भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 01.11

01.11.01

उपधाभिः शुद्ध.अमात्य.वर्गो गूढ.पुरुषान् उत्पादयेत् कापटिक.उदास्थित.गृह.पतिक.वैदेहक.तापस.व्यञ्जनान् सत्त्रि.तीष्क्ण.रसद.भिक्षुकीश् च ॥

01.11.02

पर.मर्मज्ञः प्रगल्भश् छात्रः कापटिकः ॥

01.11.03

तम् अर्थ.मानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात् - "राजानं मां च प्रमाणं कृत्वा यस्य यद् अकुशलं पश्यसि तत् तदानीम् एव प्रत्यादिश" इति ॥

01.11.04

प्रव्रज्या प्रत्यवसितः प्रज्ञा.शौच.युक्त उदास्थितः ॥

01.11.05

स वार्त्ता.कर्म.प्रदिष्टायां भूमौ प्रभूत.हिरण्य.अन्तेवासी कर्म कारयेत् ॥

01.11.06

कर्म.फलाच् च सर्व.प्रव्रजितानां ग्रास.आच्छादन.आवसथान् प्रतिविदध्यात् ॥

01.11.07

वृत्ति.कामांश् च^उपजपेत् - "एतेन^एव वेषेण राज.अर्थश् चरितव्यो भक्त.वेतन.काले च^उपस्थातव्यम्" इति ॥

01.11.08

सर्व.प्रव्रजिताश् च स्वं स्वं वर्गम् एवम् उपजपेयुः ॥

01.11.09

कर्षको वृत्ति.क्षीणः प्रज्ञा.शौच.युक्तो गृह.पतिक.व्यञ्जनः ॥

01.11.10

स कृषि.कर्म.प्रदिष्टायां भूमौ - इति समानं पूर्वेण ॥

01.11.11

वाणिजको वृत्ति.क्षीणः प्रज्ञा.शौच.युक्तो वैदेहक.व्यञ्जनः ॥

01.11.12

स वणिक्.कर्म.प्रदिष्टायां भूमौ - इति समानं पूर्वेण ॥

01.11.13

मुण्डो जटिलो वा वृत्ति.कामस् तापस.व्यञ्जनः ॥

01.11.14

स नगर.अभ्याशे प्रभूत.मुण्ड.जटिल.अन्तेवासी शाकं यव.मुष्टिं वा मास.द्विमास.अन्तरं प्रकाशम् अश्नीयात्, गूढम् इष्टम् आहारम् ॥

01.11.15

वैदेहक.अन्तेवासिनश् च^एनं समिद्ध.योगैर् अर्चयेयुः ॥

01.11.16

शिष्याश् च^अस्य^आवेदयेयुः - "असौ सिद्धः सामेधिकः" इति ॥

01.11.17

समेध.आशास्तिभिश् च^अभिगतानाम् अङ्ग.विद्यया शिष्य.संज्ञाभिश् च कर्माण्य् अभिजने अवसितान्य् आदिशेत् - अल्प.लाभम् अग्नि.दाहं चोर.भयं दूष्य.वधं तुष्टि.दानं विदेश.प्रवृत्ति.ज्ञानम्, "इदम् अद्य श्वो वा भविष्यति, इदं वा राजा करिष्यति" इति ॥

01.11.18

तद् अस्य गूढाः सत्त्रिणश् च सम्पादयेयुः ॥

01.11.19

सत्त्व.प्रज्ञा.वाक्य.शक्ति.सम्पन्नानां राज.भाग्यम् अनुव्याहरेत्, मन्त्रि.सम्योगं च ब्रूयात् ॥

01.11.20

मन्त्री च^एषां वृत्ति.कर्मभ्यां वियतेत ॥

01.11.21

ये च कारणाद् अभिक्रुद्धास् तान् अर्थ.मानाभ्यां शमयेत्, अकारण.क्रुद्धांस् तूष्णीं दण्डेन, राज.द्विष्ट.कारिणश् च ॥
कz01.11.22अब्। पूजिताश् च^अर्थ.मानाभ्यां राज्ञा राज.उपजीविनाम् ।
कz01.11.22च्द्। जानीयुः शौचम् इत्य् एताः पञ्च.संस्थाः प्रकीर्तिताः ॥ए
(अप्पोइन्त्मेन्त् ओf रोविन्ग् स्पिएस्^ ऋउलेस् fओर् सेच्रेत् सेर्वन्त्स्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc