भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बशुल्बसूत्र · अध्याय 9

9.1

पुर्वस्माच्छङ्कोः प्रतिमुच्यापरस्मिन् प्रतिमुच्य दक्षिणाप्रत्यक्परिलिखेदान्तात् ।
अष्टमः खण्डः
करविन्दीया व्याख्या
सप्तविधो ऽग्निः प्रकृतिः,. अन्ये ऽग्नयो विकृतय इत्युक्तम्, तत्रैकविधादीनां षण्णां विशेषमाह --
एकविधादीनांअभवन्ति
न भवेयुः ।
कुतः? सप्तविधवाक्यशेषुत्वाच्छुतिविप्रतिषेधाच्च ।
पक्षीभवतीत्यादिपुच्छविधायकवाक्यस्य सप्तविधप्रकरणपाठात्तच्छेषत्वावगतेः ।
किञ्चैकविधे पक्षादिविभागकरणे व्यायाममात्रताहानिः व्यायाममात्रपक्षादिकरणैकविधताहानिरिति व्यायाममात्रपक्षपुच्छैकविधत्वविधायकयोः श्रुत्योर्विरोधान्नैकविधादीनां पक्षादयो भवेयुः ।
तेषां करणोपधानादीनि एकविधप्रभृतीनामित्यत्र वक्ष्यति ।
ननु सपक्षपुच्छेषु विधाभ्यासे ऽपचये च विसप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेदित्यष्टविधाद्युपचयमते एकविधादौ अपचये ऽपिसप्तधा विभागं दर्शयति ।
तत्पक्षपुच्छविभागार्थं ।
इतरथा अपचयविषये ऽपचयस्यद् दष्टार्थत्वप्रसङ्गात् ।
तेनैकविधानामपि भवतीति गम्यते ।
तत्कथं तेषां तानि न भवन्तीति ।
उच्यते -- एकविधः प्रथमो ऽग्निः, तदुहवै सप्तविधमेव चिन्वीतेत्येवमाद्योर्वि रुद्धार्थाभिधायिन्योःश्रुत्योःसमुच्छयाभावाद्विकल्प एवावकल्पते ।
तस्मादेकविधो वा प्रथमः सप्तविधो वा प्रथमः ।
तत्र यदैकविधः प्रथमः प्रकृतिश्व; तदा द्वितीयाद्यहारेषु एकोत्तरा एव द्विविधादयः प्रयोक्तव्याः ।
प्रकृतिभूतैकविधे पक्षपुच्छा नामनाम्नानादेकविधादीनां षण्णां पक्षपुच्छानि न भवन्ति ।
सप्तविधे तु विद्यन्त एव ।
एवमष्टविधादीनां तद्विकारत्वात्तेषु च विद्यन्त एव ।
यदा सप्तविधः प्रकृतिः, इतरे तद्विकराराः तदैकविधादयो ऽप्यष्टविधवत् सपक्षपुच्छा एव भवेयुः, एवं विधापचयोक्तः सप्तविधविभागो ऽर्थवान् भविष्यति, तत्रातिरात्रवद्विकृतेरपि कदाचित् प्रथमतो ऽनुष्ठानं एकविधस्य लभ्यत एव ।
अस्मिन्नपि पक्षे एकोत्तरनियमो ऽस्त्येव ।
यदैकविधः प्रकृति ।
प्रथममाहारः, तदासावपक्षपुच्छाः ।
द्वितीयादिष्वाहारेषु द्विविधादयो यावत्सप्तविधमपक्षपुच्छा एव ।
सप्तविधादयःसपक्षपुच्छा एव ।
यदैकविधो विकृतिः प्रथमाहारः, तदासौ सपक्षपुच्छः ।
द्विती यादिष्वाहारेषु द्विविधादयःसर्वे सपक्षपुच्छा एव ।
यदा सप्तविधः प्रकृतिर्वा विकृतिर्वा प्रथमः, तदा तत ऊर्ध्वमष्टविधादयःसप्तविधा एव ।
तस्मादेकविधादीनां षण्णामपक्षपुच्छत्वं सपक्षपुव्छत्वमुभयमप्यस्त्येवेति सर्वमुपपन्नम् ।
अष्टविधादिष्वेकोत्तरेषु कथमतिरिक्तस्य विभाग इत्यत आह --
अष्टवि येत
अस्यार्थः -- अष्टविधादिष्वर्धाष्टमेभ्यो यदन्यदधिकमागन्तु तत्सप्तधा सप्तार्धधा विभज्य प्रतिपुरुषं -- पुरुषे षुरुषे भागमेकैकमावेशयेत् ।
अर्धमर्धे यावानग्निःसारत्निप्रादेशःसप्तविध इति लिङ्गाल्, कुतः? आकृतिविकारस्याश्रुतत्वात् -- श्रुतेरभावात् प्रमाणाभावादित्यर्थः ।
तत्रैकस्मिन् पुरुषक्षेत्रे पञ्चविंशतिर्द्वे शते च पञ्चदश भागीयाःशेरते, आसां त्रिंशत्र्रिंशत्पञ्चदशभागीयाः पुरुषेपुरुषे प्रक्षेप्तव्याः ।
अर्धे पञ्चदश, अयमर्थः -- प्रक्षेप्तव्यं पञ्चदशधा विभज्य तस्य द्विभाग हितं, पुरुषं यं करोति आकृतेरविकारत्वाय सा तस्य पुरुषस्य करणी ग्रह्या ।
तावान्वेणुर्भवतीत्यर्थः ।
इदानीं विमानमुच्यते ----
पुरु यते
श्रुतिद्वयमिदम् ।
अत्र्रेका श्रुतिर्द्रव्यापेक्षणी, अन्या परिमाणापेक्षणी ।
तयोः नष्टाश्वादग्धरथवत्संप्रयोगः ।
पुरुषमात्रेण वेणुनेत्यर्थः ।
यावान् -- यत्परिमाणो यजमान ऊर्ध्वभूतबाहुः तत्परिमाणं यथा छिद्रयोरन्तरालं भवति तथा वेणुछिद्रे कुर्यात् ।
पञ्चारत्निः पुरुष इति वक्ष्यति ।
स चैतद्धेतुकः ।
यूपावटस्य पश्चात् सञ्चरमवशिष्यानुपृष्ठ्यं पृष्ठ्यायां वेणुं निधाय छिद्रेषु शङ्कुं निहत्यापराभ्यां शङ्कुभ्यां वेणुमुन्मुच्यापरस्मिन् छिद्रे कीलं प्रतिक्षिप्य पूर्वस्मिन् शङ्कौ प्रतिमुच्य तेनैवापरशङ्कुमूलादारम्य दक्षिणाप्रागान्तात् परिलिखेत् ।
अन्तस्तस्याः स्तस्या दिशो ऽन्तः वेणुनाऽरब्धा रेखा यावद्दिगन्तराभिमुखी भवति तावत्परिलि खेदित्यर्थः ।
उन्मुच्य पूर्वस्माच् छङ्कोर् अपरस्मिन् शङ्कौ प्रतिमुच्य दक्षिणा प्रत्यक्पूर्ववत् परिलिखेत् ।
सुन्दरराजीया व्याख्या.
एकविध च्च
श्रुतिविप्रतिषेधो व्याममात्रौ पक्षौ च पुच्छं च भवतीति ।
चतुरश्रविषयं चैतत् ।
श्येनचिदादयस्तु सपक्षपुच्छा एव भवन्ति, तदाकृतेरेव विधेयत्वात् ।
अष्टविध येत्
यदधिकं सप्तभ्यः पुरुषक्षेत्राङ्गुलयश् च चतुर्दशसहस्राणि चत्वारि शतानि 14400 ।
ताःसप्तभ्यो ऽधिकैः पुरुषैर्हत्वा सप्तभिर्विभज्य लब्धं पुरुषक्षेत्राङ्गुलिषु संयोजयेत् ।
तास्तत्र पुरुषक्षेत्राङ्गुलयो ज्ञेयाः ।
यथा अष्टविधे पुरुक्षेत्राङ्गुलयः चतुर्दश सहस्राणि चत्वारि शतानि च सप्तभ्यो ऽधिकेनैकेन पुरुषेण हत्वा सप्तभिर्विभज्य लब्धं द्वे सहस्रे सप्तपञ्चाशच्चाङ्गुलयः पञ्चतिलयुक्ताः ।
एताः पुरुषाङ्गुलिषु संयोजयेत् ।
तास्तत्र पुरुषक्षेत्राङ्गुलयः षोडशसहस्राणि चत्वारि शतानि सप्तपञ्चाशच्चाङ्गुलयः पञ्चतिलाधिकाः 16457 ति 5. अस्य मूलं अष्टाविंशतिशतमङ्गुलयः, दशतिलादिकाः 128 ति 10. ।
एतत्पुरुषस्थानीयस्य वेणोः प्रमाणमिति हेतोः वक्ष्यते ।
"विधासप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेदितिऽ ।
एवं नवविधे पुरुषाङ्गुलीः 14400 द्वाभ्यां हत्वा सप्तभिर्विभज्य लब्धं चत्वरि सहस्राणि शतं चतुर्दशाङ्गुलयः दशतिलाधिकाः ।
तद्युक्ताः पुरुषाङ्गुलयः अष्टादशा सहस्राणि पञ्च शतानि चतुर्दश दशतिलाधिकाः 18514 ति 10 तस्य मूलं षट्त्रिंशच्छतमङ्गुलयो द्वौ तिलौ 136 ति 2. एवं नवविधे पुरुषप्रमाणम् ।
एवमेव दशाविधादिषु द्रष्टव्यम् ।
अन्यः प्रकारः -- यावन्तो ऽग्नेः पुरुषाः तत्संख्यया पुरुषाङ्गुलीर्हत्वा सप्तभिर्विभज्य लब्धं पुरुषाङ्गुलयः पूर्वोक्ता एव षोडशसहस्राणि चत्वारि शतानि सप्तपञ्चाशच्च पञ्चतिलाधिकाः 16457 ति 5. ।
एवं नवविधादिषु ।
एकस्मिंश्वाङ्गुलिक्षेत्रे तिलाःषटपञ्चाशत् शतं सहस्रं च 1156 ।
एवमरत्निप्रादेशरहितानां सपक्षपुच्छाग्नोनां पुरुषवेणुश् च ।
अत्र चतुरश्राग्नेः प्रस्तावादेकविधाग्नीनां चतुरश्राणां अपक्षपुच्छत्वादष्टविधप्रभृतीनामित्युक्तम् ।
यदा तु श्येनचिदादिविधेःसाधारणत्वात् "वयसां वा एष प्रतिमया चीयतेऽ इत्याकृतिवविधानाच्च श्येनाद्याकारत्वेन सपक्षपुच्छमकविधादीनाम् ।
तदा यन्नयूनं सप्तभ्यस्तत्सप्तधा वियज्य प्रतिपुरुषं जह्यादिति द्रष्टव्यम् ।
तत्र व्यक्त एव विमागप्रकारः ।
तथा सति एकविधश्येनचिति द्वे सहस्रे सप्तपञ्चाशच्च पञ्चतिलयुक्ताः पुरुषाङ्गुलयः 2057 ति 5 ।
तन्मूलं पञ्चचत्वारिंशदङ्गुलयो द्वादश तिलाश् च ।
पुरुषद्विविधे तु पुरुषांङ्गुलयश्वत्वारि सहस्राणि शतं चतुर्दश च त्रिंशत्तिलसंयुक्ताः ।

पुरुषवेणुस्तु चतुस्तिलाधिकाश्वतुःषष्टिरङ्गुलयः ।
एवं त्रिविधादिषु द्रष्टव्यम् ।
यो यत्राग्नौ पुरुपस्थानीयः तत्र तस्य विंशतितमो भागो विहरणे इष्टकानां चाङ्गुलिः कल्प्या ।
तिलाश् च तस्याश्वतुस्त्रिंशाः ।
तत्र श्लोकाः --
व्योमाकाशाब्धिवेदैकादभीष्टैः पुरुषैर्हतात् ।
हरेत सप्तभिर्भागं तन्मूलं पुरुषो भवेत् ॥ .1 ॥
चतुरश्रश्येनचितोः प्रादेशारत्निहीनयोः ।
तत्रतत्राङ्गुलिः कल्प्या तत्र विंशशतांशतः ।
॥ .2 ॥
सारत्निप्रादेशे तु बोधायनेनोक्तो विभागः --
"यदन्यत्प्रकृतेस्तत्पञ्चदशभागान् कृत्वा विधायां विधायां द्वौद्वौ भागौ समस्येत्, ताभिरर्धाष्टमाभिरग्निं चिनुयात्ऽ ॥
इत्यादि ।
तत्र प्रकारः -- अर्धाष्टमेभ्यो ऽधिकैः पुरुषैः पुरुषाङ्गुलीश्वदुर्हशसहस्राणि चत्वारि च शतानि हत्वा पञ्चदशभिर्विभज्य लब्धं द्विगुणीकृत्य पुरुषांङ्गुलीषु संयोजयेत् ।
तास्तत्र पुरुषाङ्गुलयः ।
यथा अर्धनवमे पुरुषेषु पुरुषाङ्गुलीरेकेन हत्वा पञ्चदशभिर्विभज्य लब्धं नव शतानि षष्टिश्वाङ्गुलयः, ता द्विगुणाः पुरुषाङ्गुलीषु संयोज्य दृष्टाः पुरुषाङ्गुल्यः षोडशसहस्राणि त्रीणि शतानि विंशतिश् च 16320. तन्मूलं तत्र पुरुषप्रमाणं पादोनाष्टविंशतिशतमङ्गुलयः ।
एवमर्धदशपुरुषे अष्टादश सहस्राणि द्वे शते चत्वारिंशच्च पुरुषक्षेत्राङ्गुलयः ।
पुरुषवेणुश् च पञ्चत्रिंशच्छताङ्गुलयः तिलद्वयाधिका इत्यादि द्रष्टव्यम् ।
ये त्वपक्षपुच्छाः प्रौगचिदादयः तेष्वरत्निप्रादेशैर्युक्तेषु वियुक्तेषु चैवमेव पुरुषमानीय तस्य विंशतिशततमभागमङ्गुलिं प्रकल्प्य विहरणमिष्टकाश् च ।
यथा प्रौगचिति -- 14400. एकविधे एकं सहस्रं चतुश्वत्वारिंशच्छताङ्गुलयः षट्तिलोनाः पुरुषः, तस्य विंशतिशततमो भागः तत्राङ्गुलिरित्यादि ।
तत्र श्लोकौ ------
खाकाशश्रुतिवेदैकात् षुरुषैर्द्विगुणैर्हतात् ।
हरेत तिथिभिर्भागं तन्मूलं पुरुषो भवेत् ॥ .1 ॥
चतुरश्रश्येनचितोः प्रादेशारत्नियुक्तयोः ।
प्रौगादिषु चैवं स्यात्पुरुषाङ्गुलक्ल्टप्तये ॥ .2 ॥
ये त्वरत्निप्रादेशवृद्धिं नित्यामाहुः तेषामेतत्सूत्रे बोधायनेनोक्तेर्ऽथे क्लेशेन योजयितव्यं स्यात् -- सप्तभ्यःसार्धसप्तभ्य इति, एवं सप्तविधा अर्धाष्टमविधेति, एवमुत्तरत्र विधासप्तमकरणीमिति ।
अत्राधिकानां पुरुषाणां प्रतिपुरुषमावेशनमुक्तम् ।
तत्र हेतुमाह --
आकृति त्वात्
प्रकृत्या अन्याकृतेर्विकारस्य श्रुत्यभावात् ।
यदि त्वधिकाः पुरुषाः कचिदेवैकस्मिन् प्रदेशे आत्मनि पक्षे वा निधीयेरन् ।
प्रकृतिर्ह्यग्न्याकृतिर्विक्रियते ।
पुरुष यते
पुरुषमात्रेण -- यावान् पुरुष ऊर्ध्वबाहुस्तावता वेणुनाग्निं विमिमीत इति श्रुतिद्वयस्यार्थः ।
यावानतीयम्
बाह्यच्छिद्राभ्भां बहिःसससौकर्यार्थमुपाह्रियते छिद्रयोश् च बाह्यार्थे ।
अपरेण दान्तात्
अपरेण यूपावटदेशं सञ्चरमवशिष्यैव वेणुनिधानम् ।
आन्तादर्वाक्चक्षुर्निमिताच्चतुरश्रपूर्वान्तादुन्मुच्य पूर्वस्मादपरस्मिन् प्रतिमुच्य दक्षिणा प्रत्यक्परिलिखेदान्तात् ।
अष्टमः खण्डः.
कपर्दिक्षाष्यम्
उन्मुच्य वेणुं मध्यमे शङ्काव् अन्त्यं वेणोश् छिद्रं प्रतिमुच्योपर्युपरि लेखासमरं दक्षिणा वेणुं निधायान्त्ये छिद्रे शङ्कुं निहत्य तस्मिन् मध्यमं वेणोश् छिद्रं प्रतिमुच्य लेखान्तयोर् इतरे प्रतिष्ठाप्य छिद्रयोः शङ्कू निहन्ति
दक्षिणे शङ्कौ अन्यतरं वेणोश्छिद्रं प्रतिमुच्योपर्युपरिलेखासम्भेदं दक्षिणाग्रं वेणुं निधाय अन्त्ये छिद्रे शङ्कुं निहत्य तमिन् श्ङ्ककककौ
मध्यमं वेणोश्छिद्रं प्रतिमुच्य लेखान्तरयोरन्तर छिद्रेप्रतिष्ठाप्य छिद्रयोर्लेखान्तयोरेव शङ्कू निहन्ति ।
स पुरुषश् चतुरश्रः

9.2

स चतुरश्रः पुरुषः ॥
एवं पुरदक्षिणं चतुर आत्मनि पुरुषानवमिमीते
एवं चत्वारि पुरुषक्षेत्राणि आत्मनि यथा भवन्ति तथा प्रदक्षिणं मिनुयात् ।
पुरुषं दक्षिणे पक्षे । पुरुषं पुच्छे पुरुषम् उत्तरे
दक्षिणे पक्षे -- दक्षिणे पार्श्वे ।
मध्यमेषु त्रिषु वेणुं प्रतिमुच्य अपराभ्यामित्यादि पूर्ववच्चतुरश्रः पुरुषः ।
एवमुत्तरपक्षे उत्तरपार्श्वे, मध्यमेष्वेव त्रिषु प्रतिमुच्य उत्तरम् ।
पुच्छे तु पाश्वात्यमधयमशङ्कौ मध्यमं वेणोच्छिद्रं प्रतिमुच्य तिर्यग्वेणुं निधाय छिद्रयोःशङ्कू निहत्योन्मुच्योत्तराभ्यां प्रसव्यं परिलिखेत् ।
दक्षिणस्मादुन्मुच्योत्तरस्मिन् पुरुषमात्रे शङ्कौ प्रतिमुच्यान्त्यच्छिद्रशङ्कुप्रभृति प्रदक्षिणं परिलिखेत् ।
उन्मुच्य वेणुं मध्यमे प्रतिमुच्य उपर्युपरि लेखासम्भेदं पश्चाद्वेणुं निधाय अन्त्य इत्यादि समानं तत्पुच्छम् ।
अरत्निना दक्षिणतो दक्षिणम् इत्य् उक्तम्

9.3

एवं विमितस्य दक्षिणपक्षस्य दक्षिणतः उत्तरस्योत्तरतः अरत्निना वर्धयेत्, पक्षयोस्तिर्यङ्भानी सारत्ननिपुरुषमात्रा पार्श्व मानी च पुरुषमात्रं, एवं पुच्छस्य पश्चादपि प्रादेशेन वितस्त्या वा वर्धयेत्, तत्तत्सुपार्श्वमानी स प्रादेशः पुरुषः, पुरुषमात्रे तिर्यङ्भानी ॥
पृष्ठ्यातो वा पुरुषमात्रस्याक्ष्णया वेणुं निधाय पूर्वस्मिन्न् इतरम् । ताभ्यां दक्षिणं अंसं निर्हरेत् । विपर्यस्य श्रोणी
अपरस्मिन् शङ्कौ पुरुषमात्र प्रतिमुच्य दक्षिणां श्रोणिं उदगपसार्योत्तरामेव श्रोणिं विहरेत् ।
पूर्ववद् उत्तरम् अंसम्

9.4

गतमेतत् ।
करविन्दीया व्याख्या
अपरस्मादुन्मुच्य वेणुं मध्यमे शङ्कावन्यं वेणोश्छिद्रं प्रतिमुच्य उपर्युपरिलेखासमरं वेणुं निधाय ।
लेखासमरः -- लेखायाःसंपातः ।
तस्योपरिष्टात् सन्निकृष्टं निधायान्त्यछिद्रे शङ्कून्निहत्य तस्मिन् मध्यमं वेणोश्छिद्रं प्रतिमुच्य लेखान्तयोरितरे छिद्रे प्रतिष्ठाप्य छिद्रयोःशङ्कुं निरन्ति स चतुरश्रः पुरुषसंज्ञो भवति, एवं प्रदक्षिणं चतुरः पुरुषानात्मनि कुर्यात् ।
पश्चिमे शह्कावेवं वेणोश्छिद्रं प्रतिमुच्य पश्चादनुपृष्ठ्यं वेणुं निधाय पश्चिमयोरपि छिद्रयोरपि शङ्कुं निखाय पूर्ववद्द्वितीयं पुरुषं कुर्यादेवमुत्तरतो ऽपि उत्तराप्रत्यगुत्तराप्राक्चालिख्य पुरुषद्वयं विमिमीते ।
अपरेण यूपावटतेशं सञ्चरमवशिष्य पृष्ठ्यायां शङ्कुं निहत्य तस्मिन् वेणोश्छिद्रं प्रतिमुच्य पृष्ठ्यायां वेणुं निपात्य छिद्रयोर्द्वै शङ्कू ।
पश्चिमे शङ्कौ वेणोः छिद्रं प्रतिमुच्य पृष्ठ्यायामेव पश्चान्ननिपात्य द्वौ शङ्कू ।
एवं पञ्च शङ्कवः ।
मध्यमपूर्वयोःशङ्व्कोः प्रतिमुच्य उल्लिख्य पूर्ववत्पुरुष द्वयं कुर्यात् ।
उदक्षिमत उपान्त्ययोः छिद्रं प्रतिमुच्य उल्लिख्य दक्षिणपक्षे पुरुषं उत्तरत उपान्त्ययोः प्रतिमुच्य उत्तरपक्षे पुरुषण्टपुच्छे तु पश्चिमे शङ्कौ वेणोर्मध्यमछिद्रं प्रतिमुच्य दक्षिणोत्तरं वेणुं निधाय छिद्रयोःशङ्कुं निहत्य तयोश्छिद्रं प्रतिमुच्य पश्चिमोत्तरं पश्चिमदक्षिणं चालिख्य पुरुषं कुर्यात् ।
एवं कृत्वा आरत्ननिना दक्षिणतो दक्षिणं पक्षं प्रवर्धयति ।
उत्तरमपि पक्षमुत्तरतो ऽरत्निनैव प्रादेशेन वितस्त्या वा पश्चात् पुच्छं प्रवर्धयति ॥
पृष्ठ्या मसं वा शब्दो विकल्पार्थः ।
एवमिह वेणुमानम् ।
द्वौ तावद्वेणू भवतः ।
तयोरकेः पुरुषमात्रः ।
अन्यः पुरुषमात्रस्याक्ष्णया रज्जुसमः ।
ताभ्यां विमानमपरेण युपावटदेशं सञ्चरमवशिष्यते ।
पृष्ठ्यायां शङ्कुः ।
ततः पश्चात् तावन्मात्रे शङ्कुः ।
मध्यमशङ्कावक्ष्णयामात्रं वेणुं प्रतिमुच्य पूर्वस्मिन् पुरुषमात्रं प्रति मुच्य ताभ्यां दक्षिणमंसं निर्हरेत् ।
पुरुषमात्रं पूर्वस्मादुन्मुच्यापरस्मिन् प्रतिस्मिन् प्रतिमुच्योत्तरमंसं दाक्षणोत्तरपश्चिममध्यमशङ्कूनां पार्श्वद्वयेष्वर्द्धपुरुषमात्रेषु शङ्कुं निहत्य पुक्षपुच्छपुरुषानप्येवमेव कुर्यात् ॥
उन्मुच्य निहन्ति
समरः -- सङ्गमः पूर्वापरे छिद्रे लेखयोर्यत्र निपततस्तावेव लेखान्तौ ।
स वमिमीते
पृष्ठ्यायां पूर्वयोश्चतुरश्रयोः पाश्वात्यशङ्कुः अपरयोः पौरस्त्यः ।
पुरुषंअपक्षे
दाक्षिणात्यानां पञ्चानां शङ्कूनां मध्यमेषु त्रिषु वेणुंप्रतिमुच्य अपराभ्यामित्यादि ।
पुरुषं पच्छे
पाश्वात्यानां त्रयाणां दक्षिणयोरन्त्ये छिद्रे प्रतिमुच्य मध्यमे छिद्रे शङ्कुं निहन्यात् ।
एवमुत्तरयोरेवं स्थितानां पञ्चानां मध्ये मध्यमेषु त्रिषु वेणुं प्रतिमुच्योत्तराभ्यामित्यादि द्रष्टव्यम् ।
पुरुषमुत्तरे
दक्षिणपक्षवत् ।
अरत्निना त्युक्तम्
वेणोः पञ्चमे लक्षणं कृत्वा तेन पक्षौ प्रवर्धयेत्, एवं दशमे लक्षणं कृत्वा ।
पुच्छं प्रकारान्तरमाह ----
पृष्ठ्यान्तो मंसं द्वावत्र वेणू उभ्यतश्छिदौ, पुरुषमात्रःसविशेषश् च ।
पृष्ठ्यायां पुरुषान्तरालान् त्रीन् शङ्कून्निहत्य मध्यमे सविशेषं प्रतिमुच्य पूर्वस्मिन्नितरं तयोरन्त्ये च्छिद्रे यत्र संपततःस दक्षिणांसः ।
विपर्यस्य पुरुषमात्रं पाश्वात्ये प्रतिमुच्य श्रोणी पूर्ववदुत्तरांसः ।
एवं पक्षपुच्छेष्वपि ।
सविशेषो वेणुःसप्ततिशतमङ्गुलयो दशतिलोनाः ।
कपर्दिभाष्यम्
रज्ज्वा वा विमायोत्तरवेदिन्यायेन वेणुना विमिमीते

9.5

रज्ज्वा वान्यतरया विमायोत्तरवेदिवद्वेणुना पश्चाद्विमिमीते अटृष्टार्थम् ।
सपक्षपुच्छेषु विधाभ्यासे ऽपचये च विधासप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेत्

9.6

विधाभ्यासे ऽष्टविधप्रभृतयः ।
विधापचये एकविधादयः ।
तेष्वेकविधादिषु विधासप्तमकरणी येन वेणुना विमिमीते तदर्धाष्टमं भवति ।
स पुरुषस्थानीयः ।
एवं चतुरश्रं कृत्वा पूर्ववद्विभज्य विहरेत् ।
सपक्षपुच्छेष्विति वचनमेकविधानार्थम् ।
एतेष्वेकविधा दिषु श्येनादिषु क्रियमाणेषु यद्येकविधा तत्पञ्चदशधा विभज्य द्वौ भागौ समस्य चतुरश्रं कृत्वा तस्य मानेन वेणुना गृह्णीयात् ।
स पुरुषस्थानीयः ।
एवं सर्वत्र ।
यावद्विधं तत्क्षेत्रं समचतुरश्रं कृत्वा तस्य प्रमाणं गृह्णीयात्; यथा चत्वारि सहस्राण्यशीतितिलाः (4080) पुरुषः ।
तेषां वर्गः-एका कोटिः षट्षष्टिर्नियुतानि चत्वार्ययुतानि षट्सहस्राणि चत्वारि शतानि (16646400) यद्यष्टविधः अष्टभिर्गुणयित्वा पूर्वार्धं संयोज्य पञ्चदशलब्धं द्विगुणीकृत्य मूलं गृह्णीयात् ।
स तस्य पुरुषो भवति ।
अपचये त्वर्धसंयोगो नास्ति ।
अरत्रिपादेशाभावात् ।
अन्यत्सर्वमुवचयेन तुल्यम् ।
अर्धतिलेन वा ऊनाधिके वा दोषो न भवति विशेषा दर्शनात् ।
तत्र श्लोकः --
आकाशवस्वम्बरवेद (4080) वर्ग
मिष्टप्रवृद्धं तिथिभिर्विभक्तम् ।
लब्धस्य वृद्धस्य यमेन मूलं वृद्धौ क्षये तत्पुरुषस्य मानम् ॥
सदा भवेत्सापचयेच वृद्धौ ...... ॥
इति ।
नन्वेकविधादयः श्येनादयो वक्रपक्षपुच्छाः कर्तव्या इति प्रतिपादितम् ।
तस्मात्किं महता प्रयत्नेन हेतूनां दर्शनेन? सत्यमेतत्! कर्तव्या एकविधादय इति कृत्वा व्कचित्तेषु यद्येकविधादयः कर्तव्याः तदा क्रत्वर्थकतयोपादीयन्ते ।
तदा श्येनादय आकृतिविकाराः पुरुषात्मकाः सन्तः तद्विकृत्याधिशयेरन् ।
यथा पुरुषमात्रतां विकृत्य पक्षपुच्छानां सप्तार्धविधे श्येनादयः प्रवर्तन्ते एवं पुरुषं विकृत्य एकविधादिषु निविशेरन् ।
तत्र यदा सपक्षपुच्छत्वमेकविधादीनां तदायं विधिरिति अष्टविधप्रभृतीनामपि मार्गान्तरेण विधानाददोषः ।
सपक्षपुच्छोष्विति विधानात् ।
प्रौगादिष्वेकविधादयो न सन्ति ।
अष्टविधादयश् चेति केचित् ।
वक्ष्यति च "यावानाग्निःसारत्निप्रादेशऽ इति ।
अपरे पुनरेकविधादिषु न सन्ति नापचयेष्विति वर्णयन्ति ।
सारत्रिप्रादेश इति वचनात् ॥
करविन्दीया व्याख्या
(रज्ज्वा मिमीते)
अथवा एकरज्ज्वादीनामन्यतमया रज्वाग्निं विमाय पश्चाददृष्टार्थं वेणुना विमिमीते ।
उत्तरवेदिन्यायेन यथोत्तरवेदिर्युगेनयजमानस्य वा पदैर्विमाय शम्यया परिमिमीते अदृष्टार्थं; एवमत्रापि रज्ज्वा विमाय वेणुना मानमदृष्टार्थं स्यात्, तथोत्तरवेदिविकारत्वादग्नेः रज्ज्वा विमाय वेणुना शम्यया चादृष्टार्थं विमानं भवेदिति ॥
सपक्ष -- रेत्
सपक्षपुच्छेषु प्रौगादिव्यतिरिक्तेष्वग्निष्वभ्यासे ऽष्टविधादावपचये चैकविधादौ चैकविधादौ विधाविधानं करणीनामुच्यते विधासप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेत् ।
यावत्यो ऽग्नेर्विधाःसन्ति तासां सप्तमं या करोति सा विधा सप्तमकरणी तां पुरुषस्थानीयां कृत्वा तयाऽत्मपक्षपुच्छानि विहरेदिति ।
अयमर्थः -- यद्येकविधो ऽग्निः ; तमेकविधं पञ्चदशधा विभज्य द्वौ भागौ समस्य समचतुरश्रं कृत्वा तस्य प्रमाणं पुरुषक्थाने कृत्वा अनेनात्मपक्षपुच्छानि विहरेदिति ।
एवमेव द्विविधादिषु कुर्यात् ।
चत्वारि सहस्राण्यशीतिश् च तिलाः पुरुषः ।
तेषां वर्ग एका कोटिः षट्प्रयुतानि षण्णियुतानि चत्वार्ययुतानि षट्सस्राणि चत्वारि शतानि (16646400) यद्यष्टविधं पुरुषवर्गमष्टभिर्गुणित्वा पूर्वराश्यर्घेन च संयोज्य तत्पञ्चदशभिर्विभज्य लब्धं द्विगुणीकृत्य मूले गृहीते स तस्य पुरुषो भवति ।
अपचये त्वरत्निप्रादेशानामभावात् नार्धसंयोगः ॥
इतरदुपचयवत्. ।
नन्वेकविधप्रभृतीनां न प्रक्षपुच्छानि भवन्तीत्युक्तं सत्यमुक्तम् ।
तद्व्यायाममात्ररूपत्वेन एकविधादौ न घटत इत्येवमर्थमिदमिति तत्रैव व्याख्यातम् ।
एकविधप्रकृतित्वप्रतिपादनाय च ।
तस्मान्नात्यन्तनिषेधः, एकविधप्रभृतीनामपि पक्षपुच्छानि भवन्त्येव ॥
अत्र श्लोकमुदाहरन्ति --
आकाशवस्वम्बरवेदवर्ग
मिष्टप्रवृद्धं तिथिमिर्विभक्तम् ।
तस्य प्रवृद्धस्य यमेन मूलं सम्भावयेत्सापचये च वृद्धौ ॥
इति ----
सुन्दरराजीया व्याख्या
रज्ज्वा मिमीते
आस्मिन् पक्षे शम्यामानवददृष्टार्थं वेणुमानम् ।
अथाष्टविधादीनामेकविधादीनां च विहरणमाह ॥
सपक्ष रेत्
सपक्षपुच्छा अग्नयः चतुरश्रश्येनकङ्कचिदलजचितश् च ।
तत्राष्टविधादिषु विधानामभ्यासः ।
एकविधादिष्वपचयः ।
विधानां (एकीभूतानां) समस्तानां सप्तमस्य करणी विधासप्तमकरणी ।
चीयमानस्याग्नेर्योंऽशः तस्य करणी पुरुषस्थानीया ।
सा चाष्टविधप्रभृतीनामित्यत्रैव प्रदर्शिता ।
अत्रापि सारात्निप्रादेशपक्षे विधार्धाष्टमकरणीमिति द्रष्टव्यम् ।
अपचयवचनं श्येनचिदाद्यर्थम् ।
चतुरश्राणामेकविधादीनामपक्षपुच्छत्वात् ।
पूर्वत्र पुरुषावेशनमुक्तं, इदानीं तस्य विहरणमुच्यते इत्यतो न पुनरुक्तिः ।
यद्वा पूर्वसूत्रमष्टविधादिविषयं चतुरश्रविषयं च ।
डदमेकविधादीनां श्येनादीनां च साधारणमित्यस्ति विशेषः ।
इदं चानेन ज्ञायते -- श्येनचिदादयो गुणविकाराःसप्तविधादिवदेकविधादिष्वपि भवन्ति ।
शखान्तरीयत्वं च तस्य पूर्वमेवोक्तम् ।
अत एव तस्य पक्षस्य यत्नसाध्यत्वात् तत्रैवोपधान प्रकारो वक्ष्यते -- "यावानग्निःसारत्निप्रादेशःऽ इत्यादि ।
कपर्दिभाष्यम्
करणानाष्टकानां पुरुषस्य पञ्चमेन कारयेत्
इष्टकानां करणानि वक्ष्याम इति शेषः ।
पुरुषस्य पञ्चमेन अरत्निना कारयेत् ।
तासाम् एवैकतो ऽध्यर्धास् तद् द्वितीयम् । पुरुषस्य पञ्चमो भाग एकतः प्रादेश एकतः तत् तृतीयम्
तासामेवेष्टकानां (कतिपया) एकतो ऽध्यर्धा अर्धेनाधिकास्तासां करणं तृतीयं त्रिप्रादेशा पार्श्वमानी अरत्निमात्रा तिर्यङ्भानी द्वितीयस्य करणस्य ।
अरत्निः पार्श्वमानी ।
प्रादेशस्तिर्यङ्भानी तत्तृतीयकरणम् ।
सर्वतः प्रादेशस् तच् चतुर्थम् । समचतुरश्राः पञ्चदशभागीयास् तत् पञ्चमम्

9.7

अष्टाङ्गुलेन कारिकास्तत्पञ्चमं करणम् ।
समचतुरश्रा इति किमर्थमिह सङ्गुहणम्? यस्मिन्नग्नौ समचतुरश्रा एवेष्टकाः तत्राप्यासां प्रवेशो यथा स्यादित्येवमर्थम् ।
वक्ष्यति च "अणूकाः पञ्चदशभागीयानां स्थानऽ इति ।
अणूकपञ्चदशभागीययोरेकविषयत्वम् ।
करविन्दीया व्याख्या
(करणानि कारयेत्)
इदानीमिष्टकानां करणान्युच्यन्ते -- पारिभाषिकः पुरुषः पञ्चारत्निः ।
तस्य पञ्चमेनारत्निना ।
पञ्चमेनोति जातावेकवचनम् ।
पञ्चमैरित्यर्थः ।
कारयेत्कुशलैः ।
तैररत्निभिश्चतुर्भिः प्रथमं करणम्
तासा -- तीयम्
तासां पञ्चमकृतानामेवेष्टकानां या एकतः -- एकस्मिन् भागे ऽध्यर्थारत्नयायामाः तासां करणं चत्तद्द्वितीयं कारयेत् ।
तासामेवेति सर्वत्र संबध्यते ॥
पुरु -- तीयम्
यासामेकस्मिन् पार्श्वे चतुर्विंशत्यङ्गुलयः एकतो द्वादशाङ्गुलयस्तासां यत्करणं तत्तृतीयम् ।
सर्वर् -- थम्
यासां सर्वतः प्रादेशः प्रमाणं तासां यत्करणं तच्चतिर्थम् ।
सर्वतो ग्रहणं प्रादेशग्रहणेन व्कचिद्घुहणं सूचयति ।
सम -- ञ्चमम्
पुरुषस्य पञ्चदशभागो ऽष्टाङ्गुलयः ।
तेन परिमिताः पञ्चदशभागीया इष्टकाः ईटृशाःसमचतुरश्राः, तासां यत्करणं तत्पञ्चमम् ।
समचतुरश्रग्रहणादेव पञ्चदशभागीयानां कार्येणूकादयः प्राप्ताः ।
तत्र प्रागुदक्पश्चिमेषु चतुरश्रत्वनियमो नास्तीति ज्ञायते ।
द्वितीयादिव्यवहारः किमर्थः? अदृर्ष्टार्थमेव ।
तथोपधानादिषु दर्शनात् ।
सुन्दरराजीया व्याख्या
अथैवं विमितस्याग्नेरिष्टकाकरणान्याह --
करणानि कारयेत्
एकमिदं करणं अरत्निमात्रं समचतुरश्रम् ।
तासा तीयं षट्त्रिंशिका पार्श्वमानी, तिर्यङ्भानी चतुविंशिकैव ।
पुरुष्य तीयं एवमर्धेष्टकाः ।
(सर्वतःअत्पञ्चम्)
अष्टाङ्गुलाः ।
कपर्दिभाष्यम्
ऊर्व्ध्वप्रमाणमिष्टकानां जानोः जानोः पञ्चमेन कारयेत्
इत्सेधप्रमाणमिष्टकानां जानुप्रमाणपञ्चमम् ।
द्वात्रिंशदङ्गुलं जानुः ।
तस्य पञ्चमभागेन त्रयोदशतिलाधिकषडङ्गुलेन कारयेत् ।
महाग्नेरिष्टकानामेवैतन्महाग्नेः करणानि विधाय विधानात् ।
अर्धेन नाकसदां पञ्चचूडानां च

9.8

जानुपञ्चमार्धेन नाकसदां पञ्चचूडानां चोत्सेधं सप्ततिलाधिकाङ्गुलत्रयोत्सेधेन कारयेत् ॥
यत् पच्यमानानां प्रतिह्रसीत पुरीषेण तत् सम्पूरयेद् अनियतपरिमाणत्वात् पुरीषस्य

मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc