भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 01.8

01.8.01

"सह.अध्यायिनो अमात्यान् कुर्वीत, दृष्ट.शौच.सामर्थ्यत्वात्" इति भारद्वाजः ॥

01.8.02

"ते ह्य् अस्य विश्वास्या भवन्ति" इति ॥

01.8.03

न^इति विशाल.अक्षः ॥

01.8.04

"सह.क्रीडितत्वात् परिभवन्त्य् एनम् ॥

01.8.05

ये ह्य् अस्य गुह्य.सधर्माणस् तान् अमात्यान् कुर्वीत, समान.शील.व्यसनत्वात् ॥

01.8.06

ते ह्य् अस्य मर्मज्ञ.भयान् न^अपराध्यन्ति" इति ॥

01.8.07

"साधारण^एष दोषः" इति पाराशराः ॥

01.8.08

"तेषाम् अपि मर्मज्ञ.भयात् कृत.अकृतान्य् अनुवर्तेत ॥
कz01.8.09अब्। यावद्भ्यो गुह्यम् आचष्टे जनेभ्यः पुरुष.अधिपः ।
कz01.8.09च्द्। अवशः कर्मणा तेन वश्यो भवति तावताम् ॥

01.8.10

य^एनम् आपत्सु प्राण.आबाध.युक्तास्व् अनुगृह्णीयुस् तान् अमात्यान् कुर्वीत, दृष्ट.अनुरागत्वात्" इति ॥

01.8.11

न^इति पिशुनः ॥

01.8.12

"भक्तिर् एषा न बुद्धि.गुणः ॥

01.8.13

संख्यात.अर्थेषु कर्मसु नियुक्ता ये यथा.आदिष्टम् अर्थं सविशेषं वा कुर्युस् तान् अमात्यान् कुर्वीत, दृष्ट.गुणत्वात्" इति ॥

01.8.14

न^इति कौणपदन्तः ॥

01.8.15

"अन्यैर् अमात्य.गुणैर् अयुक्ता ह्य् एते ॥

01.8.16

पितृ.पैतामहान् अमात्यान् कुर्वीत, दृष्ट.अवदानत्वात् ॥

01.8.17

ते ह्य् एनम् अपचरन्तम् अपि न त्यजन्ति, सगन्धत्वात् ॥

01.8.18

अमानुषेष्व् अपि च^एतद् दृश्यते ॥

01.8.19

गावो ह्य् असगन्धं गो.गणम् अतिक्रम्य सगन्धेष्व् एव^अवतिष्ठन्ते" इति ॥

01.8.20

न^इति वातव्याधिः ॥

01.8.21

"ते ह्य् अस्य सर्वम् अवगृह्य स्वामिवत् प्रचरन्ति ॥

01.8.22

तस्मान् नीतिविदो नवान् अमात्यान् कुर्वीत ॥

01.8.23

नवास् तु यम.स्थाने दण्ड.धरं मन्यमाना न^अपराध्यन्ति" इति ॥

01.8.24

न^इति बाहु.दन्ती पुत्रः ॥

01.8.25

"शास्त्रविद् अदृष्ट.कर्मा कर्मसु विषादं गच्छेत् ॥

01.8.26

तस्माद् अभिजन.प्रज्ञा.शौच.शौर्य.अनुराग.युक्तान् अमात्यान् कुर्वीत, गुण.प्राधान्यात्" इति ॥

01.8.27

सर्वम् उपपन्नम् इति कौटिल्यः ॥

01.8.28

कार्य.सामर्थ्याद्द् हि पुरुष.सामर्थ्यं कल्प्यते ॥
कz01.8.29अब्। सामर्थ्यश् च -- विभज्य^अमात्य.विभवं देश.कालौ च कर्म च ।
कz01.8.29च्द्। अमात्याः सर्व एव^एते कार्याः स्युर् न तु मन्त्रिणः ॥ए
(अप्पोइन्त्मेन्त् ओf चोउन्सेल्लोर्स् अन्द् छप्लैन्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc