भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 01.7

01.7.01

तस्माद् अरि.षड्.वर्ग.त्यागेन^इन्द्रिय.जयं कुर्वीत, वृद्ध.सम्योगेन प्रज्ञाम्, चारेण चक्षुः, उत्थानेन योग.क्षेम.साधनम्, कार्य.अनुशासनेन स्वधर्म.स्थापनम्, विनयं विद्या.उपदेशेन, लोक.प्रियत्वम् अर्थ.सम्योगेन वृत्तिम् ॥

01.7.02

एवं वश्य.इन्द्रियः पर.स्त्री.द्रव्य.हिंसाश् च वर्जयेत्, स्वप्नं लौल्यम् अनृतम् उद्धत.वेषत्वम् अनर्थ्य.सम्योगम् अधर्म.सम्युक्तम् अनर्थ.सम्युक्तं च व्यवहारम् ॥

01.7.03

धर्म.अर्थ.अविरोधेन कामं सेवेत, न निह्सुखः स्यात् ॥

01.7.04

समं वा त्रिवर्गम् अन्योन्य.अनुबद्धम् ॥

01.7.05

एको ह्य् अत्यासेवितो धर्म.अर्थ.कामानाम् आत्मानम् इतरौ च पीडयति ॥

01.7.06

अर्थ^एव प्रधान^इति कौटिल्यः ॥

01.7.07

अर्थ.मूलौ हि धर्म.कामाव् इति ॥

01.7.08

मर्यादां स्थापयेद् आचार्यान् अमात्यान् वा, य^एनम् अपाय स्थानेभ्यो वारयेयुः, छाया.नालिका.प्रतोदेन वा रहसि प्रमाद्यन्तम् अभितुदेयुः ॥
कz01.7.09अब्। सहाय.साध्यं राजत्वं चक्रम् एकं न वर्तते ।
कz01.7.09च्द्। कुर्वीत सचिवांस् तस्मात् तेषां च शृणुयान् मतम् ॥ए
(अप्पोइन्त्मेन्त् ओf मिनिस्तेर्स्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc