अर्थशास्त्र · अध्याय 01.3
साम.ऋग्.यजुर्.वेदास् त्रयस् त्रयी ॥
अथर्व.वेद.इतिहास.वेदौ च वेदाः ॥
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो.विचितिर् ज्योतिषम् इति च^अङ्गानि ॥
एष त्रयी.धर्मश् चतुर्णां वर्णानाम् आश्रमाणां च स्व.धर्म.स्थापनाद् औपकारिकः ॥
स्वधर्मो ब्राह्मणस्य अध्ययनम् अध्यापनं यजनं याजनं दानं प्रतिग्रहश् च ॥
क्षत्रियस्य^अध्ययनं यजनं दानं शस्त्र.आजीवो भूत.रक्षणं च ॥
वैश्यस्य^अध्ययनं यजनं दानं कृषि.पाशुपाल्ये वणिज्या च ॥
शूद्रस्य द्विजाति.शुश्रूषा वार्त्ता कारु.कुशीलव.कर्म च ॥
गृहस्थस्य स्वधर्म.आजीवस् तुल्यैर् असमान.ऋषिभिर् वैवाह्यम् ऋतु.गामित्वं देव.पित्र्.अतिथि.पूजा भृत्येषु त्यागः शेष.भोजनं च ॥
ब्रह्म.चारिणः स्वाध्यायो अग्नि.कार्य.अभिषेकौ भैक्ष.व्रतित्वम् आचार्ये प्राण.अन्तिकी वृत्तिस् तद्.अभावे गुरु.पुत्रे स-ब्रह्म.चारिणि वा ॥
वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटा.अजिन.धारणम् अग्नि.होत्र.अभिषेकौ देवता.पित्र्.अतिथि.पूजा वन्यश् च^आहारः ॥
परिव्राजकस्य जित.इन्द्रियत्वम् अनारम्भो निष्किंचनत्वं सङ्ग.त्यागो भैक्षव्रतम् अनेकत्र^अरण्ये च वासो बाह्य.आभ्यन्तरं च शौचम् ॥
सर्वेषाम् अहिंसा सत्यं शौचम् अनसूय आनृशंस्यं क्षमा च ॥
स्वधर्मः स्वर्गाय^आनन्त्याय च ॥
तस्य^अतिक्रमे लोकः संकराद् उच्छिद्येत ॥
कz01.3.16अब्। तस्मात् स्वधर्मं भूतानां राजा न व्यभिचारयेत् ।
कz01.3.16च्द्। स्वधर्मं संदधानो हि प्रेत्य च^इह च नन्दति ॥
कz01.3.17अब्। व्यवस्थित.आर्य.मर्यादः कृत.वर्ण.आश्रम.स्थितिः ।
कz01.3.17च्द्। त्रय्या^अभिरक्षितो लोकः प्रसीदति न सीदति ॥ए
((ईइ) एस्तब्लिस्हिन्ग् (थे नेचेस्सित्य् ओf) एचोनोमिच्स्, अन्द् (इव्) थे ष्चिएन्चे ओf पोलितिच्स्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0