भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 01.6

01.6.01

विद्या विनय.हेतुर् इन्द्रिय.जयः काम.क्रोध.लोभ.मान.मद.हर्ष.त्यागात् कार्यः ॥

01.6.02

कर्ण.त्वग्.अक्षि.जिह्वा.घ्राण.इन्द्रियाणां शब्द.स्पर्श.रूप.रस.गन्धेष्व् अविप्रतिपत्तिर् इन्द्रिय.जयः, शास्त्र.अनुष्ठानं वा ॥

01.6.03

कृत्स्नं हि शास्त्रम् इदम् इन्द्रिय.जयः ॥

01.6.04

तद् विरुद्ध.वृत्तिर् अवश्य.इन्द्रियश् चातुरन्तो अपि राजा सद्यो विनश्यति ॥

01.6.05

यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मण.कन्याम् अभिमन्यमानः स-बन्धु.राष्ट्रो विननाश, करालश् च वैदेहः ॥

01.6.06

कोपाज् जनमेजयो ब्राह्मणेषु विक्रान्तः, ताल.जङ्घश् च भृगुषु ॥

01.6.07

लोभाद् ऐलश् चातुर्वर्ण्यम् अत्याहारयमाणः, सौवीरश् च^अजबिन्दुः ।

01.6.08

मानाद् रावणः पर.दारान् अप्रयच्छन्, दुर्योधनो राज्याद् अंशं च ॥

01.6.09

मदाद् दम्भोद्भवो भूत.अवमानी, हैहयश् च^अर्जुनः ॥

01.6.10

हर्षाद् वातापिर् अगस्त्यम् अत्यासादयन्, वृष्णि.संघश् च द्वैपायनम् इति ॥
कz01.6.11अब्। एते च^अन्ये च बहवः शत्रु.षड्.वर्गम् आश्रिताः ।
कz01.6.11च्द्। स-बन्धु.राष्ट्रा राजानो विनेशुर् अजित.इन्द्रियाः ॥
कz01.6.12अब्। शत्रु.षड्.वर्गम् उत्सृज्य जामदग्न्यो जित.इन्द्रियः ।
कz01.6.12च्द्। अम्बरीषश् च नाभागो बुभुजाते चिरं महीम् ॥ए
((ई) ठे लिfए ओf अ सगे-लिके किन्ग्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc