भाषा

ENहिગુ
ग्रंथ पाठ

आप्तमीमांसा · श्लोक 61-80

61

कार्यकारणनानात्वं गुणगुण्यन्यतापि च ।
सामान्यतद्वदन्यत्वं चैकान्तेन यदीष्यते

62

एकस्यानेकवृत्तिर्न भागाभावाद्बहूनि वा ।
भागित्वाद्वास्य नैकत्वं दोषो वृत्तेरनार्हते

63

देशकालविशेषे ऽपि स्याद्वृत्तिर्युतसिद्धिवत् ।
समानदेशता न स्यान्मूर्तकारणकार्ययोः

64

आश्रयाश्रयिभावान्न स्वातन्त्र्यं समवायिनाम् ।
इत्ययुक्तः स सम्बन्धो न युक्तः समवायिभिः

65

सामान्यं समवायश्चाप्येकैकत्र समाप्तितः ।
अन्तरेणाश्रयं न स्यान्नाशोत्पादिषु को विधिः

66

सर्वथानभिसम्बन्धः सामान्यसमवाययोः ।
ताभ्यामर्थो न सम्बद्धस्तानि त्रीणि खपुष्पवत्

67

अनन्यतैकान्ते ऽणूनां संघाते ऽपि विभागवत् ।
असंहतत्वं स्याद्भूतचतुष्कं भ्रान्तिरेव सा

68

कार्यभ्रान्तेरणुभ्रान्तिः कार्यलिङ्गं हि कारणम् ।
उभयाभावतस्तत्स्थं गुणजातीतरच्च न

69

एकत्वे ऽन्यतराभावः शेषाभावो ऽविनाभुवः ।
द्वित्वसङ्ख्याविरोधश्च संवृतिश्चेन्मृषैव सा

70

विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते

71

द्रव्यपर्याययोरैक्यं तयोरव्यतिरेकतः ।
परिणामविशेषाच्च शक्तिमच्छक्तिभावतः

72

संज्ञासंख्याविशेषाच्च स्वलक्षणविशेषतः ।
प्रयोजनादिभेदाच्च तन्नानात्वं न सर्वथा

73

यद्यापेक्षिकसिद्धिः स्यान्न द्वयं व्यवतिष्ठते ।
अनापेक्षिकसिद्धौ च न सामान्यविशेषता

74

विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते

75

धर्मधर्म्यविनाभावः सिध्यत्यन्योन्यवीक्षया ।
न स्वरूपं स्वतो ह्येतत्कारकज्ञापकाङ्गवत्

76

सिद्धं चेद्धेतुतः सर्वं न प्रत्यक्षादितो गतिः ।
सिद्धं चेदागमात्सर्वं विरुद्धार्थमतान्यपि

77

विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते

78

वक्तर्यनाप्ते यद्धेतोः साध्यं तद्धेतुसाधितम् ।
आप्ते वक्तरि तद्वाक्यात्साध्यमागमसाधितम्

79

अन्तरङ्गार्थतैकान्ते बुद्धिवाक्यं मृषाखिलम् ।
प्रमाणाभासमेवातस्तत्प्रमाणादृते कथम्

80

साध्यसाधनविज्ञप्तेर्यदि विज्ञप्तिमात्रता ।
न साध्यं न च हेतुश्च प्रतिज्ञाहेतुदोषतः

मूल पाठ: Āptamīmāṃsā · Edition: of Gajādhara Lal Jain. Benares : Jain Siddhant Prakashini Sanstha, 1914. · Data entry Diwakar Acharya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc