भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बशुल्बसूत्र · अध्याय 8

8.1

मृदो देहानिति प्रदर्शनं तस्मिन् चतुरश्रमित्यादेः ।
अश्मनवमा इति सिद्धे ऽ प्येकस्याः स्थान इति वचनं द्रव्येष्टकानामवटेषूपधानस्य ज्ञापनार्थम् ।
व्यक्तमुक्तं बोधायनेन ।
लोकबाधानि द्रव्याण्यवटेषूपधेयानि ।
यथायोगमुपदध्यात् अग्निकल्पे यावत्सङ्ख्याका धिष्णिया आम्नाताः तावत्सङ्रष्याका ता व्यवलिख्य करणानि कृत्वा यथायोगं यथा युज्यते तथो पदध्यात् ॥
इति सप्तमःखण्डः.
इत्यापस्तम्बसूत्रविवरणे कपर्दिस्वामिभाष्ये शुल्बाख्यप्रश्ने
द्वितीयः पटलः.
करविन्दीया व्याख्या.
मण्डलायां गार्हपत्यचित्यां करणं बहुप्रयाससाध्यमिति प्रकारान्तरेणेष्टकासम्पत्तिं ब्रूते ।
(मण्ड लिखेत्)
समे शुचौ कचिद्भूतले व्यायाममात्राधिकविस्तारं जानुपञ्चमोर्ध्वप्रमाणं संसर्जनीयैर्द्रव्यैःसंसृष्टायाः संप्रकृष्टाया मृदो बिंम्बं कृत्वा तन्मध्ये व्यायामचतुरश्रक्षेत्रं मण्डलं कृत्वा तन्मध्ये शङ्कुं निखाय अर्धव्यायामेन सह अतिशयतृतीयेन सह मण्डलं परिलिखेत् ॥
(तस्मिनभवेत्)
तस्मिन्मण्डले यावत् प्रमाणं चतुरश्रं कर्तुं शक्यं तावल्लिखेत्, एवं कृते मण्डलमध्ये समचतुरश्रं एकं, तत्पार्श्वेषु चत्वारि धनुराकाराणि भवन्ति, तानि प्रधय इत्युच्यन्ते ।
प्रधिर्नाम रथचक्रावयवः ।
प्रधीयते प्रधाव्यते वानेनेति प्रधिः ।
तत्सारूप्यात् मण्डलावयवा अपि प्रधय इत्युच्यन्ते ॥
(तन्नवधा विभजेत्)
तच्चतुरश्रं नवधा विभजेत ।
त्रिभागावलेखनेन नवधा विभज्य प्रधिं त्वेकैकं त्रैधं विभजेत् ।
चतुरश्रं नवेष्टकं चत्वारः प्रधयः त्रिधा विभक्ता द्वादशमाच्यः एकविंशतिरिष्टकाः ।
मण्डलमध्ये चतुरश्रकरणो ऽयं प्रयोगः ।
मण्डलमध्ये प्राच्युदीचीं सम्पाद्य मण्डललेखायाः परीणाहं चतुर्धा संभुज्य संभोगेषु तत्र लक्षणानि कृत्वा लक्षणाल्लक्षणं लिखेत् ।
एवं कृते मण्डलमध्ये चतुरश्रं भवति ।
तत्र विष्कम्भार्धं चतुः पञ्चदशाङ्गुलयोर्ऽधद्वाविंशतितिलाश् च मध्यचतुरश्रकरणी ।
(सप्त) सप्ततिरङ्गुलयो ऽष्टतिलाश् च तस्यास्य तृतीयो भागः ।
पञ्चविंशतिरङ्गुलयः पञ्चविंशतितिलाश् च करणानि कुर्यत, तान्युच्यन्ते--सर्वतः पञ्चविंशतितिलसहितं पञ्चविंशत्यङ्गुलमेकं करणं प्रधिषु ।
त्रीणि करणानि ।
प्रधिमध्याश्चतुर्भिः ।
तस्य पार्श्वे चतुर्दशाङ्गुलयः सप्तसप्तदश तिलाश् च ।
पृष्ठं पञ्चविंशतितिलसहितं पञ्चविंशत्यङ्गुलमुखम् ।
एकोनत्रिंशदङ्गुलं (पादोनत्रिंशदुङ्गलं) तं विष्कम्भार्धप्रमाणया रज्ज्वा कर्कटेन वा विलिख्य तक्षयेत् ।
प्रध्यन्तयोस्तदेवपार्श्वं पटष्ठं च ।
मुखं तु षट्त्रिंशदङ्गुलं, दक्षिणस्य दक्षिणं पार्श्वं सव्यस्योत्तरम् ।
एतान्येव चतुर्णां प्रधीनां करणानि ।
एवं चतुष्करणी मण्डलचितिः ॥
(उपधाने प्रस्तारे)
मण्डलायामुपधानकाले प्रयमप्रस्तारे चतुरश्रस्य स्रक्तीः कोटीः अवान्तरदेशान कोणदिशः प्रति संयोजयेत् ।
द्वितीये प्रस्तारे चतुरश्रस्य मध्यानि अवान्तरदेशान् प्रति संयोजेयत् ।
एवं भेदो न स्यात् ।
भेदो नाम प्रस्तारान्वयगतानामिष्टकानां प्रान्तेषु साम्यं, तत्सर्वत्र परिहरणीयमिति तत्र तत्र व्याख्यानवचनात् ज्ञायते ।
वचनमप्यस्ति सर्वत्र भेदान्वर्जयेदिति ॥
(व्यत्यासं चिनुयाद्यावतः प्रस्तारान् चिकीर्षेत्)
व्यत्यस्य व्यत्यस्येत्यर्थः ।
प्रस्तारा इष्टकाःसंघातवि शेषाः ।
ते पञ्चचितीकं चिन्वीतेति विहिता यावन्तःस्युः तावन्तो व्यात्यस्य व्यत्यस्य चिनुयादिति अस्मादेवावधारणात् ज्ञायते, अग्निधर्मा इष्टकायतनोर्ध्वप्रमाणादयो ऽत्र प्राप्नुवन्तीति प्रस्तारेषु प्रथमतृतोयपञ्चमाःसमाः ।
द्वितीयचतुर्थौ समौ ननु कथं लभ्यते अतिशयतृतीयेनेति ।
उच्यते--सह शब्द सामर्थ्याच्चतुरश्रस्य मण्डलकरणे अतिशयतृतीयस्य करणीशेषत्वविधानाच्चातिशयतृतीयेन सह विष्कम्बार्धेन मण्डलकरणम् ।
एतस्या एव गार्हपत्यचितेः चतुरश्रमण्डलतया प्राप्ते क्षेत्रस्य साम्यवभिमतमिति चतुरश्रमण्डलकरणन्यायो ऽनुसर्तव्यः ।
चतुरश्रपूर्वकत्वं चास्य मण्डलकरणस्य दृश्यते ।
ततो ऽपि स एवानुसर्तव्यः ।
केचित्तु सहेति द्विपदं कृत्वा सार्धव्यायामेन सम्बन्धयन्ति ।
तेषामनयोः पदयोः प्रयोजनविशेषान्नैव पश्यामः ।
तस्मात्सूक्तमतिशतृतीयेन सहेति ॥
(पिशील विज्ञायते)
त्रिपदं पिशीलं, मुष्टीकृतोरत्निः पिशीलमित्येके ।
बाह्वोरन्तरालं पिशीलमिति बोधायनः ।
धिष्ण्या अग्नयः "अग्नयो वा अथ धिष्णियाःऽ इति दर्शनात्, तच्छब्देन तदायतनानि लक्ष्यन्ते ।
अग्नीनामायतनभुवः पिशीलमात्राणि भवन्ति ।
अपवादाभावे आकारभेदे ऽपि क्षेत्रस्य साम्यं भवत्येव ॥
(चतुरश्रा लेत्येकेषाम्)
गतमेतत् ।
अत्र साग्निचित्ये क्रतौ विशेषमाह ।
(मृदो दध्यात्)
मुदो देहान् कृत्वा मृत्सम्बन्धिनो दहानुपचयान् बिम्बानि कृत्या आग्नीध्रीयमेकं नवधा प्राक्त्वेनोदक्तेवन च त्रिधा व्यवलिख्य मध्यस्थमेकमेकेनाश्माना उपदध्यात् ।
अन्यांस्तत्प्रमाणाबिरष्टकाबिरितरान् होत्रीयादीनां मृदो देहान् यथा सह्ख्यं यस्ययस्य धिष्णियाग्नेः याया सङ्ख्या द्वादश षोडश एकविंशतिं चतुर्विंशतिमित्याद्या तया संख्यया तं तं व्यवलिख्य यथायोगं यत्रयत्र देशे याया इष्टका युज्यते तत्रतत्र तां तां इष्टकामुपदध्यात् ।
द्वादश षोडश एकविंशतिं चतुर्विंशतिं वा होत्रीये, एकादश ब्राह्नणाच्छंसीये, षट् मार्जालीये, अष्टावष्टावन्योषु धिष्णियेषूपदधातीति विज्ञायते इति ।
अन्यधिष्ण्याः प्रशास्त्रीयपोत्रीयनेष्टीयाच्छावाकीयचात्वालशामित्रावभृथाः ।
करणानि वा कृत्वेष्टकाः कुर्यात् ।
चतुरश्रपक्षे सर्वतः प्रादेशाः होत्रीयस्य, द्वादशपक्षे प्रादेशे द्वे नवाङ्गुले द्वे, षोडशपक्षे सर्बतो नवकानि, एकनिंशतिपक्षे नवके द्वे सप्ताङ्गुलयः सप्ततिलाश् च द्वे, तदेकं सर्वतः सप्ततिलाःसप्ताङ्गुलय एकं, अत्र चतुरश्रमेकतः पञ्चधा विभज्य चतुरो भागान् प्रथमेन चतुर्धा विभजेत् ।
द्वितीयेनैकं पञ्चधा ।
चतुर्विंशतिपक्षे ऽयेते एव करणे ।
तत्र पूर्ववत् पञ्चधा विभज्य चतुरो भागान् सप्ततिलसप्ताङ्गुलेन पञ्चधा विभजेत् ।
इतरेणैकं चतुर्धा ।
ब्राह्नणाच्छंसीयस्याष्टौ होत्रीये द्वादश्यः, तिस्र आग्नीध्रीयाः, मार्जालीयःस्यैकतः प्रादेशाः, अन्यतो ऽध्यर्धाः षट् ।
अन्येषां पोत्रूयादीनां आग्नीध्रीयेष्टकाः षण्मार्जालीये अष्टके द्वे ।
मण्डलपक्षे करणबाहुल्यप्रसङ्गाद्यवलेखनमेवोच्यते ।
आग्नीध्रीयस्य प्राक्चोदक्च त्रेधा विभागः ।
होत्रूयस्य द्वादशपक्षे एकतस्त्रिधा विभागो ऽन्यतश्चतुर्धा ।
षोडशपक्षे सर्वतश्चतुर्धा ।
एकविंशतिपक्षे त्वेकतः पञ्चधा कृत्वा चतुरो भागांश्चतुर्धा विभज्य चतुरो भागान् पञ्चधा कृत्वान्यंभागं चतुर्धा विभजेत् ।
एकादशपक्षे त्वेकतश्वतुर्धा विभज्य त्रीन त्रोधा कृत्वा अन्यं द्विधा विभजेत् ।
षट्पक्षे त्वेकतस्त्रिधा कृत्वान्यतो द्विधा विभजेत् ।

अष्टपक्षे चैकतस्त्रिधा विभज्य द्वौ भागौ त्रिधा कृत्वान्यं द्विधा कुर्यात् ।
धिष्ण्यानामेकचितीकत्वात् सुकरत्वा च्चैष एव प्रकारो वरमित्याचार्यो मन्यते ।
तत्र श्लोकः ॥
व्यायाममात्रे चित्ये ऽग्नौ करणं दारवं भवेत् ।
लैहे वा तच्चतुर्भिःस्यात् फलकाभिस्तदुच्यते ॥
द्वात्रिंशदङ्गुलायाममङ्गुल्यःस्युस्त्रयोदश ।
चतुर्विंशतितिल विस्तारः करणे भवेत् ॥
मण्डलात्मनि तत्र स्यात्करणं च चतुर्विधम् ।
मध्यमेकं पृथौ त्रीणि तान्युच्यन्ते यथाक्रमम् ॥
सपञ्चविंशतितिला अङ्गुल्यः पञ्चविंशतिः ।
सर्वतः करणं त्वेकं मध्ये ऽने(ते)नेष्टकाकृतिः ॥
प्रधिषु त्रीणि तानि स्युः प्रध्यन्ते करणं त्रिभिः ।
फलकैः प्रति(धि)मध्यीयं चतुर्भिः करणं भवेत् ॥
पृष्ठं पञ्चतिलोपेता अङ्गुल्यः पञ्चविंशतिः ।
पार्श्वे चतुर्दशाङ्गुल्यः तिलसप्तदशान्विताः ॥
सपादोनतिलस्त्रिं(त्रिं)शदेकोनत्रिंशदङ्गुलम् ।
मुखं स्यात्प्रधिमध्यीय करणस्यान्तयोरपि ॥
पृष्ठपार्श्वेषु तत्रेमे मुखं षट्त्रिंशदङ्गुलम् ।
अन्तयोर्यत्र यस्य स्यात्पार्श्वं नान्यस्य तत्र तत् ॥
करणानां मुखान्यत्र विष्कम्बार्धप्रमाणया ।
आलिख्य तक्षयेद्रज्ज्वा कर्कटेनाथवा लिखेत् ॥
षट्त्रिंशदङ्गुलायामा धिष्मयाःसर्वतःसमाः ।
तत्रतत्र यथासङ्ख्यामुच्यन्ते करणान्यथ ॥
प्रादेशमेकतो यस्मादन्यतो ऽष्टादशाङ्गुलम् ।
मार्जालीयेनेन कृता धिष्णिये षट्स्युरिष्टकाः ॥
प्रादेशःसर्वतो यस्मादाग्नीध्रीये तु तत्कृताः ।
द्वादशाङ्गुलमेकत्र यस्यान्यत्र नवाङ्गुलम् ॥
होत्रीये द्वादशोपेता तत्कृता द्वादशेष्टकाः ॥
नवाङ्गुलं सर्वतःस्याद्धोत्रीये तेन षोडश ॥
तिलपञ्चकसंयुक्ताःसप्ताङ्गुलय एकतः ।
नवाङ्गुलं चान्यतःस्यात्करणं त्वेकविंशतौ (कौ) ॥
तिलसप्त(पञ्च)कसंयुक्ता अङ्गल्यःसप्त सर्वतः ।
इदमत्रैकविंशे स्याच्च्तुर्विंशे ऽप्युभे इमे ॥
प्रथमे चैकविंशे स्युः षोडशान्येन पञ्चकम् ।
चतुर्विंशे द्वितीयेन विंशतिस्त्वन्यदन्यतः ॥
याः प्रादेशे(श)नुवाङ्गल्यस्त्वष्टौ तास्तिस्र एव च ।
प्रादेशाब्राह्नणाच्छंसिधिष्णिये त्वेकयुग्दश ॥
प्रादोशाः षट्पदाध्यर्धेद्वेचे....त्यष्टके विधिः ।
पोत्रियादौ यथायोगमुपधानं तु सर्वतः ॥
एकचित्याधिष्णियानां भेदस्यानवकाशतः ।
वैषम्येणैव सह्ख्यानां करणानेकता भ(वे)यात् ॥
व्यवलिख्य यथासङ्क्यमुपदध्यादिहेष्टकाः ।
यथायोगमिति त्वेवमाचार्यो मण्डले ऽब्रवीत् ॥
अधिकांशेन कर्णस्य हृने कर्णयुगे भुवा ।
हृते फलेन (फलोने) हीनाया युजो वा यद्भुवो दरम् ॥
तस्य वर्गे ऽस्य कर्णस्य वर्गात्तु परिशोधिते ।
परिशिष्टस्य मूलं तु लम्बकं तद्विदो विदुः ॥
वदिप्राचीमितां रज्जुमन्तरालोक्तया वृता ।
दक्षिणोत्तरमायम्य वेदेः पूर्वापरार्धयोः ॥
वि(द्वि)दृतीयौ तु विज्ञेया प्रागुद्वेदि रुत्करः (त्तरम्) ।
मध्यदेशोत्रिमध्यं तु वह्नेः प्राच्यप्रतीच्ययोः ॥
लक्षणेन निमित्तार्थं (द्वि) विकृतीये त्वपायते ।
पश्चिमे चोत्तरत्रापि निमित्तं स्यादपायते ॥
विपर्यस्य तु पूर्वत्र निमित्ते दक्षिणोत्तरे ।
कृत्वा विष्कम्भ तुर्ये स्यादुभयस्यापि लक्षणम् ॥
तयोर्लक्षणयोर्तेखां रज्जुं वा प्राङ्निपातयेत् ।
लेखाया दक्षिणं ग्राह्यं मण्डलार्थं त्यजेदुदक् ॥
परिणाहे चतुर्था षट्संभुग्ने भुग्नलाञ्छने ।
अङ्कादङ्कगता रेखा चतुरश्रस्य साधिका ॥
विष्कम्भार्धीयवर्गस्य द्विगुणस्यैष मूलतः ।
मण्डले चतुरश्रस्य करणी परिकल्पना ( कल्पिता) ॥
यद्वा विष्कम्भमूलार्ध (वर्गार्ध) मूलेन करणीकृतिः ।
मण्डले चतुश्रस्य यावत्संभवजन्मनः ॥
अक्ष्णयावस्थितां रज्जुं यावत्संभवजन्मनः ।
चतुरश्रस्य विष्कम्भं मण्डलस्य वदन्ति हि ॥
विष्कम्भस्यान्तरा वर्गे विष्कम्भार्धस्य वर्गतः ।
शोधिते परिशिष्टस्य मूलं स्याद्दललक्षणम् ॥
विष्कम्भस्याद्दलग्रस्तचापज्यार्धास्य वर्गके ।
पूर्वज्यादलवर्गे तु विष्कम्भार्धस्य वर्गतः ॥
शोधिते परिशिष्टस्य मूलं तद्धनुषःशिरः ।
सज्यावर्गःषड्गुणेषु वर्गश्वापस्य वर्गकः ॥
शराहतस्तु कोदण्डो दलितो धनुषः फलम् ॥
विष्कम्भ आत्मद्विगुणेन(ऽपि)योज्यः स चात्मविंशेन स पञ्चमाख्याम् ।
सपञ्चविंशेन च तौ समेतौ व्यासेन सैषा परिणाहल्लप्तिः ॥
नेमिद्विरेकादशवात्रकार्यस् तद्भाग एकश् च तथा द्विधा च ।
व्यासःस्वरांशाः परिधेःसह स्युर् भागांशतुर्येण स सप्तमेन ॥
इत्यापस्तम्बसूत्रविवरणे करविन्दीयभाष्ये शुल्बाख्यप्रश्ने
द्वितीयः पटलः.
---- ।
सुन्दहहाजीया व्याख्या.
मण्डलायां तु करणानां वहुवक्तव्यत्वात् तैर्विनैवेष्टकोपायमाह----
मण्ड विभजेत्
देह--उपचयःषडुङ्गलोत्सेधः ।
सहेति निपातो वाक्यालं कारे ।
स इति वा च्छेदः ।
"अर्धव्यायामेन मण्डलं परिलिखेत्ऽ इत्येव सत्याषाढः ।
चतुरश्रं सविशेषेण विष्कम्भार्धेन चतुस्तिलोनेनाष्टषष्ट्यङ्गुलेनावदध्यात् ।
चतुरश्रं नवधा कृत्वा प्रथिकान् त्रेधा विभझेत् ।
प्रथिरेव प्रथिकः ।
प्रथिश्वक्रपर्यन्तः ।
अथवा करणैरेवेष्टकाः कुर्यात् ।
त्रीणि करणानि--समचतुरश्रं प्रथिमध्यं प्रथ्यन्तमिति ।
अत्र समचतुरश्रं द्वाविंशत्यङ्गुलं सैकविंशतितिलम् ।
प्रथिमध्यस्य पार्श्वमान्याः प्रमाणमेतदेव ।
तिर्यङ्नान्या दशतिलोनत्रयोदशाह्गुले एकं पार्श्वं फलकं धनुराकारं तक्षेत् ।
यथा अङ्गुलिः द्वादशतिलाश् च शरप्रमाणं भवति ।
प्रथ्यन्तं तु प्रमाणम् ।
तस्यापि चतुरश्रवदेकं पार्श्वं, त्रयोदशाङ्गुलं दशतिलोनमपरं, षड्विंशकं तिलद्वयोनमपरं, तद्धनुरिव तक्षेत्, यथा अङ्गुलिः सप्तविंशतिश् च तिलाःशरो भवति ॥
उपधाने श्चिकीर्षेत्
मण्डलचतुरश्रयोःसाधारणमिदं भेदपरिहाराय, अनेनैव ज्ञायते सर्वत्र भेदो वर्जनीय इति ।
तथाच बोधायनः------
भेदान् वर्जयेदधरोत्तरयोः पार्श्वसंधानं भेद इत्याचक्षते, तदाद्यान्तेषु न विद्यते--इति ।
पिशील विज्ञायते
विशीलं पञ्चधा वर्णयन्ति--बाह्वोरन्तरालमित्येकम्, कृतमु ष्टिमरत्निं(कृतमुष्टिरर त्निः) द्वितीयम् ।
अकृतमुष्टिमरत्निं तृतीयं, द्वात्रिंशदङ्गुलं चतुर्थं, षट्त्रिंशदङ्गुलं पञ्चममिति ।
चतुरश्रान् कृत्वा
तान् कुर्यादिति शेषः ।
आग्नीध्रो दध्यात्
इतरान् धिष्णियान् यथासंख्यं व्यवलिख्य द्वादश षोडशेत्यादि होत्रीये, एकादश ब्राह्नणाच्छंसीये, षण्मार्जालीये, अष्टावष्टावन्योष्विति ।
तेषां च यथासंभवं विभागा इति केचिदाहुः ।
सम चतुहश्राणां धिष्णियानां समचतुरश्रा एवेष्टकाः कार्याः चतुरश्रमादेशादन्यदिति ।
तवारत्नीविष्कम्भाणां धिष्णियाना मिष्टका अष्टाङ्गुला आग्नीध्रीयस्य ।
होत्रीयस्य द्वादशकस्य मध्ये चतस्रश्चतुरङ्गुलाः ।
परितो ऽष्टाङ्गुलाः ।
षोडशिके षडङ्गुलाःसर्वाः ।
एकविंशकस्य मध्ये नव चतुरङ्गुलाः, परितो द्वादश षडङ्गुला ।
चतुर्विंशकस्य कोणे ऽप्वष्टाङ्गुलाः, शेषो विंशतिश्चतुरङ्गुलाः ।
व्लाह्नणाच्छंसीये सप्त षडङ्गुला, चतस्रो नवाङ्गुलाः ।
मार्जालीये पञ्चाष्टाङ्गुलाः ।

अन्ये त्वाहुः--यथासंख्यमितरानिति वचनात् सर्वा इष्टकास्तुल्यक्षेत्रा एव ।
तत्र समचतुरक्षाणामेव कर्तुमशक्यत्वाद्दीर्घचतुरश्रा अपि क्रियेरन्निति ।
तन्मते ऽप्याग्नीध्री यस्य पूर्ववत् ।
होत्रीयस्य द्वादशकस्येष्टका अष्टाङ्गुलायामाः षडङ्गुलव्यासाः ।
षोडशकस्य पूर्ववदेव ।
एकविंशकस्य तु अष्टाङ्गुलायामा अरत्निस(प्त)मव्यासाः ।
(चतुर्विंशकस्य षडङ्गुला यामाश्चतुरङ्गुलव्यासाः ।
मार्जालीयस्य प्रादेशायामा अष्टाङ्गुलिर् व्यासाः अष्टकानां प्रादेशायामाःषडङ्गुलव्यासाः) ।
ब्राह्नणाच्छंसीयस्य द्वे सरणे अष्टाङ्गुलायामं साष्टादशतिलषडङ्गुलव्यासमेकं करणम् ।
तेन तिस्र इष्टकाःषडङ्गुलव्यासा भवन्ति ।
नवतिलोननवाङ्गुलायाममपरम् ।
तेन अष्टाविष्टकाः ।
अन्येषु पिशीलमात्रेष्वेतदनुसारेणेष्टका द्रष्टव्याः ॥
अथ परिमण्डलानां षट्त्रिंशदङ्गुलविष्कम्बानां आग्नीध्रीयस्य मध्ये प्रादेशव्यासं परिमण्डलमश्मानं निधाय परितो ऽष्टाविष्टकास्तासां करणं, पार्श्वे द्वादशाङ्गुले, चतुर्दशाङ्गुलमष्टतिलोनमेकं तिर्यक्फलकं, तद्धनुरिव तक्षेत्, यथा अङ्गुलिः द्वादशतिलाश् च शरो भवति ।
सविंशतितिलं चतुरङ्गुलमन्यत्तिर्यक्फलकं, तच्च धनुरिव तक्षेत्, अन्तर्वक्रं तु भवति यथा पञ्चदशतिलाःशरः ।
एवमिष्टका अन्येषां धिष्णियानां त्रीणि करणानि ।
सर्वेषां च द्वेट्वे फलके अष्टादशाङ्गुले ।
होत्रीयस्य द्वादशकस्य तृतीयं फलके नवाङ्गुलं सैकादशतिलं, तद्धनुरिव तक्षेत्, यथैक विंशतितिलाःशरः एवं षोडशकादीनां च द्रष्टव्यम् ।
ब्राह्नणाच्छंसीयस्य तृतीयं फलकं दशाङ्गुलं सपञ्चदशतिलं, तद्धनुरिवतक्षेत, पञ्चविंशतितिलाःशारः, सप्ततिलमिति व्कचित् ।
मार्जा लीयस्य तृतीयमप्यष्टादशाङ्गुलं, तदर्धधनुरिव तक्षेत्, व्द्यङ्गुलं चतुर्दशतिलाःशरः ।
अष्टकानां तृतीयफलकं चतुर्दशाङ्गुलमष्टतिलोनं, तद्धनुरिव तक्षेत्, अङ्गुलिर्द्वादशतिलाश् च शरः ।
अन्येषां च पिशीलानामेतदनुसारेण द्रष्टव्यम् ॥
॥ इत्.इ सप्तमः खण्डः ॥
इति सुन्दहहाजीये आपस्तम्बशुल्बसूत्रव्याख्याने शुल्बप्रदीपे
द्वितीयः पटलः.
---- ।
कपर्दिक्षाष्यम्
उक्तानि हविर्यज्ञानां विहरणनि ।
सौमिकानि च साग्निचित्यस्य क्रतोरग्निक्षेत्रमानमिष्टकानां करणानि उपधानवि धिश् च नोक्तः ।
तद्वक्तुकामः प्रस्तौति--
भवतीव खलु वा एष यो ऽग्निं चिनुते इति विज्ञायते । वयसां वा एष प्रतिमया चीयत इत्याकृतिचोदनात् । प्रत्यक्षविधानाद्वा

8.2

यावदाम्नानेन वेणुना चतुरश्रे आत्मनि पुरुषान् अवमिमोते
प्रस्तावमात्रमनया श्रुत्या कियते न फलनिधानं ।
विधिविभक्तेरभावात् ।
नित्यो ऽग्निरुत्तरवेदिवत् ।
"अग्निष्टोम उत्तरवेदिरुत्तरेषु क्रतुष्वग्निःऽ इति नित्यवचनात् ।
यदि प्रस्तावो ऽनया श्रुत्या स्वीक्रियते गार्हपत्यचितेः पूर्वमेव प्रस्तावो न कर्तव्यः ।
सत्यमेतत् ।
इह प्रस्ताववचनस्येदं प्रयोजनम्-- वक्ष्यमाणानि धमार्णि महाग्नेरेव यथा स्युरिति ।
कानि पुनस्तानि? जानुदघ्राजो महाग्नेवेति कात्यायनीये शुल्बे महाग्ननेरेवैते धर्मा इति स्पष्टमुक्तम् ।
किं चाश्चेहाग्निशब्देन निरुपपदेन चोदिता धर्मा यथा स्युरिति ।
यथा--"तं वा एतं यजमान एव चिन्वीतऽ इति यजमानो महाग्नेरेव कर्ता न गार्हपत्यादेः ।
गार्हपत्यधिष्णयानामध्वर्युरेव कर्ता ।
पश्चाद्विधातव्यानां धिष्णियानां पूर्वं विधानस्यैतत्प्रयोजनम् ।
यो ऽग्नेश्वेता स भवत्येव ।
यद्यपि बहवो भ्रातृव्या इति क्रियते ऽनया श्रुत्या ।
वयसां--पक्षिणां एषो ऽग्निः प्रतिमया प्रकृत्या चेतव्य इति आकृतेःस्वरूपस्य विधानं क्रियते ।
स चोत्पततां छाययेत्यर्थ इति बोधायनेनोक्तम् ।
वैशब्दो निश्वये ।
असावप्याचार्यो वक्ष्यति "वक्रपुच्छो व्यस्तपक्षऽ इति ।
तस्माच्छ्येनचिदेव प्रथमः ।
शुल्बान्तरे चोक्तं "श्येनचिदग्नीनां प्रथमो ऽग्निःऽ इति ।
यदि श्येनो नित्यः कथं स्वर्गकाम इति ? यूपद्रव्यवत् ।
यथा खादिरं स्वर्गकामस्येति खादिरस्य नित्यत्वं काम्यत्वं च ।
प्रत्यक्षविधानाद्यावदाम्रायेन ।
वाशब्दः पक्षव्यावृत्तौ ।
तेन नैषापृतिचोदनापि श्येनः प्रकृतिः ।
कुतः? प्रत्यक्षविधानात् ।
प्रत्यक्षमेवात्र विधीयते ।
पक्षीभवतीत्यारभ्य पक्षपुच्छानामपि प्रमाणं विहितम् ।
तेन विरोधात् ।
नन्क्तमाकृतिचोदनेति, नैषा चोदना; नापि विधिः; विधिविभक्तेरभावात् ।
चीयत इति निर्दिश्यते; न चिनुयाच्चेतव्यमिति वा ।
विध्यन्तरशेषभूतत्वाच्च पश्यामो न विधायिकेति ।
"ब्रह्नवादिनो वदन्ति न्यङ्ङग्निश्वेतव्या 3 उत्ताना 3 इत्यारभ्य प्राचीनमुत्तानं पुरूषशीर्षमुपदधातिऽ इति पुरुषशिरसः उपधानं विधीयते ।
तस्य शेषभूतमिदं न विधायकम् ।
श्येनचिदग्नीनां प्रथम इति पिठकश्येनमधिकृत्यैतदुक्तं पुरुषमात्रपक्षपुच्छस्य समाख्या श्येन इति ।
तस्मादविरोधः ।
यावदाम्नानं तावदेव सारूप्यं ।
पक्षपुच्छवत्तथा सारूप्यं गृहीत्वा वयःशब्दो वर्तते ।
तस्मात्पुरुषमात्रपक्षपुच्छवानग्निरिति तामेव प्रकृतिं निश्वित्य अन्ये आकृतिविशेषा वक्रपक्षादयः काम्या इति सिद्धम् ।
वक्ष्यति "काम्या गुणविकाराऽ इति ।
वेणुना चतुरश्र आत्मनि पुरुषानवमिमीते--अग्निकल्पे उक्तलक्षणेन वेणुना मिमीते--मिनोति स्थण्डुलार्धं क्षेत्रं वक्ष्यमाणेन मागैण सर्वतो द्विपुरुष आत्मा द्वाभ्यां चत्वारीति वचनाच्चतवारि च पुरुषक्षेत्राण्यात्मनि----
पुरुषं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषम् उत्तरे
पुरुषमेकं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषमुत्तरे--विवं त्रीणि चतुरश्राणि पुरुषप्रमाणानि, आत्मना सह सप्त पुरुषक्षेत्राणि ॥
अरत्निना दक्षिणतो दक्षिणं पक्षं वर्धयति । एवम् उत्तरत उत्तरम्
अरत्निप्रमाणेन दक्षिणतः दक्षिणं वक्षं वर्धयति--दीर्घङ्करोति ।
उत्तरतश्चोत्तरं पक्षम् ॥
प्रादेशेन वितस्त्या वा पश्चात्पुच्छम्

8.3

द्वादशाङ्गुलेन त्रयोदशाङ्गुलेन वा पश्चात्पुच्छं वर्धयेदिति शेषः ।
एवमर्धाष्टमानि षुरुषक्षेत्राणि भवन्ति ।
करविन्दीया व्याख्या
अग्न्याधेयप्रभृति सोमान्तानां केवलविहारा उक्ताः ।
इदानीं साग्निचित्येषु क्रतुषु विहारविशेषविधित्सयाग्नेश्वयनविधायिकां श्रुतिं पठति ॥
भवती यते
भवतिःसमृद्ध्यर्थे ।
इवखलुवैशब्दो निपातसमुदायो वाक्यालङ्कारादौ वर्तते ।
"रस इव खलुवै तत् यो ऽर्ग्नि चिनुते--अग्निं चयनेन संस्करोति स समृद्धो भवतीति विज्ञायते ॥
नन्.उ मन्त्रस्य विधेः स्तावकतयार्ऽथवादो ऽयं ।
चिनुत इति वर्तमाननिर्देशः ।
अतः कथमेषा अग्रिसंस्कारभूतस्य चयनस्य विधायिका श्रुतिः कल्प्यते ।
सत्यं, तैत्तिरीयके अस्या एव श्रुतेर्मुख्यत्वादप्राप्तार्थत्वेनानुवादत्वासंभवाच्चयनमात्रस्यैषा विधायिका श्रुतिः कल्प्यते ।
अकामसंबन्धान्नित्येति च ।
ननु चयनवद्भवत्यर्थो ऽपि विधेयः ।
न विधेयः, कुत, चयनस्याग्निसंस्कारत्वेन तत्फलानुवादासंभवात् ॥
वयसांअदना
वयांसि--पक्षिणः श्येनादयः ।
प्रतिमा -- प्रतिकृतिःसादृश्यमाकृतिरूपं चोदयतीति चोदना विधीयका श्रुतिः ।
एषो ऽग्निर्यथा श्येनाकृतिर्भवति तथा येतव्य इत्यर्थः ।
शुल्बान्तरे च -- श्येनचिदग्नीनां प्रथमो ऽग्निरित्युक्तं ।
वक्ष्यति च श्येनं प्रकृत्य वक्रपक्षो व्यस्तपुच्छो भवतीति ।
तस्माद्वकपक्षादिविशिष्टश्येनो ऽग्निः प्रकृतित्वेन कार्यः ।
स नित्यः ।
यूपप्रकृतिभूतखादिरादिकत् स्वर्गकामस्यापि भविष्यति ।
प्रत्य नेन
वाशब्दः पक्षव्यावृत्तौ ।
नैतदस्ति वयसां वा एष प्रतिमया चायते इति एषा श्येनाद्याकृतिविशेषचोदनेति ।
कुतः, प्रत्यक्षविधानात् ।
यतः पक्षी भवतीत्यादिना वाक्येन व्यायाममात्रपक्षपुच्छवदाकृतिः प्रत्यक्षमेवाग्नेर्विधीयते ।
अतः वयसां वा एष प्रतिमया चीयत इति वयःसादृश्यमात्रमभिदधाति, नैषा श्यैनाकृतियोदना भवितुमर्हति ।
किञ्च चीयत इति वर्तमानार्थ निर्देशादस्य वाक्यस्य पुरुषशीर्षोपधानविधिवाक्यशेषत्वाच्च नैषा विधायिका ।
यच्चोक्तं शुल्बान्तरे -- "श्येनचिदग्निनां प्रथमो ऽग्निरित्युक्तमितिऽ नायं दोषः ।
तत्र हि व्यायाममात्रपक्षपुच्छो ऽग्निरित्यपि श्येन इत्युच्यते ।
तस्मादाम्नानेन वेदेन व्यायाममात्रपक्षपुच्छवत्ताया यावत्सादृश्यं विहितं तावदेव संपादयितव्यं ।
तस्मात्पुरुषमात्रपक्षपुच्छवानग्निः प्रकृतिर्नित्यश् चेति स्थितम् ।
अस्या ग्नेःस्वरूपमाह ।
वेणुना च्छं वक्ष्यमाणप्रकारेण वेणुनाऽत्मनि चतुरः पुरुषानवमिमीते ।
अवमानमपि विमानमेव ।
इयति शक्ष्यामीति त्वा अवमाय यजन्त इति दर्शनात् ।
सर्वतो द्विपुरुष आत्मा ताभ्यां चत्वारि पुरुषक्षेत्राण्यात्मा भवति ।
एवं वक्षयोः पुच्छे च पुरुषसंमितानि त्रीणि ।
एवं सप्त पुरुषक्षेत्राणि अरत्निना दक्षिणतो दक्षिणं पक्षं प्रवर्धयति दक्षिणतो -- दीर्घं कुर्यात् ।
एवमुत्तरत उत्तरमपि पक्षमुत्तरतो दीर्घं कुर्यात् ।
प्रादेशेन नितस्त्या वा पश्चात्पुच्छं ।
प्रादेशोङ्गुष्ठप्रदेशिनीभ्यां परिमितः वितस्तिरङ्गुष्ठकनिष्ठिकाभ्यां तयोरन्यतरेण पुच्छं प्रतीचीनं वर्धयेत् ।
एवमर्धाष्टमानि पुरुषक्षेत्राण्यग्नेः क्षेत्रं भवति ।
सुन्दरराजीया व्याख्या.
वेदेर्विमानं सौमिक्याः क्रमैर्द्विद्वादशाङ्गुलैः ।
आदित्रिसप्तसु द्वित्रिचन्द्रद्वियुगभूमिषु ॥ .1 ॥
भूत्रिभूद्विशरैकेषु शङ्कवो दश पञ्च च ।
सषट्तिलारत्निषष्ठोनाष्टात्रिंशदरत्निका ॥ .2 ॥
विमानरज्जुश्विह्नं स्यात्तस्याःसप्तदशस्वथ ।
पाशौ कार्यौ तयोर्मध्ये प्रक्तमा द्वादश स्मृताः ॥ .3 ॥
षट्त्रिंशिका वा रज्जुःस्याद्विमाने व्द्यष्टलक्षणा ।
श्रोणी पञ्चदशस्वाद्ये सदो ऽनन्तरतुर्ययोः ॥ .4 ॥
दशस्वष्टसु तत्कोणास्तृतीये ऽरत्निमात्रकाः ।
धिष्ण्याः प्रादेशान्तराला आग्नीध्रं तु तुरीयके ॥ .5 ॥
रुद्रेषु सप्तदशसु शङ्कू पादोनितेष्विह ।
कार्यौ हि पञ्चमेर्ऽकेषु मार्जालाग्नीध्रधिष्णियौ ॥ .6 ॥
सप्तमे प्राग्वदाग्नीध्रे धानं सार्धचतुष्टये ।
उत्करो दशमे शङ्कौ मनुषूत्तरतः क्रमे ॥ .7 ॥
ऊवथ्यगोहखननस्थानमेकादशे पुनः ।
हविर्धानं प्राग्वदत्र पाशयोर्व्यत्यतो ऽधिकः ॥ .8 ॥
षोडशस्वर्धहीनेषु शामित्रो द्वादशे भवेत् ।
शङ्क्वोरुत्तरवेदिःस्याद्द्वयोःसार्ध उपान्त्ययोः ॥ .9 ॥
अन्तिमे द्वादशस्वंसौ चात्वालोंऽसादुदक्क्रमे ।
पशुबन्धो ऽस्तु चात्वालःसोमे ऽपीत्यवधार्यते ॥ .10 ॥
मानान्तरमनुक्त्वैव व्याख्यात इति कीर्तनात् ।
शम्यामात्रस्तु सर्वत्र व्यक्तं बोधायनो ऽब्रवीत् ॥ .11 ॥
अन्यथाग्नौ विरोधःस्यान्मानं चान्यन्न विद्याते ।
उत्तरेंऽसे महावेद्यामास्तावः परिकीर्तितः ॥ .12 ॥
दक्षिणे तु हविर्धाने पश्चात्तीन् प्रक्रमांस्त्यजेत् ।
पादोनद्वितयं पार्श्वे ऽरत्नौ तूपरवाःस्मृताः ॥ .13 ॥
अर्धप्रादेशतस्तेषां भ्रमणं कोणशङ्कुषु ।
अग्रेणोपरवांस्त्यक्त्वा पादोनप्रक्रमत्रयम् ॥ .14 ॥
शम्यामात्रश्वतुःस्रक्तिः खरश्लिष्टस्तु सञ्चरः ।
औदुम्बरसदोमध्ये पृष्ठ्या दक्षिणतः क्रमे ॥ .15 ॥
भवतीव चोदना
प्रतिमया वयसां उत्पततां छायया ।
तथा च बोधायनः--
"वयसामुत्पततां छाययेत्यर्थःऽ
इति ।
अनेन श्येनचितिर्नित्योति ज्ञायते ।
मन्त्रवर्णाश् च भवन्ति, "सुपर्णो ऽसि गरुत्मान्ऽ इत्यादीनि ।
लिङ्गानि च पुच्छाच्छि रो ऽधिकृषति शिरसि पक्षयोरित्यादीनि ।
न हि चतुरश्रे शिरोस्त ।
प्रत्य द्वा
पक्षीभवति व्याममात्रौ पक्षौ च पुच्छं च भवतीत्यादि प्रत्यक्षविधानाद्वा आकृतिः प्रत्येतव्या ।
अनेन चतुरश्रो ऽग्निर्वि धीयते ।
स च सर्वाग्नीनां प्रकृतिरिति ।
तमेव तावदाह --
याव त्तरे
यावदाम्नानेन यथासम्नातेन पुरुषमात्रेण वक्ष्यमाणेन पञ्चारत्निना ।
एवं केवलसप्तविधाग्नेर्मानमुक्तं, पक्षान्तरमाह --
अरत्निना च्छं वितस्तिर्द्वादशाङ्गुला ।
यथोक्तं कात्यायनेन --
(120)
"पञ्चारत्ननिर्दशवितस्तिर्विंशतिशताङ्गुलयः पुरुषःऽ
इति ।
वितस्तिर्द्विदशाङ्गुलेत्येव नैघण्टुकाः ।
प्रादेशेनेत्यस्य व्याख्यानं वितस्त्येति ।
प्रादेशशब्दार्थस्य विशयिस्वात् वितस्तिरेवात्र प्रादशेशब्देन ग्राह्या, नतु प्रसारिते अङ्गुष्ठप्रदेशिन्यावित्यर्थः ।
अथवा वाजसनेयके "वितस्त्या पुच्छंऽ इति श्रुतत्वा द्वितस्तिशब्दस्यैव प्रसिद्धतरेण प्रादेशशब्देनन व्याख्यानम् ।
वाशब्दो वाक्यार्थे ऽवसंबध्यते ।
तेन सर्वमिदं विकल्प्यते ।
तथाहि -- पुच्छवृद्धेस्तावद्वैकल्पिकत्वमवगतम्, तैत्तिरीयके प्रवृद्धेरनुक्तत्वात् ।
व्यनक्ति च कात्यायनस्तथा "अरत्निना पक्षौ द्राघीयागंसौ भवतःऽ इत्युक्त्वा इति द्राघीयस्त्वमुक्त्वा "व्याममात्रौ पक्षौ च पुच्छं च भवतिऽ इति पुरुषमात्रस्यैव निगमनात् ।
रुपष्ट
यति चैतद्बोधायनः --
पुरुषमात्रैण वेणुना सपक्षपुच्छमरत्निना वा पक्षौ द्राघीयागंसौ भवतः ।
इति ।
केचित्तु वितस्तिं त्रयोदशांङ्गुलां मन्वाना द्वादशाङ्गुलेन प्रादेशेन विकल्पयन्तः पक्षपुच्छानामरत्नन्यादिप्रवृद्धिं नित्यामाहुः ।

तेषामष्टविधप्रभृतीनां यदन्यत्सप्तधा विभज्य विधासप्तमकरणीमित्यादि न संगच्छते ।
तत्त्योदशाङ्गुलवितस्त्यभ्युपगमे पुच्छे विंशतिशताङ्गुलमात्रं क्षेत्रमुपधातुं न शक्यते ।
तत्र कश्विदाह -- पुरीषेण पूर्यतामिति, तत्सूत्रकारो न सहते ।
यदाह "अर्धान्तरत्वात् पुरीषस्यऽ इति "यत्पच्यमानानां प्रतिह्रसेतऽ इति च ।
किञ्च पुरीषेण चेत्सर्वस्य न्यूनस्य पूर्तिः; किमिति महता ग्रन्थेन इष्टकाप्रमाणार्धमधुना प्रयत्यते ।
तस्मान्न किञ्चि देतत्र्रयोदशाङ्गुला वितस्तिरिति ।
अन्ये मन्यन्ते -- द्वादशाङ्गुल योरेव वितस्तिप्रादेशयोः आमिक्षापयस्ययोरिव बिधिभेदाच्छब्दभेदः ।
तयोश् च परस्परं विकल्प इति ।
तेषामपि पूर्वोक्तासंगतिः स्पष्टैव ।
ब्राह्नणविरोधश् च ।
तैत्तिरीयके हि पुच्छस्य प्रवृद्धिः पाक्षिकत्वेनापि नोक्ता ।
तस्मादरत्ननिप्रादेशानां पाक्षिकत्वमेव ज्यायो मन्यामहे ।
किञ्च यदेवेष्टकानामष्टाङ्गुलानां पञ्चमं करणं तदप्यस्मिन्नर्धे लिङ्गं कथम्? तत्र हि प्रथमतृतीयकरणाभ्यामेव उपधाने शक्ये अन्यानि त्रीणि करणानि भेदपरिहारार्थानि ।
तत्र पञ्चमेन विनाप्युपधानं सुकरम् ।
सरत्न्यादिप्रवृद्धौ नित्यायां तत्प्रकारश् च दर्शितो भगवता बोधायनेन --
"उरधाने पूर्वापरयोः पक्षपार्श्वयोःऽ ।
इत्यादि ।
अन्यश् च प्रकारः -- आत्मनि पुरस्तात् दशार्धेष्टकाः ।
उदगायताः पञ्चदश ।
पक्षाग्रर्योर्मध्ये तिस्रस्तिस्रः प्राच्यः ।
पुच्छापार्श्वयोः पञ्चपञ्च ।
पुच्छाग्रकोणयोर्द्वे प्रादेशमात्र्यौ ।
ताभ्यामध्यर्धे ऽष्टके उदीच्यौ ।
पक्षाग्रकोणेष्वेकैका अध्यर्धा उदगायता ।
अप्ययोश् च पञ्चपञ्च यथासूत्रं ।
पुच्छाग्रमध्ये द्वे प्राच्यौ ।
शेषे पञ्चम्यः ।
एष द्विशतः प्रस्तारः ।
अपरस्मिंस्तु पक्षपार्श्वयोःषट्षडर्धेष्टका उदीच्यः ।
आत्मनि दक्षिणत उत्तरतश् च षट् षट् प्राच्यः ।
श्रोण्यंसेषु द्वेद्वे अध्यर्धे उदीच्यौ ।
पुच्छाप्यये पञ्च प्रागायताः आत्मानमरत्ननिनोपेताः ।
शेषे पञ्चम्यः ।
पुच्छाग्रेषु मध्यमामुद्धृत्य द्वे अर्धे ऽष्टके उदीच्यौ ।
एष द्विशतः प्रस्तारः ।
एवं चतुर्भिः करणैरुपधाने सिद्धे यत्पञ्चमं करणं तदरत्ननिप्रादेशाभावे ऽपि भेदपरिहारेण द्विशतपूरणार्थम् ।
निरूपणीयं चैतत्सर्वं सूरिभिरित्युपरम्यते ॥
कपर्दिक्षाष्यम्
एकविधः प्रथमो ऽग्निर् द्विविधो द्वितीयस् त्रिविधस् तृतीयः त एवम् एवोद्यन्त्यैकशतविधात्

8.4

एकः पुरुषो यस्मिन्निति एकविधः, एकपुरुषादेकोत्तरं चिन्वीतेति प्रथमातिक्रमे कारणाभावादिति प्रथम एकपुरुषविधा इष्टका अस्मिन्विधीयन्ते इति अग्निक्षेत्रम् ।
"आतश्वोपसर्गेऽ इर्यङ् ।
एका चासौ विधा लोचनीयम् ।
उद्यन्ति गच्छन्ति आ एकशत विधात् ।
अभिविधावाङ् ।
तद् उ ह वै सप्तविधम् एव चिन्वीत । सप्तविधो वाव प्राकृतो ऽग्निः । तत ऊर्ध्वम् एकोत्तरान् इति विज्ञायते

8.5

निपातसमूहः पक्षव्यावृत्तौ ।
एकविधादयो न चेतव्या इति ।
वावेत्यवधारणे ।
सप्तविध एव प्राकृतो ऽग्निः -- प्रकृतिरित्यर्थः ।
स्वार्थ एव तद्धित ।
सप्तविधादूर्ध्वं एकोत्तरानिति वाजसने यिनां श्रुतिः ।
सप्तार्थ एव प्रथमः प्रकृतिश् च पुरुषमात्रेणेत्यारभ्य सप्तार्धस्य विधानादुपधानविधौ दक्षिणे पक्षे उपदधातीति श्रूयते ।
तत ऊर्ध्वमेकोत्तरानिति एकपुरुषाधिकाः परमिति, द्वितीये प्रयोगे अर्धनवमं, तृतीयेर्ऽधदशममित्येवं द्रष्टव्यम् ।
करविन्दीया व्याख्या
एकविधः प्र तिविज्ञायते
सप्तविधस्य प्रकृतित्वमाशङ्क्य तेनैव प्रकृतित्वं प्रतिपादयितुमाह विधीयते मीयत इति विधा अग्ननिविमानं, पुरुषमात्रेण वेणुना पुरुषक्षेत्राणि एकैकशो ऽत्र मीयन्त इति विधाशब्दः पुरुषक्षेत्रवाची ।
एका विधा यस्याग्नेः स एकविधः ।
प्रथमातिक्रमे कारणाभावात् प्रथम एकविधःस एव प्रकृतिः, इतरे विकृतयः, ते चाग्नय एवमेकपुरुषवृद्ध्या उद्यन्ति अधिका भवन्ति -- वर्धन्त इत्यर्थः ।
आ एकशतविधात् ।
आङ्गाभिविधौ ।
कथं विधाशब्दस्य विमा नपर्यायत्वं, उच्यते -- विदधाति करोतीत्यर्थः ।
करणीव्यापारेषु विमानेषु करोतिः तत्रतत्रद् दश्यते ।
अतो विधाविमा नयोः पर्यायत्वम् ।
तस्मादेकविधः प्रथमः ।
स एकविधः प्रकृतिश् च ।
द्विविधादयस्तद्विकारा इति ।
तदुहवै सप्तविधमेव चिन्वीत -- तदुहवा इति निपातसमुदायः पक्षव्यावृत्तौ ।
नैतदस्त्येकविधः प्रथम इति ।
किं? तस्मिन् सप्तविधमेव प्रथमं चिन्वीतेति ।
कुतः? सप्तविधो वाव प्राकृतो ऽग्निः ।
वाव इत्यवधारणे ।
"एष वाव सर्वतो राजाऽ इत्यादौ दर्शनात् ।
प्रकृतिरेव प्राकृतः स्वार्थे तद्धितः, तस्मात्सप्तविध एव प्रकृतिभूतो ऽग्निः ।
तस्मात्सप्तविध एव प्रथमं चेतव्यः, नैकविधः तस्मिन्नेव पक्षपुच्छाद्यङ्गानामुपदेशादित्यभिप्रायः ।
सप्तविध इत्यर्धाष्टम एवोच्यते ।
यावानग्निःसारत्निप्रादेशःसप्तविधःसंपद्यत इति वक्ष्यमाणत्वात् ।
तत ऊर्ध्वं ततःसप्तविधादूर्ध्वमेकोत्तरानेकेनाधिकानग्नींश्विन्वीतेति श्रुतिः ।
अग्निर्बलोक्तं वाजसनेयकमिति ।
तस्माद्द्वितीयाद्याहारेषु
सप्तविधमेव चिन्वीतेत्येतदशमः इत्येवमेकोत्तरविधत्वं एकशतविधात् द्रष्टव्यम् ।
सुन्दरराजीया व्याख्या.
एकविधःअविधात्
विधीयत इति विधा -- पुरुषमात्रं क्षेत्रम् ।
प्रथमाहारे एकविधः ।
एवं द्विविधादि ।
एकशततम आहारे एकशतपुरुषः ।
तदुहवै विज्ञायते
पक्षान्तरमाह -- प्रकृतिरेव प्राकृतः प्रज्ञाद्यण् ।
सप्तविधादूर्ध्वमेकोत्तरानेकशतविधात् ।
सर्वत्रारद्निप्रादेशानां न वृद्धिः, विधानामेव वृद्धिवचनात् ।
"एकविंशे पुरुषाभ्यासो नारत्ननिप्रादे शानाम्ऽ इति लिङ्गाच्च ।
व्यक्तोक्तमेतद्बोधायनेन -- "अर्धाष्टमाः पुरुषाः प्रथमो ऽग्निः अर्धनवमा द्वितीयोर्ऽधदशमास्तृतीयःऽ इत्यादि ।
यस्त्वेकविधादिक्रमेणाहरते तस्य सप्तविधादिष्वप्यर त्निप्रादेशानामभावः, एकोत्तरत्वाविरोधात् सारत्निप्रादेशे सप्तविध आहृते उत्तरे ऽपि नारत्निप्रादेशाः ।
कपर्दिक्षाष्यम्
वाजसनेयिकमिति अग्निविकल्पविधानात् विकल्पं सप्तार्धमपि द्वितीये विहारे चिन्वीतेत्येतदपि लभ्यते ।
एकविधप्रभृतीनां न पक्षपुच्छानि भवन्ति । सप्तविधवाक्यशेषत्वाच् छ्रुतिविप्रतिषेधाच् च

8.6

इतश् च पश्यामः सप्तार्धविध एव चेतव्य इति ।
यस्मादेकविधप्रभृतीनां षड्विधपर्यन्तानां न पक्षपुच्छानि भवन्ति ।
किमुक्तं भवति? यतः पक्षपुच्छानि न भवन्ति तेषु न शेरत इत्यर्थः ।
कुत इत्याह -- सप्तेति ।
सप्तविधमग्निं प्रकुत्य विधीयन्त इत्यर्थः ।
रथन्तरं दक्षिणे पक्षे उपदधाति बृहदुत्तरपक्ष इत्येवमादयो न वियुज्यन्ते ।
तस्मान्न चेतव्या एकविधादयः ।
सप्तविध एव चेतव्यः ।
तेष्वेव पक्षपुच्छानि किमिति न क्रियेरन्नित्यत आह -- श्रुतीति ।
विरोधो -- विप्रतिषेधः ।
यद्येकविधस्यपक्षपुच्छात्मनां विभागः क्रियते; पक्षपुच्छत्मनां व्यायाममात्रता हीयते ।
अथैष दोषो न भवेदिति व्यायाममात्रता पक्षपुच्छात्मनां गृह्येत; तदैकविधत्वं हीयेत ।
तस्माद्विरोधः ।
अतश् च विरो धान्न कर्तव्या एकविधादयः षड्विधपर्यन्ताः ।
कथमष्टविधादयो मातव्या इत्यत आह --
अष्टविधप्रभृतीनां यद् अन्यत् सप्तभ्यस् तत् सप्तधा विभज्य प्रतिपुरुषम् आवेशयेत्
अष्टविधप्रभृतीनां एकशतविधपर्यन्तानां यदन्यत्सप्तभ्यः सप्तार्धेभ्यः तत्सप्तधा सप्तार्धधा यदन्यत्सप्तार्धेभ्यः प्रक्षेप्तव्यमासीत् तत्सप्तार्धधा विभज्य सप्तार्धेभ्य इति कुत एतल्लभ्यते? सप्तविध इत्युक्तेर्ऽधाष्टम एव गृह्यते ।
अरत्निप्रादेशानां तदन्तर्गतत्वात् ।
वक्ष्यति सप्तविध इति ।
अष्टविध एकः प्रक्षेप्तव्यः नवविधे द्वौ ।
दशविधे त्रय इत्येवं द्रष्टव्यमेकशतविधात् पुरुषात् ।
पुरुषं सप्तार्धधा विभक्तं कृत्वा प्रतिपुरुषमेको भागः क्षेप्तव्यः ।
सप्तास्वर्धपञ्चारत्निप्रादेशेषु पुरुषे त्रिंशत्पञ्चदशभागीयाः ।
अर्ध पुरुषे पञ्चदश ।
एवमेकस्मिन्पुरुषक्षेत्रे द्वे शते पञ्चविंशतिश् च पञ्चदशभागीयाःशेरते ।
अष्टविधे ताः प्रक्षेप्तव्याः ।
एकस्मिन्पुरुषक्षेत्रे त्रिंशत्पञ्चदशभागीयाः ।
तासु प्राक्षिप्तासु पञ्चपञ्चाशदधिकशतद्वयमापद्यते ।
षोडशानां वर्गं षट्पञ्चाशदधिकम् ।
तच्चतुरश्राच्चतुरश्रमित्यनेन न्यायेन एकस्मिन्पञ्चदशभागयिक्षेत्रे ऽपनीते या रज्जुः सा पुरुषस्थानीया ।
तस्याः पञ्चमो भागो ऽरत्निस्थानीयः ।
तेन मानेन कृते सर्वपुरुषक्षेत्रं लिप्तं भवति ।
एवं नवविधादिषु द्रष्टव्यम् ।
आकृतिविकारस्याश्रुतत्वात्

8.7

पुरुषमात्रेण विमिमीतेऽ वेणुना विमिमीते, इति विज्ञायते

8.8

यदि पुरुषक्षेत्रमेकत्र क्षिप्यते, विक्रियेताकृतिः ।
न विद्यते श्रुतिर्यस्याःसा अश्रुतिः ।
आकृतिविकारस्य श्रुतेरभावात् इत्यर्थः ।
पुरुषमात्रेणेति द्रव्यमपेक्षते ।
वेणुनेति च मात्रामपेक्षते ।
तयोर्नष्टाश्वदग्धरथवत्संबन्धः ।
पुरुषमात्रेण वेणुना मिनोति ।
यावान् यजमान ऊर्ध्वबाहुस् तावद् अन्तराले वेणोश् छिद्रे करोति मध्ये तृतीयम्

8.9

यजमानग्रहणादध्वर्युप्रमाणो वेणुर्न गृह्यते ।
छिद्रयोरन्तरालं यजमानमात्रं यथा भवति तथा छिद्रे करोति ।
तयोर्मध्ये वेणोश्छिद्रमेकं करोतीति शेषः ।
अपरेण यूपावटदेशम् अनुपृष्ठ्यं वेणुं निधाय छिद्रेषु शङ्कून् निहत्योन्मुच्यापराभ्यां दक्षिणाप्राक् परिलिखेद् आन्तात्

8.10

सञ्चरस्य पश्चादनुपृष्ठ्यं पृष्ठ्या यथा तथा वेणुं निधाय त्रिषु छिद्रेषु शङ्कुं निहत्य अपराभ्यां शङ्कुभ्यामुन्मुच्य दक्षिणाप्राक्सव्यं परिलिखेदान्तात् अग्निक्षेत्रात् ।
उन्मुच्य पूर्वस्माद् अपरस्मिन् प्रतिमुच्य दक्षिणा प्रत्यक्परिलिखेद् आन्तात्

मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc