अर्थशास्त्र · अध्याय 01.12
ये च^अप्य् अस्मबन्धिनो अवश्य.भर्तव्यास् ते लक्षणम् अङ्ग.विद्यां जम्भक.विद्यां माया.गतम् आश्रम.धर्मं निमित्तम् अन्तर.चक्रम् इत्य् अधीयानाः सत्त्रिणः, संसर्ग.विद्यां च ॥
ये जनपदे शूरास् त्यक्त.आत्मानो हस्तिनं व्यालं वा द्रव्य.हेतोः प्रतियोधयेयुस् ते तीक्ष्णाः ॥
ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश् च ते रसदाः ॥
परिव्राजिका वृत्ति.कामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्य् अन्तःपुरे कृत.सत्कारा महा.मात्र.कुलान्य् अभिगच्छेत् ॥
एतया मुण्डा वृषल्यो व्याख्याताः ॥ इति संचाराः ।
तान् राजा स्व.विषये मन्त्रि.पुरोहित.सेना.पति.युव.राज.दौवारिक.अन्तर्वंशिक.प्रशास्तृ.समाहर्तृ.सम्निधातृ.प्रदेष्टृ.नायक.पौर.व्यावहारिक.कार्मान्तिक.मन्त्रि.परिषद्.अध्यक्ष.दण्ड.दुर्ग.अन्तपाल.आटविकेषु श्रद्धेय.देश.वेष.शिल्प.भाषा.अभिजन.अपदेशान् भक्तितः सामर्थ्य.योगाच् च^अपसर्पयेत् ॥
तेषां बाह्यं चारं छत्र.भृङ्गार.व्यजन.पादुक.आसन.यान.वाहन.उपग्राहिणस् तीक्ष्णा विद्युः ॥
तं सत्त्रिणः संस्थास्व् अर्पयेयुः ॥
सूद.आरालिक.स्नापक.संवाहक.आस्तरक.कल्पक.प्रसाधक.उदक.परिचारका रसदाः कुब्ज.वामन.किरात.मूक.बधिर.जड.अन्धच्.छद्मानो नट.नर्तक.गायन.वादक.वाग्.जीवन.कुशीलवाः स्त्रियश् च^आभ्यन्तरं चारं विद्युः ॥
तं भिक्ष्क्यः संस्थास्व् अप्रयेयुः ॥
संस्थानाम् अन्तेवासिनः संज्ञा.लिपिभिश् चार.संचारं कुर्युः ॥
न च^अन्योन्यं संस्थास् ते वा विद्युः ॥
भिक्षुकी.प्रतिषेधे द्वाह्स्थ.परम्परा माता.पितृ.व्यञ्जनाः शिल्प.कारिकाः कुशीलवा दास्यो वा गीत.पाठ्य.वाद्य.भाण्ड.गूढ.लेख्य.संज्ञाभिर् वा चारं निर्हरेयुः.॥
दीर्घ.रोग.उन्माद.अग्नि.रस.विसर्गेण वा गूढ.निर्गमनम् ॥
त्रयाणाम् एक.वाक्ये सम्प्रत्ययः ॥
तेषाम् अभीक्ष्ण.विनिपाते तूष्णीं.दण्डः प्रतिषेधः ॥
कण्टक.शोधन.उक्ताश् च^अपसर्पाः परेषु कृत.वेतना वसेयुर् असम्पातिनश् चार.अर्थम् ॥
त उभय.वेतनाः ॥
कz01.12.19अब्। गृहीत.पुत्र.दारांश् च कुर्याद् उभय.वेतनान् ।
कz01.12.19च्द्। तांश् च^अरि.प्रहितान् विद्यात् तेषां शौचं च तद्विधैः ॥
कz01.12.20अब्। एवं शत्रौ च मित्रे च मध्यमे च^आवपेच् चरान् ।
कz01.12.20च्द्। उदासीने च तेषां च तीर्थेष्व् अष्टादशस्व् अपि ॥
कz01.12.21अब्। अन्तर्.गृह.चरास् तेषां कुब्ज.वामन.पण्डकाः ।
कz01.12.21च्द्। शिल्पवत्यः स्त्रियो मूकाश् चित्राश् च म्लेच्छ.जातयः ॥
कz01.12.22अब्। दुर्गेषु वणिजः संस्था दुर्ग.अन्ते सिद्ध.तापसाः ।
कz01.12.22च्द्। कर्षक.उदास्थिता राष्ट्रे राष्ट्र.अन्ते व्रज.वासिनः ॥
कz01.12.23अब्। वने वन.चराः कार्याः श्रमण.आटविक.आदयः ।
कz01.12.23च्द्। पर.प्रवृत्ति.ज्ञान.अर्थाः शीघ्राश्.चार.परम्पराः ॥
कz01.12.24अब्। परस्य च^एते बोद्धव्यास् तादृशैर् एव तादृशाः ।
कz01.12.24च्द्। चार.संचारिणः संस्था गूढाश् च^अगूढ.संज्ञिताः ॥
कz01.12.25अब्। अकृत्यान् कृत्य.पक्षीयैर् दर्शितान् कार्य.हेतुभिः ।
कz01.12.25च्द्। पर.अपसर्प.ज्ञान.अर्थं मुख्यान् अन्तेषु वासयेत् ॥ए
(केएपिन्ग् अ wअत्छ् ओवेर् थे सेदुचिब्ले अन्द् नोन्-सेदुचिब्ले पर्तिएस् इन् ओनेऽस् ओwन् तेर्रितोर्य्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0