भाषा

ENहिગુ
ग्रंथ पाठ

आप्तमीमांसा · श्लोक 81-100

81

बहिरङ्गार्थतैकान्ते प्रमाणाभासनिह्नवात् ।
सर्वेषां कार्यसिद्धिः स्याद्विरुद्धार्थाभिधायिनाम्

82

विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते

83

भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः ।
बहिःप्रमेयापेक्षायां प्रमाणं तन्निभं च ते

84

जीवशब्दः सबाह्यार्थः संज्ञात्वाद्धेतुशब्दवत् ।
मायादिभ्रान्तिसंज्ञाश्च मायाद्यैः स्वैः प्रमोक्तिवत्

85

बुद्धिशब्दार्थसंज्ञास्तास्तिस्रो बुद्ध्यादिवाचिकाः ।
तुल्या बुद्ध्यादिबोधाश्च त्रयस्तत्प्रतिबिम्बिकाः

86

वक्तृश्रोतृप्रमातॄणां वाक्यबोधप्रमाः पृथक् ।
भ्रान्तावेव प्रमाभ्रान्तौ बाह्यार्थौ तादृशेतरौ

87

बुद्धिशब्दप्रमाणत्वं बाह्यार्थे सति नासति ।
सत्यानृतव्यवस्थैवं युज्यते ऽर्थाप्त्यनाप्तिषु

88

दैवादेवार्थसिद्धिश्चेद्दैवं पौरुषतः कथम् ।
दैवतश्चेदनिर्मोक्षः पौरुषं निष्फलं भवेत्

89

पौरुषादेव सिद्धिश्चेत्पौरुषं दैवतः कथम् ।
पौरुषाच्चेदमोघं स्यात्सर्वप्राणिषु पौरुषम्

90

विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते

91

अबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः ।
बुद्धिपूर्वव्यपेक्षायामिष्टानिष्टं स्वपौरुषात्

92

पापं ध्रुवं परे दुःखात्पुण्यं च सुखतो यदि ।
अचेतनाकषायौ च बध्येयातां निमित्ततः

93

पुण्यं ध्रुवं स्वतो दुःखात्पापं च सुखतो यदि ।
वीतरागो मुनिर्विद्वांस्ताभ्यां युञ्ज्यान्निमित्ततः

94

विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते

95

विशुद्धिसंक्लेशाङ्गं चेत्स्वपरस्थं सुखासुखम् ।
पुण्यपापास्रवौ युक्तौ न चेद्व्यर्थस्तवार्हतः

96

अज्ञानाच्चेद्ध्रुवो बन्धो ज्ञेयानन्त्यान्न केवली ।
ज्ञानस्तोकाद्विमोक्षश्चेदज्ञानाद् बहुतो ऽन्यथा

97

विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते

98

अज्ञानान्मोहतो बन्धो नाज्ञानाद्वीतमोहतः ।
ज्ञानस्तोकाच्च मोक्षः स्यादमोहान्मोहितो ऽन्यथा

99

कामादिप्रभवश्चित्रः कर्मबन्धानुरूपतः ।
तच्च कर्म स्वहेतुभ्यो जीवास्ते शुद्ध्यशुद्धितः

100

शुद्ध्यशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत् ।
साद्यनादी तयोर्व्यक्ती स्वभावो ऽतर्कगोचरः

मूल पाठ: Āptamīmāṃsā · Edition: of Gajādhara Lal Jain. Benares : Jain Siddhant Prakashini Sanstha, 1914. · Data entry Diwakar Acharya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc