अर्थशास्त्र · अध्याय 01.10
मन्त्रि.पुरोहित.सखः सामान्येष्व् अधिकरणेषु स्थापयित्वा^अमात्यान् उपधाभिः शोधयेत् ॥
पुरोहितम् अयाज्य.याजन.अध्यापने नियुक्तम् अमृष्यमाणं राजा^अवक्षिपेत् ॥
स सत्त्रिभिः शपथ.पूर्वम् एकैकम् अमात्यम् उपजापयेत् - "अधार्मिको अयं राजा, साधु धार्मिकम् अन्यम् अस्य तत्.कुलीनम् अपरुद्धं कुल्यम् एक.प्रग्रहं सामन्तम् आटविकम् औपपादिकं वा प्रतिपादयामः, सर्वेषाम् एतद् रोचते, कथं वा तव" इति ॥
प्रत्याख्याने शुचिः । इति धर्म.उपधा ॥
सेना.पतिर् असत्.प्रग्रहेण^अवक्षिप्तः सत्त्रिभिर् एकैकम् अमात्यम् उपजापयेत् लोभनीयेन^अर्थेन राज.विनाशाय, "सर्वेषाम् एतद् रोचते, कथं वा तव" इति ॥
प्रत्याख्याने शुचिः । इत्य् अर्थ.उपधा ॥
परिव्राजिका लब्ध.विश्वासा^अन्तःपुरे कृत.सत्कारा महा.मात्रम् एकैकम् उपजपेत् - "राज.महिषी त्वां कामयते कृत.समागम.उपाया, महान् अर्थश् च ते भविष्यति" इति ॥
प्रत्याख्याने शुचिः । इति काम.उपधा ॥
प्रहवण.निमित्तम् एको अमात्यः सर्वान् अमात्यान् आवाहयेत् ॥
तेन^उद्वेगेन राजा तान् अवरुन्ध्यात् ॥
कापटिकश् च^अत्र पूर्व.अवरुद्धस् तेषाम् अर्थ.मान.अवक्षिप्तम् एकैकम् अमात्यम् उपजपेत् - "असत् प्रवृत्तो अयं राजा, साध्व् एनं हत्वा^अन्यं प्रतिपादयामः, सर्वेषाम् एतद् रोचते, कथं वा तव" इति ॥
प्रत्याख्याने शुचिः । इति भय.उपधा ॥
तत्र धर्म.उपधा.शुद्धान् धर्म.स्थीय.कण्टक.शोधनेषु कर्मसु स्थापयेत्, अर्थ.उपधा.शुद्धान् समाहर्तृ.सम्निधातृ.निचय.कर्मसु, काम.उपधा शुद्धान् बाह्य.आभ्यन्तर.विहार.रक्षासु, भय.उपधा.शुद्धान् आसन्न.कार्येषु राज्ञः ॥
सर्व.उपधा.शुद्धान् मन्त्रिणः कुर्यात् ॥
सर्वत्र^अशुचीन् खनि.द्रव्य.हस्ति.वन.कर्म.अन्तेषु उपयोजयेत् ॥
कz01.10.16अब्। त्रिवर्ग.भय.संशुद्धान् अमात्यान् स्वेषु कर्मसु ।
कz01.10.16च्द्। अधिकुर्याद् यथा शौचम् इत्य् आचार्या व्यवस्थिताः ॥
कz01.10.17अब्। न त्व् एव कुर्याद् आत्मानं देवीं वा लक्ष्यम् ईश्वरः ।
कz01.10.17च्द्। शौच.हेतोर् अमात्यानाम् एतत् कौटिल्य.दर्शनम् ॥
कz01.10.18अब्। न दूषणम् अदुष्टस्य विषेण^इव^अम्भसश् चरेत् ।
कz01.10.18च्द्। कदाचिद्द् हि प्रदुष्टस्य न^अधिगम्येत भेषजम् ॥
कz01.10.19अब्। कृता च कलुषा.बुद्धिर् उपधाभिश् चतुर्विधा ।
कz01.10.19च्द्। न^अगत्वा^अन्तं निवर्तेत स्थिता सत्त्ववतां धृतौ ॥
कz01.10.20अब्। तस्माद् बाह्यम् अधिष्ठानं कृत्वा कार्ये चतुर्विधे ।
कz01.10.20च्द्। शौच.अशौचम् अमात्यानां राजा मार्गेत सत्त्रिभिः ॥ए
(अप्पोइन्त्मेन्त् ओf पेर्सोन्स् इन् सेच्रेत् सेर्विचे)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0