भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 01.2

01.2.01

आन्वीक्षिकी त्रयी वार्त्ता दण्ड.नीतिश् च^इति विद्याः ॥

01.2.02

त्रयी वार्त्ता दण्ड नीतिश् च^इति मानवाः ॥

01.2.03

त्रयी विशेषो ह्य् आन्वीक्षिकी^इति ॥

01.2.04

वार्त्ता दण्ड.नीतिश् च^इति बार्हस्पत्याः ॥

01.2.05

संवरण.मात्रं हि त्रयी लोक.यात्रा.विद इति ॥

01.2.06

दण्ड.नीतिर् एका विद्या^इत्य् औशनसाः ॥

01.2.07

तस्यां हि सर्व.विद्या.आरम्भाः प्रतिबद्धा इति ॥

01.2.08

चतस्र एव विद्या इति कौटिल्यः ॥

01.2.09

ताभिर् धर्म.अर्थौ यद् विद्यात् तद् विद्यानां विद्यात्वम् ॥

01.2.10

सांख्यं योगो लोकायतं च^इत्य् आन्वीक्षिकी ॥

01.2.11

धर्म.अधर्मौ त्रय्याम् अर्थ.अनर्थौ वार्त्तायां नय.अनयौ दण्ड.नीत्यां बल.अबले च एतासां हेतुभिर् अन्वीक्षमाणा लोकस्य उपकरोति व्यसने^अभ्युदये च बुद्धिम् अवस्थापयति प्रज्ञा.वाक्य.क्रिया.वैशारद्यं च करोति ॥
कz01.2.12अब्। प्रदीपः सर्व.विद्यानाम् उपायः सर्व.कर्मणाम् ।
कz01.2.12च्द्। आश्रयः सर्व.धर्माणां शश्वद् आन्वीक्षिकी मता ॥ए
(छप्.3, षेच्तिओन्.1, (ई) एस्तब्लिस्हिन्ग् (थे नेचेस्सित्य् ओf) थे वेदिच् ळोरे)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc