आप्तमीमांसा · श्लोक 41-60
क्षणिकैकान्तपक्षे ऽपि प्रेत्यभावाद्यसम्भवः ।
प्रत्यभिज्ञाद्यभावान्न कार्यारम्भः कुतः फलम्
यद्यसत्सर्वथा कार्यं तन्मा जनि खपुष्पवत् ।
मोपादाननियामो भून्माश्वासः कार्यजन्मनि
न हेतुफलभावादिरन्यभावादनन्वयात् ।
सन्तानान्तरवन्नैकः सन्तानस्तद्वतः पृथक्
अन्येष्वनन्यशब्दो ऽयं संवृतिर्न मृषा कथम् ।
मुख्यार्थः संवृतिर्नास्ति विना मुख्यान्न संवृतिः
चतुष्कोटेर्विकल्पस्य सर्वान्तेषूक्त्ययोगतः ।
तत्त्वान्यत्वमवाच्यं च तयोः सन्तानतद्वतोः
अवक्तव्यचतुष्कोटिविकल्पो ऽपि न कथ्यताम् ।
असर्वान्तमवस्तु स्यादविशेष्यविशेषणम्
द्रव्याद्यन्तरभावेन निषेधः संज्ञिनः सतः ।
असद्भेदो न भावस्तु स्थानं विधिनिषेधयोः
अवस्त्वनभिलाप्यं स्यात्सर्वान्तैः परिवर्जितम् ।
वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात्
सर्वान्ताश्चेदवक्तव्यास्तेषां किं वचनं पुनः ।
संवृत्तिश्चेन्मृषैवैषा परमार्थविपर्ययात्
अशक्यत्वादवाच्यं किमभावात्किमबोधतः ।
आद्यतोक्तिद्वयं न स्यात्किं व्याजेनोच्यतां स्फुटम्
हिनस्त्यनभिसंधातृ न हिनस्त्यभिसन्धिमत् ।
बध्यते तद्द्वयापेतं चित्तं बद्धं न मुच्यते
अहेतुकत्वानाशस्य हिंसाहेतुर्न हिंसकः ।
चित्तसन्ततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः
विरूपकार्यारम्भाय यदि हेतुसमागमः ।
आश्रयिभ्यामनन्यो ऽसावविशेषादयुक्तवत्
स्कन्धाः सन्ततयश्चैव संवृतित्वादसंस्कृताः ।
स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविषाणवत्
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते
नित्यं तत्प्रत्यभिज्ञानान्नाकस्मात्तदविच्छिदा ।
क्षणिकं कालभेदात्ते बुद्ध्यसञ्चरदोषतः
न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् ।
व्येत्युदेति विशेषात्ते सहैकत्रोदयादि सत्
कार्योत्पादः क्षयो हेतुर्नियमाल्लक्षणात्पृथक् ।
न तौ जात्याद्यवस्थानादनपेक्षाः खपुष्पवत्
घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् ।
शोकप्रमोहमाध्यस्थ्यं जनो याति सहेतुकम्
पयोव्रतो न दध्यत्ति न पयो ऽत्ति दधिव्रतः ।
अगोरसव्रतो नोभे तस्मात्तत्त्वं त्रयात्मकम्
मूल पाठ: Āptamīmāṃsā · Edition: of Gajādhara Lal Jain. Benares : Jain Siddhant Prakashini Sanstha, 1914. · Data entry Diwakar Acharya · GRETIL (Göttingen) · CC BY-NC-SA 4.0