अर्थशास्त्र · अध्याय 02.11
कोश.अध्यक्षः कोश.प्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्.जात.करण.अधिष्ठितः प्रतिगृह्णीयात् ॥
ताम्र.पर्णिकं पाण्ड्यक.वाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकम् ॥
शुक्तिः शङ्खः प्रकीर्णकं च योनयः ॥
मसूरकं त्रि.पुटकं कूर्मकम् अर्ध.चन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं च^अप्रशस्तम् ॥
स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देश.विद्धं च प्रशस्तम् ॥
शीर्षकम् उपशीर्षकं प्रकाण्डकम् अवघाटकं तरल.प्रतिबद्धं च^इति यष्टि.प्रभेदाः ॥
यष्टीनाम् अष्ट.सहस्रम् इन्द्रच्.छन्दः ॥
ततो^अर्धं विजयच्.छन्दः ॥
चतुष्षष्टिर् अर्ध.हारः ॥
चतुष्.पञ्चाशद् रश्मि.कलापः ॥
द्वात्रिंशद् गुच्छः ॥
सप्त.विंशतिर् नक्षत्र.माला ॥
चतुर्विंशतिर् अर्ध.गुच्छः ॥
विंशतिर् माणवकः ॥
ततो^अर्धम् अर्ध.माणवकः ॥
एत एव मणि.मध्यास् तन्.माणवका भवन्ति ॥
एक.शीर्षकः शुद्धो हारः ॥
तद्वत्.शेषाः ॥
मणि.मध्यो^अर्ध.माणवकः ॥
त्रि.फलकः फलक.हारः, पञ्च.फलको वा ॥
सूत्रम् एकावली शुद्धा ॥
सा^एव मणि.मध्या यष्टिः ॥
हेम.मणि.चित्रा रत्नावली ॥
हेम.मणि.मुक्ता.अन्तरो^अपवर्तकः ॥
सुवर्ण.सूत्र.अन्तरं सोपानकम् ॥
मणि.मध्यं वा मणि.सोपानकम् ॥
तेन शिरो.हस्त.पाद.कटी.कलाप.जालक.विकल्पा व्याख्याताः ॥
मणिः कौटो.मालेयकः पार.समुद्रकश् च ॥
सौगन्धिकः पद्म.रागो^अनवद्य.रागः पारिजात.पुष्पको बाल.सूर्यकः ॥
वैडूर्यम् उत्पल.वर्णः शिरीष.पुष्पक उदक.वर्णो वंश.रागः शुक.पत्त्र.वर्णः पुष्य.रागो गो.मूत्रको गो.मेदकः ॥
इन्द्र.नीलो नील.अवलीयः कलाय.पुष्पको महा.नीलो जम्ब्व्.आभो जीमूत.प्रभो नन्दकः स्रवन्.मध्यः ॥
शुद्ध.स्फटिको मूलाट.वर्णः शीत.वृष्टिः सूर्य.कान्तश् च । इति मणयः ॥
षड्.अश्रश् चतुर्.अश्रो वृत्तो वा तीव्र.रागः संस्थानवान् अछः स्निग्धो गुरुर् अर्चिष्मान् अन्तर्.गत.प्रभः प्रभा.अनुलेपी च^इति मणि.गुणाः ॥
मन्द.राग.प्रभः स-शर्करः पुष्पच्.छिद्रः खण्डो दुर्विद्धो लेख.आकीर्ण इति दोषाः ॥
विमलकः सस्यको^अञ्जन.मूलकः पित्तकः सुलभको लोहित.अक्षो मृग.अश्मको ज्योती.रसको मालेयको^अहिच्.छत्रकः कूर्पः प्रतिकूर्पः सुगन्धि.कूर्पः क्षीरवकः श्शुक्ति.चूर्णकः शिला.प्रवालकः पुलकः शुक्ल.पुलक इत्य् अन्तर.जातयः ॥
शेषाः काच.मणयः ॥
सभा.राष्ट्रकं तज्जमा.राष्ट्रकं कास्तीर.राष्ट्रकं श्री.कटनकं मणिमन्तकम् इन्द्र.वानकं च वज्रम् ॥
खनिः स्रोतः प्रकीर्णकं च योनयः ॥
मार्जार.अक्षकं शिरीष.पुष्पकं गो.मूत्रकं गो.मेदकं शुद्ध.स्फटिकं मूलाटी.वर्णं मणि.वर्णानाम् अन्यतम.वर्णम् इति वज्र.वर्णाः ॥
स्थूलं गुरु प्रहार.सहं समकोटिकं भाजन.लेखि तर्कु.भ्रामि भ्राजिष्णु च प्रशस्तम् ॥
नष्ट.कोणं निराश्रि पार्श्व.अपवृत्तं च^अप्रशस्तम् ॥
प्रवालकम् आल.कन्दकं वैवर्णिकं च, रक्तं पद्म.रागं च करट.गर्भिणिका.वर्जम् इति ॥
चन्दनं सातनं रक्तं भूमि.गन्धि ॥
गो.शीर्षकं काल.ताम्रं मत्स्य.गन्धि ॥
हरि.चन्दनं शुक.पत्त्र.वर्णम् आम्र.गन्धि, तार्णसं च ॥
ग्रामेरुकं रक्तं रक्त.कालं वा बस्त.मूत्र.गन्धि ॥
दैवसभेयं रक्तं पद्म.गन्धि, जापकं च ॥
जोङ्गकं रक्तं रक्त.कालं वा स्निग्धम्, तौरूपं च ॥
मालेयकं पाण्डु.रक्तम् ॥
कुचन्दनं रूक्षम् अगुरु.कालं रक्तं रक्त.कालं वा ॥
काल.पर्वतकं रक्त.कालम् अनवद्य.वर्णं वा ॥
कोश.अगार.पर्वतकं कालं काल.चित्रं वा ॥
शीत.उदकीयं पद्म.आभं काल.स्निग्धं वा ॥
नाग.पर्वतकं रूक्षं शैवल.वर्णं वा ॥
शाकलं कपिलम् । इति ॥
लघु स्निग्धम् अश्यानं सर्पिः.स्नेह.लेपि गन्ध.सुखं त्वग्.अनुसार्य् अनुल्बणम् अविराग्य् उष्ण.सहं दाह.ग्राहि सुख.स्पर्शनम् इति चन्दन.गुणाः ॥
अगुरु जोङ्गकं कालं काल.चित्रं मण्डल.चित्रं वा ॥
श्यामं दोङ्गकम् ॥
पार.समुद्रकं चित्र.रूपम् उशीर.गन्धि नव.मालिका.गन्धि वा । इति ॥
गुरु स्निग्धं पेशल.गन्धि निर्हार्य् अग्नि.सहम् असम्प्लुत.धूमं विमर्द.सहम् इत्य् अगुरु.गुणाः ॥
तैल.पर्णिकम् अशोक.ग्रामिकं मांस.वर्णं पद्म.गन्धि ॥
जोङ्गकं रक्त.पीतकम् उत्पल.गन्धि गो.मूत्र.गन्धि वा ॥
ग्रामेरुकं स्निग्धं गो.मूत्र.गन्धि ॥
सौवर्ण.कुड्यकं रक्त.पीतं मातुलुङ्ग.गन्धि ॥
पूर्णक.द्वीपकं पद्म.गन्धि नव.नीत.गन्धि वा ॥
भद्र.श्रियं पारलौहित्यकं जाती.वर्णम् ॥
आन्तरवत्यम् उशीर.वर्णम् ॥
उभयं कुष्ठ.गन्धि च । इति ॥
कालेयकः स्वर्ण.भूमिजः स्निग्ध.पीतकः ॥
औत्तर.पर्वतको रक्त.पीतकः ॥ इति साराः ।
पिण्ड.क्वाथ.धूम.सहम् अविरागि योग.अनुविधायि च ॥
चन्दन.अगुरुवच् च तेषां गुणाः ॥
कान्तनावकं प्रैयकं च^उत्तर.पर्वतकं चर्म ॥
कान्तनावकं मयूर.ग्रीव.आभम् ॥
प्रैयकं नील.पीत.श्वेत.लेखा.बिन्दु.चित्रम् ॥
तद्.उभयम् अष्ट.अङ्गुल.आयामम् ॥
बिसी महा.बिसी च द्वादश.ग्रामीये ॥
अव्यक्त.रूपा दुहिलितिका चित्रा वा बिसी ॥
परुषा श्वेत.प्राया महाबिसी ॥
द्वादश.अङ्गुल.आयामम् उभयम् ॥
श्यामिका कालिका कदली चन्द्र.उत्तरा शाकुला च^आरोहजाः ॥
कपिला बिन्दु.चित्रा वा श्यामिका ॥
कालिका कपिला कपोत.वर्णा वा ॥
तद् उभयम् अष्ट.अङ्गुल.आयामम् ॥
परुषा कदली हस्त.आयता ॥
सा^एव चन्द्र.चित्रा चन्द्र.उत्तरा ॥
कदली.त्रि.भागा शाकुला कोठ.मण्डल.चित्रा कृत.कर्णिका^अजिन.चित्रा वा । इति ॥
सामूरं चीनसी सामूली च बाह्लवेयाः ॥
षट्.त्रिंशद्.अङ्गुलम् अञ्जन.वर्णं सामूरम् ॥
चीनसी रक्त.काली पाण्डु.काली वा ॥
सामूली गो.धूम.वर्णा । इति ॥
सांतिना नल.तूला वृत्त.पृच्छा चौद्राः ॥
सातिना कृष्णा ॥
नल.तूला नल.तूल.वर्णा ॥
कपिला वृत्त.पुच्छा च ॥ इति चर्म.जातयः ।
चर्मणां मृदु स्निग्धं बहुल.रोम च श्रेष्ठम् ॥
शुद्धं शुद्ध.रक्तं पक्ष.रक्तं च^आविकम्, खचितं वान.चित्रं खण्ड.संघात्यं तन्तु.विच्छिन्नं च ॥
कम्बलः कौचपकः कुलमितिका सौमितिका तुरग.आस्तरणं वर्णकं तलिच्छकं वार.वाणः परिस्तोमः समन्त.भद्रकं च^आविकम् ॥
पिच्छिलम् आर्द्रम् इव च सूक्ष्मं मृदु च श्रेष्ठम् ॥
अष्ट.प्रोति.संघात्या कृष्णा भिङ्गिसी वर्ष.वारणम् अपसारक इति नैपालकम् ॥
सम्पुटिका चतुर्.अश्रिका लम्बरा कटवानकं प्रावरकः सत्तलिका^इति मृग.रोम ॥
वाङ्गकं श्वेतं स्निग्धं दुकूलम् ॥
पौण्ड्रकं श्यामं मणि.स्निग्धम् ॥
सौवर्ण.कुड्यकं सूर्य.वर्णं मणि.स्निग्ध.उदक.वानं चतुर्.अश्र.वानं व्यामिश्र.वानं च ॥
एतेषाम् एक.अंशुकम् अध्यर्ध.द्वि.त्रि.चतुर्.अंशुकम् इति ॥
तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातम् ॥
मागधिका पौण्ड्रिका सौवर्ण.कुड्यका च पत्त्र.ऊर्णा ॥
नाग.वृक्षो लिकुचो बकुलो वटश् च योनयः ॥
पीतिका नाग.वृक्षिका ॥
गो.धूम.वर्णा लैकुची ॥
श्वेता बाकुली ॥
शेषा नव.नीत.वर्णा ॥
तासां सौवर्ण.कुड्यका श्रेष्ठा ॥
तया कौशेयं चीन.पट्टाश् च चीन.भूमिजा व्याख्याताः ॥
माधुरम् आपरान्तकं कालिङ्गं काशिकं वाङ्गकं वात्सकं माहिषकं च कार्पासिकं श्रेष्ठम् । इति ॥
अतः परेषां रत्नानां प्रमाणं मूल्य.लक्षणम् ।
जातिं रूपं च जानीयान् निधानं नव.कर्म च ॥
पुराण.प्रतिसंस्कारं कर्म गुह्यम् उपस्करान् ।
देश.काल.परीभोगं हिंस्राणां च प्रतिक्रियाम् ॥ए
(ष्तर्तिन्ग् ओर् मिनेस् अन्द् fअच्तोरिएस्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0