः.शिला.क्षौद्र.हिङ्गुलुक.पुण्डरीक.शुक.मयूर.पत्त्र.वर्णाः सवर्ण.उदक.ओषधि.पर्यन्ताश् चिक्कणा विशदा भारिकाश् च रसाः काञ्चनिकाः ॥

02.12.03

अप्सु निष्ठ्यूतास् तैलवद्.विसर्पिणः षङ्क.मल.ग्राहिणश् च ताम्र.रूप्ययोः शताद् उपरि वेद्धारः ॥

02.12.04

तत्.प्रतिरूपकम् उग्र.गन्ध.रसं शिला.जतु विद्यात् ॥

02.12.05

पीतकास्.ताम्रकास् ताम्र.पीतका वा भूमि.प्रस्तर.धातवो भिन्ना नील.राजीवन्तो मुद्ग.माष.कृसर.वर्णा वा दधि.बिन्दु.पिण्ड.चित्रा हरिद्रा.हरीतकी.पद्म.पत्त्र.शैवल.यकृत्.प्लीह.अनवद्य.वर्णा भिन्नाश् चुञ्चु.वालुक.आलेखा.बिन्दु.स्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तस् ताप्यमाना न भिद्यन्ते बहु.फेन.धूमाश् च सुवर्ण.धातवः प्रतीवाप.अर्थास्
ताम्र.रूप्य.वेधनाः ॥

02.12.06

शङ्ख.कर्पूर.स्फटिक.नव.नीत.कपोत.पारावत.विमलक.मयूर.ग्रीवा.वर्णाः सस्यक.गोमेदक.गुड.मत्स्यण्डिका.वर्णाः कोविदार.पद्म.पाटलीक.लाय.क्षौम.अतसी.पुष्प.वर्णाः स-सीसाः स.अञ्जना विस्रा भिन्नाः श्वेत.आभाः कृष्णाः कृष्ण.आभाः श्वेताः सर्वे वा लेखा.बिन्दु.चित्रा मृदवो ध्मायमाना न स्फुटन्ति बहु.फेन.धूमाश् च रूप्य.धातवः ॥

02.12.07

सर्व.धातूनां गौरव.वृद्धौ सत्त्व.वृद्धिः ॥

02.12.08

तेषाम् अशुद्धा मूढ.गर्भा वा तीक्ष्ण.मूत्र.क्षर.भाविता राज.वृक्ष.वट.पीलु.गो.पित्त.रोचना.महिष.खर.करभ.मूत्र.लेण्ड.पिण्ड.बद्धास् तत्.प्रतीवापास् तद्.अवलेपा वा विशुद्धाः स्रवन्ति ॥

02.12.09

यव.माष.तिल.पलाश.पीलु.क्षारैर्.गो.क्षीर.अज.क्षीरैर् वा कदली.वज्र.कन्द.प्रतीवपो मार्दव.करः ॥
कz02.12.10अब्। मधु.मधुकम् अजा.पयः स-तैलं घृत.गुड.किण्व.युतं स-कन्दलीकम् ।
कz02.12.10च्द्। यद् अपि शत.सहस्रधा विभिन्नं भवति मृदु त्रिभिर् एव तन्.निषेकैः ॥

02.12.11

गो.दन्त.शृङ्ग.प्रतीवापो मृदु.स्तम्भनः ॥

02.12.12

भारिकः स्निग्धो मृदुश् च प्रस्तर.धातुर् भूमि.भागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्र.धातुः ॥

02.12.13

काक.मोचकः कपोत.रोचना.वर्णः श्वेत.राजि.नद्धो वा विस्रः सीस.धातुः ॥

02.12.14

ऊषर.कर्बुरः पक्व.लोष्ठ.वर्णो वा त्रपु.धातुः ॥

02.12.15

खरुम्बः पाण्डु.रोहितः सिन्दु.वार.पुष्प.वर्णो वा तीक्ष्ण.धातुः ॥

02.12.16

काक.अण्ड.भुज.पत्त्र.वर्णो वा वैकृन्तक.धातुः ॥

02.12.17

अच्छः स्निग्धः स-प्रभो घोषवान् शीतस् तीव्रस् तनु.रागश् च मणि.धातुः ॥

02.12.18

धातु.समुत्थं तज्.जात.कर्म.अन्तेषु प्रयोजयेत् ॥

02.12.19

कृत.भाण्ड.व्यवहारम् एक.मुखम्, अत्ययं च^अन्यत्र कर्तृ.क्रेतृ.विक्रेतृऋणां स्थापयेत् ॥

02.12.20

आकरिकम् अपहरन्तम् अष्ट.गुणं दापयेद् अन्यत्र रत्नेभ्यः ॥

02.12.21

स्तेनम् अनिसृष्ट.उपजीविनं च बद्धं कर्म कारयेत्, दण्ड.उपकारिणं च ॥

02.12.22

व्यय.क्रिया.भारिकम् आअकरं भागेन प्रक्रयेण वा दद्यात्, लाघविकम् आत्मना कारयेत् ॥

02.12.23

लोह.अध्यक्षस् ताम्र.सीस.त्रपु.वैकृन्त.कार.कूट.वृत्त.कंस.ताल.लोह.कर्म.अन्तान् कारयेत्, लोह.भाण्ड.व्यवहारं च ॥

02.12.24

लक्षण.अध्यक्षश् चतुर्.भाग.ताम्रं रूप्य.रूपं तीक्ष्ण.त्रपु.सीस.अञ्जनानाम् अन्यतम.माष.बीज.युक्तं कारयेत् - पणम् अर्ध.पणं पादम्, अष्ट.भागम् इति, पाद.आजीवं ताम्र.रूपं - माषकम् अर्ध.माषकं काकणीम्
अर्ध.काकणीम् इति ॥

02.12.25

रूप.दर्शकः पण.यात्रां व्यावहारिकीं कोश.प्रवेश्यां च स्थापयेत् ॥

02.12.26

रूपिकम् अष्टकं शतम्, पञ्चकं शतं व्याजीम्, पारीक्षिकम् अष्ट.भागिकम्, शतम्, पञ्च.विंशति.पणम् अत्ययं च अन्यत्र.कर्तृ.क्रेतृ.विक्रेतृ.परीक्षितृभ्यः ॥

02.12.27

खन्य्.अध्यक्षः शङ्ख.वज्र.मणि.मुक्ता.प्रवाल.क्षार.कर्म.अन्तान् कारयेत्, पणन.व्यवहारं च ॥

02.12.28

लवण.अध्यक्षः पाक.मुक्तं लवण.भागं प्रक्रयं च यथा.कालं संगृह्णीयाद्, विक्रयाच् च मूल्यं रूपं व्याजीं च ॥

02.12.29

आगन्तु.लवणं षड्.भागं दद्यात् ॥

02.12.30

दत्त.भाग.विभागस्य विक्रयः, पञ्चकं शतं व्याजीं रूपं रूपिकं च ॥

02.12.31

क्रेता शुल्कं राज.पण्यच्.छेद.अनुरूपं च वैधरणं दद्यात्, अन्यत्र क्रेता षट्.छतम् अत्ययं च ॥

02.12.32

विलवणम् उत्तमं दण्डं दद्याद्, अनिषृष्ट.उपजीवी च^अन्यत्र वानप्रस्थेभ्यः ॥

02.12.33

श्रोत्रियास् तपस्विनो विष्टयश् च भक्त.लवणं हरेयुः ॥

02.12.34

अतो^अन्यो लवण.क्षार.वर्गः शुल्कं दद्यात् ॥
कz02.12.35अब्। एवं मूल्यं च भागं च व्याजीं परिघम् अत्ययम् ।
कz02.12.35च्द्। शुल्कं वैधरणं दण्डं रूपं रूपिकम् एव च ॥
कz02.12.36अब्। खनिभ्यो द्वादश.विधं धातुं पण्यं च संहरेत् ।
कz02.12.36च्द्। एवं सर्वेषु पण्येषु स्थापयेन् मुख.संग्रहम् ॥
कz02.12.37अब्। आकर.प्रभः कोशः कोशाद् दण्डः प्रजायते ।
कz02.12.37च्द्। पृथिवी कोश.दण्डाभ्यां प्राप्यते कोश.भूषणा ॥ए
(षुपेरिन्तेन्देन्त् ओf गोल्द् इन् थे ऋओर्क्स्होप्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc