अर्थशास्त्र · अध्याय 01.4
कृषि.पाशुपाल्ये वणिज्या च वार्ता, धान्य.पशु.हिरण्य.कुप्य.विष्टि.प्रदानाद् औपकारिकी ॥
तया स्व.पक्षं पर.पक्षं च वशी.करोति कोश.दण्डाभ्याम् ॥
आन्वीक्षिकी त्रयी वार्त्तानां योग.क्षेम.साधनो दण्डः, तस्य नीतिर् दण्ड नीतिः, अलब्ध.लाभ.अर्था लब्ध.परिरक्षणी रक्षित.विवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च ॥
तस्याम् आयत्ता लोक.यात्रा ॥
"तस्माल् लोक.यात्रा.अर्थी नित्यम् उद्यत.दण्डः स्यात् ॥
न ह्य् एवंविधं वश.उपनयनम् अस्ति भूतानां यथा दण्डः ।" इत्य् आचार्याः ॥
न^इति कौटिल्यः ॥
तीक्ष्ण.दण्डो हि भूतानाम् उद्वेजनीयो भवति ॥
मृदु.दण्डः परिभूयते ॥
यथा.अर्ह.दण्डः पूज्यते ॥
सुविज्ञात.प्रणीतो हि दण्डः प्रजा धर्म.अर्थ.कामैर् योजयति ॥
दुष्प्रणीतः काम.क्रोधाभ्याम् अवज्ञानाद् वा वानप्रस्थ.परिव्राजकान् अपि कोपयति, किं.अङ्ग पुनर् गृहस्थान् ॥
अप्रणीतस् तु मात्स्य.न्यायम् उद्भावयति ॥
बलीयान् अबलं हि ग्रसते दण्ड.धर.अभावे ॥
स तेन गुप्तः प्रभवति इति ॥
कz01.4.16अब्। चतुर्.वर्ण.आश्रमो लोको राज्ञा दण्डेन पालितः ।
कz01.4.16च्द्। स्वधर्म.कर्म.अभिरतो वर्तते स्वेषु वर्त्मसु ॥ए
(षेच्तिओन्.2: अस्सोचिअतिओन् wइथ् एल्देर्स्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0