आप्तमीमांसा · श्लोक 101-115
तत्त्वज्ञानं प्रमाणं ते युगपत् सर्वभासनम् ।
क्रमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतम्
उपेक्षा फलमाद्यस्य शेषस्यादानहानधीः ।
पूर्वं वाज्ञाननाशो वा सर्वस्यास्य स्वगोचरे
वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषकः ।
स्यान्निपातो ऽर्थयोगित्वात्तव केवलिनामपि
स्याद्वादः सर्वथैकान्तयोगात्किंवृत्तचिद्विधिः ।
सप्तभङ्गनयापेक्षो हेयादेयविशेषकः
स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने ।
भेदः साक्षादसाक्षाच्च ह्यवस्त्वन्यतमं भवेत्
सधर्मणैव साध्यस्य साधर्म्यादविरोधतः ।
स्याद्वादप्रविभक्तार्थविशेषव्यञ्जको नयः
नयोपनयैकान्तानां त्रिकालानां समुच्चयः ।
अविभ्राड् भावसम्बन्धो द्रव्यमेकमनेकधा
मिथ्यासमूहो मिथ्या चेन्न मिथ्यैकान्ततास्ति नः ।
निरपेक्षा नया मिथ्या सापेक्षा वस्तु ते ऽर्थकृत्
नियम्यते ऽर्थो वाक्येन विधिना वारणेन वा ।
तथान्यथा च सो ऽवश्यमविशेष्यत्वमन्यथा
तदतद्वस्तु वागेषा तदेवेत्यनुशासति ।
न सत्या स्यान्मृषावाक्यैः कथं तत्त्वार्थदेशना
वाक्स्वभावो ऽन्यवागर्थप्रतिषेधनिरङ्कुशः ।
आह च स्वार्थसामान्यं तादृग्वाच्यं खपुष्पवत्
सामान्यवाग्विशेषे चेन्न शब्दार्था मृषा हि सा ।
अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलाञ्छनः
विधेयमीप्सितार्थाङ्गं प्रतिषेधविरोधि यत् ।
तथैवादेयहेयत्वमिति स्याद्वादसंस्थितिः
इतीयमाप्तमिमांसा विहिता हितमिच्छता ।
सम्यङ्मिथ्योपदेशार्थविशेषप्रतिपत्तये
जयति जगति क्लेशावेशप्रपंचहिमांशुमान्
विहितविषमैकान्तध्वान्तप्रमाणनयांशुमान् ।
यतिपतिरजो यस्याधृष्टान्मताम्बुनिधेर्लवान्
स्वमतमतयस्तीर्थ्या नाना परे समुपासते
मूल पाठ: Āptamīmāṃsā · Edition: of Gajādhara Lal Jain. Benares : Jain Siddhant Prakashini Sanstha, 1914. · Data entry Diwakar Acharya · GRETIL (Göttingen) · CC BY-NC-SA 4.0