भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 01.5

01.5.01

तस्माद् दण्ड.मूलास् तिस्रो विद्याः ॥

01.5.02

विनय.मूलो दण्डः प्राणभृतां योग.क्षेम.आवहः ॥

01.5.03

कृतकः स्वाभाविकश् च विनयः ॥

01.5.04

क्रिया हि द्रव्यं विनयति न^अद्रव्यम् ॥

01.5.05

शुश्रूषा श्रवण.ग्रहण.धारण.विज्ञान.ऊह.अपोह.तत्त्व.अभिनिविष्ट.बुद्धिं विद्या विनयति न^इतरम् ॥

01.5.06

विद्यानां तु यथास्वम् आचार्य.प्रामाण्याद् विनयो नियमश् च ॥

01.5.07

वृत्त.चौल.कर्मा लिपिं संख्यानं च^उपयुञ्जीत ॥

01.5.08

वृत्त.उपनयनस् त्रयीम् आन्वीक्षिकीं च शिष्टेभ्यो वार्त्ताम् अध्यक्षेभ्यो दण्ड.नीतिं वक्तृ.प्रयोक्तृभ्यः ॥

01.5.09

ब्रह्मचर्यं च षोडशाद् वर्षात् ॥

01.5.10

अतो गो.दानं दार.कर्म च^अस्य ॥

01.5.11

नित्यश् च विद्या.वृद्ध.सम्योगो विनय.वृद्ध्य्.अर्थम्, तन्.मूलत्वाद् विनयस्य ॥

01.5.12

पूर्वम् अहर्.भागं हस्त्य्.अश्व.रथ.प्रहरण.विद्यासु विनयं गच्छेत् ।

01.5.13

पश्चिमम् इतिहास.श्रवणे ॥

01.5.14

पुराणम् इतिवृत्तम् आख्यायिक.उदाहरणं धर्म.शास्त्रम् अर्थ.शास्त्रं च^इति^इतिहासः ॥

01.5.15

शेषम् अहोरात्र.भागम् अपूर्व.ग्रहणं गृहीत.परिचयं च कुर्यात्, अगृहीतानाम् आभीक्ष्ण्य.श्रवणं च ॥

01.5.16

श्रुताद्द् हि प्रज्ञा^उपजायते प्रज्ञाया योगो योगाद् आत्मवत्ता^इति विद्यानां सामर्थ्यम् ॥
कz01.5.17अब्। विद्या.विनीतो राजा हि प्रजानां विनये रतः ।
कz01.5.17च्द्। अनन्यां पृथिवीं भुङ्क्ते सर्व.भूत.हिते रतः ॥ए
(षेच्तिओन्.3: चोन्त्रोल् ओवेर् थे सेन्सेस्, (इ) चस्तिन्ग् ओउत् थे ग्रोउप् ओf सिx एनेमिएस्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc