अर्थशास्त्र · अध्याय 01.13
कृत.महा.मात्र.अपसर्पः पौर.जानपदान् अपसर्पयेत् ॥
सत्त्रिणो द्वन्द्विनस् तीर्थ.सभा.पूग.जन.समवायेषु विवादं कुर्युः ॥
"सर्व.गुण.सम्पन्नश् च^अयं राजा श्रूयते, न च^अस्य कश्चिद् गुणो दृश्यते यः पौर.जानपदान् दण्ड.कराभ्यां पीडयति" इति ॥
तत्र ये^अनुप्रशंसेयुस् तान् इतरस् तं च प्रतिषेधयेत् ॥
"मात्स्य.न्याय.अभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे ॥
धान्य.षड्.भागं पण्य.दश.भागं हिरण्यं च^अस्य भाग.धेयं प्रकल्पयाम्-आसुः ॥
तेन भृता राजानः प्रजानां योग.क्षेम.आवहाः ॥
तेषां किल्बिषम् अदण्ड.करा हरन्त्य् अयोग.क्षेम.आवहाश् च प्रजानाम् ॥
तस्माद् उञ्छ.षड्.भागम् आरण्यका^अपि निर्वपन्ति - "तस्य^एतद् भाग.धेयं यो^अस्मान् गोपायति" इति ॥
इन्द्र.यम.स्थानम् एतद् राजानः प्रत्यक्ष.हेड.प्रसादाः ॥
तान् अवमन्यमानान् दैवो^अपि दण्डः स्पृशति ॥
तस्माद् राजानो न^अवमन्तव्याः ॥
इत्य् एवं क्षुद्रकान् प्रतिषेधयेत् ॥
किं.वदन्तीं च विद्युः ॥
ये च^अस्य धान्य.पशु.हिरण्यान्य् आजीवन्ति, तैर् उपकुर्वन्ति व्यसने^अभ्युदये वा, कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति, अमित्रम् आटविकं वा प्रतिषेधयन्ति, तेषां मुण्ड.जटिल.व्यञ्जनास् तुष्ट.अतुष्टत्वं विद्युः ॥
तुष्टान् भूयो^अर्थ.मानाभ्यां पूजयेत् ॥
अतुष्टांस् तुष्टि.हेतोस् त्यागेन साम्ना च प्रसादयेत् ॥
परस्पराद् वा भेदयेद् एनान्, सामन्त.आटविक.तत्.कुलीन.अपरुद्धेभ्यश् च ॥
तथा^अप्य् अतुष्यतो दण्ड.कर.साधन.अधिकारेण जनपद.विद्वेषं ग्राहयेत् ॥
विविष्टान् उपांशु.दण्डेन जनपद.कोपेन वा साधयेत् ॥
गुप्त.पुत्र.दारान् आकर.कर्म.अन्तेषु वा वासयेत् परेषाम् आस्पद.भयात् ॥
क्रुद्ध.लुब्ध.भीत.मानिनस् तु परेषां कृत्याः ॥
तेषां कार्तान्तिक.नैमित्तिक.मौहूर्तिक.व्यञ्जनाः परस्पर.अभिसम्बन्धम् अमित्र.आटविक.सम्बन्धं वा विद्युः ॥
तुष्टान् अर्थ.मानाभ्यां पूजयेत् ।
अतुष्टान् साम.दान.भेद.दण्डैः साधयेत् ॥
कz01.13.26अब्। एवं स्व.विषये कृत्यान् अकृत्यांश् च विचक्षणः ।
कz01.13.26च्द्। पर.उपजापात् सम्रक्षेत् प्रधानान् क्षुद्रकान् अपि ॥ए
(wइन्निन्ग् ओवेर् थे सेदुचिब्ले अन्द् नोन्-सेदुचिब्ले पर्तिएस् इन् थे एनेम्य्"स् तेर्रितोर्य्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0