आप्तमीमांसा · श्लोक 21-40
एवं विधिनिषेधाभ्यामनवस्थितमर्थकृत् ।
नेति चेन्न यथाकार्यं बहिरन्तरुपाधिभिः
धर्मे धर्मे ऽन्य एवार्थो धर्मिणो ऽनन्तधर्मणः ।
अङ्गित्वे ऽन्यतमान्तस्य शेषान्तानां तदङ्गता
एकानेकविकल्पादावुत्तरत्रापि योजयेत् ।
प्रक्रियां भङ्गिनीमेनां नयैर्नयविशारदः
अद्वैताकान्तपक्षे ऽपि दृष्टो भेदो विरुध्यते ।
कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते
कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् ।
विद्याविद्याद्वयं न स्याद्बन्धमोक्षद्वयं तथा
हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्याद्धेतुसाध्ययोः ।
हेतुना चेद्विना सिद्धिर्द्वैतं वाङ्मात्रतो न किम्
अद्वैतं न विना द्वैतादहेतुरिव हेतुना ।
संज्ञिनः प्रतिषेधो न प्रतिषेध्यादृते क्वचित्
पृथक्त्वैकान्तपक्षे ऽपि पृथक्त्वादपृथक्कृतौ ।
पृथक्त्वे न पृथक्त्वं स्यादनेकस्थो ह्यसौ गुणः
सन्तानः समुदायश्च साधर्म्यं च निरङ्कुशः ।
प्रेत्यभावश्च तत्सर्वं न स्यादेकत्वनिह्नवे
सदात्मना च भिन्नं चेज्ज्ञानं ज्ञेयाद् द्विधा ऽप्यसत् ।
ज्ञानाभावे कथं ज्ञेयं बहिरन्तश्च ते द्विषाम्
सामान्यार्था गिरो ऽन्येषां विशेषो नाभिलप्यते ।
सामान्याभावतस्तेषां मृषैव सकला गिरः
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते
अनपेक्षे पृथक्त्वैक्यं ह्यवस्तु द्वयहेतुतः ।
तदेवैक्यं पृथक्त्वं च स्वभेदैः साधनं यथा
सत्सामान्यात्तु सर्वैक्यं पृथग्द्रव्यादिभेदतः ।
भेदाभेदविवक्षायामसाधारणहेतुवत्
विवक्षा चाविवक्षा च विशेष्ये ऽनन्तधर्मिणि ।
सतो विशेषणस्यात्र नासतस्तैस्तदर्थिभिः
प्रमाणगोचरौ सन्तौ भेदाभेदौ न संवृती ।
तावेकत्राविरुद्धौ ते गुणमुख्यविवक्षया
नित्यत्वैकान्तपक्षे ऽपि विक्रिया नोपपद्यते ।
प्रागेव कारकाभावः क्व प्रमाणं क्व तत्फलम्
प्रमाणकारकैर्व्यक्तं व्यक्तं चेदिन्द्रियार्थवत् ।
ते च नित्यं विकार्यं किं साधोस्ते शासनाद्बहिः
यदि सत्सर्वथा कार्यं पुंवन्नोत्पत्तुमर्हति ।
परिणामप्रकॢप्तिश्च नित्यत्वैकान्तबाधिनी
पुण्यपापक्रिया न स्यात्प्रेत्यभावः फलं कुतः ।
बन्धमोक्षौ च तेषां न येषां त्वं नासि नायकः
मूल पाठ: Āptamīmāṃsā · Edition: of Gajādhara Lal Jain. Benares : Jain Siddhant Prakashini Sanstha, 1914. · Data entry Diwakar Acharya · GRETIL (Göttingen) · CC BY-NC-SA 4.0