अर्थशास्त्र · अध्याय 01.9
जानपदो अभिजातः स्ववग्रहः कृत.शिल्पश् चक्षुष्मान् प्राज्ञो धारयिष्णुर् दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमान् उत्साह.प्रभाव.युक्तः क्लेश.सहः शुचिर् मैत्रो दृढ.भक्तिः शील.बल.आरोग्य.सत्त्व.युक्तः स्तम्भ.चापल.हीनः सम्प्रियो वैराणाम् अकर्ता^इत्य् अमात्य.सम्पत् ॥
अतः पाद.अर्घ.गुण.हीनौ मध्यम.अवरौ ॥
तेषां जनपद्.अभिजनम् अवग्रहं च^आप्ततः परीक्षेत, समान.विद्येभ्यः शिल्पं शास्त्र.चक्षुष्मत्तां च, कर्म.आरम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च, कथा.योगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च, संवासिभ्यः शील.बल.आरोग्य.सत्त्व.योगम् अस्तम्भम् अचापलं च, प्रत्यक्षतः सम्प्रियत्वम् अवैरत्वं च ॥
प्रत्यक्ष.परोक्ष.अनुमेया हि राज.वृत्तिः ॥
स्वयं द्र्ष्टं प्रत्यक्षम् ॥
पर.उपदिष्टं परोक्षम् ॥
कर्मसु कृतेन^अकृत.अवेक्षणम् अनुमेयम् ॥
यौगपद्यात् तु कर्मणाम् अनेकत्वाद् अनेकस्थत्वाच् च देश.काल.अत्ययो मा भूद् इति परोक्षम् अमात्यैः कारयेत् ॥ इत्य् अमात्य.कर्म ।
पुरोहितम् उदित.उदित.कुल.शीलं स-अङ्गे वेदे दैवे निमित्ते दण्ड.नीत्यां च^अभिविनीतम् आपदां दैव.मानुषीणाम् अथर्वभिर् उपायैश् च प्रतिकर्तारं कुर्वीत ॥
तम् आचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनम् इव च^अनुवर्तेत ॥
कz01.9.11अब्। ब्राह्मणेन^एधितं क्षत्रं मन्त्रि.मन्त्र.अभिमन्त्रितम् ।
कz01.9.11च्द्। जयत्य् अजितम् अत्यन्तं शास्त्र.अनुगम.शस्त्रितम् ॥ए
(अस्चेर्तैन्मेन्त् ओf थे इन्तेग्रित्य् ओर् थे अब्सेन्चे ओf इन्तेग्रित्य् ओf मिनिस्तेर् ब्य् मेअन्स् ओf सेच्रेत् तेस्त्स्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0