भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बशुल्बसूत्र · अध्याय 10

10.1

पच्यमानानामिष्टकानामुत्सेधतश् च परिमाणतश् च प्रतिह्रासो भवेत्तत्पुरीषेण पूरयेत् ।
कुत इत्याह -- अनियतपरिमाणत्वात्पुरीषस्य -- नियतपरिमाणा इष्टकाः अनियतपरिमाणं पुरीषम् ।
इयदेतत्पुरीषं प्रक्षेप्तव्यमिति नियमाभावात् तेनैव पूरचितव्यम् ।
नवमः खण्डः
करविन्दीया व्याख्या
ऊर्ध्व -- येत्
सर्वासामिष्टकानामूर्थ्वाप्रमाणमुत्सेधं जानुपञ्चमेन कारयेत् ।
अङ्गुल्यधिकारे द्वात्रिंशज्जानुरिति बोधायनः ।
तस्य पञ्चमं षडङ्गुलयः अर्धचतुरदशास्तिलाश् च ।
तेन संमितमिष्टकानाम् ऊर्ध्वप्रमाणं भवति ।
जानुदघ्नं चिन्वीत प्रथमं चिन्वानः, पञ्च चितयो भवन्तीति श्रुत्योःसमावेशादूर्ध्वप्रमाणे समं स्यादश्रुतत्वादिति जानुपञ्चमा इष्टका भवेयुः ।
जानुद्विगुणा नाभिः ।
जानुत्रिगुणमास्यम् ।
जानुदघ्ने सहस्रा इष्टकाः नाभिदघ्ने द्विसाहस्रा द्विप्रस्ताराश् च ।
आस्यदघ्ने त्रिषाहस्राः त्रिप्रस्ताराश् च ।
तत्र सर्वत्र विशेषाश्रवणात् जानुपञ्चममेवोर्ध्वप्रमाणमिष्टकानाम् ।
इष्टकानां कारयेदिति इहानुवर्तमाने पुनरपि तयोर्ग्रहणं गार्हपत्यधिष्णयेष्टकानामपि जानुपञ्चमत्वाय ।
अर्धेन -- षस्य
अर्धेन पञ्चचार्धेनन कारयेदित्येव ।
नाकसदश्वूडोपधानमन्त्रविशेषाः ।
तैरुपधेयाः ।
पञ्चपढ्चेष्टका जानुपञ्व्रमस्योर्धेन कार्याः उत्तरा "नाकसद्भय उपदधातिऽ ।
इत्येकस्मिन् प्रस्तारे तासामुत्तराधरभावदर्शनात् ।
इष्टकाभिरकेव जानुदघ्नादिसाम्पादनात्, पुरीषोपधानीमष्टका समीकरणार्थे चितेर्वृद्धयर्थं च ।
यत्पच्य षस्य
करणपरिकॢप्तानां इष्टकानां पाकवशात् प्रतिह्रासः -- क्षय उपजायते ।
तत्पुरीषेण पूरयेत्, अनेन्ष्टका न दुष्यन्ति अवर्जनीयत्वात्, तस्य "मित्रैतां पचेतिऽ लिङ्गात्, वातातपाभ्यामपि शोषणं पाक एव ।
अत एव पाकवशाद्धीनमिष्टकायामविस्तारोभयमुपधानकाले पुरीषेण पूरयेत् ।
कुतः? अनियतपरिमाणत्वात् पुरीषस्य ।
न ह्येतावत् पुरीषं प्रक्षेपणीयमिति नियमः ।
तस्मात्पाकवशाद्धीनस्य पुरीषेण पूरणमेव ।
जलार्द्रा मृत् पुरीषं ।
तेनेष्टकानां ह्रासं पूरयेत् ।
सुन्दरराजीया व्याख्या
ऊर्ध्व कारयेत्
"त्रिंशदङ्गुलं जानुः, इत्याग्निवेश्यः ।
तस्य पञ्चमं षडङ्गुलम्, "षडङ्गुलोत्सेधा, इत्येव कात्यायनः ।
अर्धेन च
त्रयङ्गुलेन ।
यत्पच्य षस्य
शुष्यमाणानां सर्वेषामेतदुपल्क्षणम् ।
"यच्छोषपाकाभ्यां प्रतिह्रसेतऽ इत्येव बोधायनः ॥
नवमः खण्डः
कपर्दिक्षाष्यम्
उपधाने ऽध्यर्धा दश पुरस्तात् प्रतीचीर् आत्मन्य् उपदधाति । दश पश्चात् प्राचीः
आत्मनि पुरस्ताद्भागे षट्त्रिंशदङ्गुलायामेन कारिताद्यार्धाः प्रतीचीः प्रत्यगायताः दशोपदधाति ।
आत्प्रन्येव पश्चाद्भागे ता एवेष्टकाः तत्संख्याकाः प्राचीः -- प्रागायताः ।
पञ्चपञ्च पक्षाग्रयोः । पक्षाप्यययोश् च विशयास् तासाम् अर्धेष्टकामात्राणि पक्षयोर् भवन्ति
पञ्चपञ्च पक्षाग्रयोर्दक्षिणायताः उदगायताश् च ।
विशयाश् च पञ्च चोदगायताः दक्षिणायताश् च ।
इष्टकाशब्देन पञ्चभागीया एव गृह्यान्ते नाध्यर्दा "विपरीता अप्ययाऽ इति लिङ्गात् ।
पञ्चपञ्च पुच्छपार्श्वयोर् दक्षिणा उदीचीश् च

10.2

पञ्चपञ्चध्यर्धा दक्षिणायता उदगायताश् च यथा समीपे प्रदेशमात्रमवशिष्यते तथोपधेयाः ।
करविन्दीया व्याख्या
उप चीः
उपधानकालो द्वतीयकरणोत्पन्ना इष्टकाः आत्मनि पूर्वान्ते दशोपदध्यात् ।
प्रतीचीः प्रत्यगायाताः उदीचीरिति ।
ता एव एश पश्चात् प्राचीः आत्मनि पश्चिमान्ते प्रागायाताः ता एव ।
पञ्च याः
ता एव प्राच्यौ रीत्यौ ।
पक्षाप्यययोश् च विशयाः ।
पक्षाप्ययः -- पक्षमूलं विविधमात्मनि पक्षे च शेरत इति विशयाः ।
तासां कियदात्मनि कियत्पक्ष इत्याह --
तासांअन्ति
तासां विशयानामर्धेष्टकामात्राणि पक्षयोर्मवन्ति ।
आत्मानमरत्निना प्रदेशेन पक्षमित्यर्थः ।
प्राच्यौ रीत्यौ ॥
पञ्च चीश् च
पुच्छपार्श्वयोः पञ्चपञ्च उत्तरा दक्षिणामुखाः दक्षिणा उत्तरामुखाः प्राच्यौ रीत्यौ! उत्तरसूत्रे भेदामावाय पुच्छाग्रप्रादेशस्यापृथग्ग्रीतिता प्रतिपादयिष्यते ।
अत एता अग्रप्रभृत्युपधेयाः ॥
सुन्दरराजीया व्याख्या
प्रतीचीः प्रत्यगायताः ।
उदीचोरिति आत्मन्येव
एता उदगायताः, अन्यथा पञ्चानामसंभवात् ।
पक्षे आत्मनि च शेरत इति विशयाः ।
अरत्निमात्रा ह्यात्मनि ।
प्रादेशं पुरस्तादवशिष्य ।
कपर्दिभाष्यम्
पुच्छे प्रादेशम् उपधाय सर्वम् अग्निं पञ्चमभागीयाभिः प्रच्छादयेत्

10.3

पञ्चदशभागीयाभिः सङ्ख्यां पूरयेत्

10.4

पुच्छे प्रादेशमुपधाय आत्मसमीपे यदवशिष्टं तत्प्रादेशमत्रार्धेष्टकाद्वयं मध्ये अभितः प्रादेशाः षट् ।
षट्सु वितस्त्या च विर्धनमुक्तं कथं प्रादेशमात्रमुपधायेति? उच्यते -- यद्यपि वितस्त्या वर्धनमुक्तं, तथापि करणान्तरस्य विधानात् प्रादेशक्षेत्रमेवेष्टकाभिश्वेतव्यमिति यदङ्गुलिमात्रं परिगृहीतं तत्पुरषिणे पूरयितव्यम् ।
अमुमेवार्तं प्रदर्शयितुं प्रादेशमुपधायेत्युक्तम् ।
सर्वमग्निमिति -- पञ्चाशदध्यर्धः सूत्रोक्ताः पूच्छेर्ऽधेष्टकाद्वयं प्रच्छादयेत् ।
दशेत्तरं शतं पञ्चमभागीयः शेरते ।
पूर्वाभिःसहाष्टषष्टयधिकं शतम् ।
पञ्चदशेति -- एकस्मिन्पञ्चमभागीयाक्षेत्रे नव पञ्चदशभागीयाःशेरते ।
चतस्रः पञ्चमबागीया नवधा विभज्य यत्र व्कापि पञ्चदशभागीयाः क्षेप्तव्याः तत्रापि मन्त्रेपधानसौकर्यार्थं प्रादेश उच्यते ।
आत्मनि द्वितीयरीत्यां मध्ये द्वयमपहायाष्टादश ।
अष्टम्यां च रीत्यां अष्टादश ।
एवं द्विशतः प्रस्तारः ॥
करविन्दीया व्याख्या
पुच्छे दयेत्
पुच्छे यत्पुरुषाधिकं प्रादेशक्षेत्रं तदुपधाय सर्वमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ।
अयमाशयः -- आत्मपत् पुच्छे च पुरस्तात्प्रभृति पञ्चमबागीयाभिः प्रच्छाद्यमाने ऽग्रे प्रादेशमविशिष्यते ।
अस्मिन् योगाभिरिष्टकाभिरुपहिते पुच्छे च बहवो भेदा भवन्तीति मत्वा आचार्यः तत्परिहारायाग्रमारभ्य पुच्छे प्रादेशोपधानपूर्वकं प्रच्छादयेदिति ।
यद्वा -- प्रादेशं पुच्छे उपधाय -- पुच्छे संयोज्य यथा प्रादेशं पुच्छात् पृथग्ग्रीति न भवति तथा कृत्वेत्यर्थः ।
यद्वा प्रादेशं पुच्छ उपधाय पुच्छे निधाय स्थापयित्वा, "तासां षट्टप्रधा उपधायोतिऽ वत् ।
यद्वाग्रगतं प्रादेशं पुच्छमूले निदध्यात् ।
भेदं विपर्यस्ये तरत उपदध्यादिति ।
तदयमर्थः -- यावता वचनव्यक्तिः सर्वथा भेदाभावाय पुच्छाग्रं पुच्छात् पृथग्रीतिं न कुर्यात् इति तात्पर्यार्थ इति ।
सर्वेषु पक्षेषु अतिरिक्तं प्रादेशं पुच्छपूले ऽनुपहितमवशिष्यते ।
तदभितः प्रादेशाभिरर्धेष्टकाभिरुपदधयात् ।
किञ्च उपरितनप्रस्तारे "यथा प्रथमे प्रस्तारे पक्षौ तथा पुच्छमितिऽ वचनात् पुच्छमूले ऽतिदेशप्राप्तानामध्यर्धानां वैपरीत्यं वक्ष्यति -- "विपरीता अप्ययाऽ इति ।
तच्चैवमुपधाने समञ्जजसं स्यात् ।
इतरथा विरुद्धार्थमनर्तं च स्यात् ।
तस्मात्
पुच्छे प्रादेशमुपधायेत्यस्य भागस्यायमेवार्थो ग्राह्यः ।
ननु कथं सर्वस्याग्नेः पञ्चदशभागीयाभिः प्रच्छादनम्? उच्यते -- अत्रोपहितानामिष्टकानामबाधेन सर्वस्मिन्नग्नौ पञ्चमभागीयाभिः प्रच्छाद्यामाने तदेकदेशे तासामसम्भवे सत्याख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणी नहि वचनशतेनाप्यशङ्कनीयार्थःशक्यो विधातुमिति चतुरश्राभिः प्रच्छादयितुमशक्यत्वात् प्रथमप्रतीतसर्वशब्दानुरोधेन जघन्यः पञ्चमभागीयाशब्दो बाहुल्याभिप्रायो वर्णनीयः ।
तेन तत्तत्सहकारिणीभिरत्रत्याभिः सम्भवन्तीभिरपि प्रच्छादनं कार्यमित्येवमर्थं प्रादेशानामत्र प्राप्तिः ।
एष न्यायस्तत्राङ्गीकरणीयः ।
तत्रत्याभिरनुरक्ताभिरपि प्रच्छादने किं वार्ऽधेष्टकाः करणेनोत्पन्नाः न कुत्रचिद्विनियुक्ताः ।
तासामुपदेशबलादेव अत्र संख्यापूरणे प्रच्छादने च यथायोगं विनियोगः कार्यः ।
किञ्च यच्चतुरश्रं त्रयश्रि वा सम्पद्येतार्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेदिति परिभाषां वक्ष्यति ।
तथा वात्र समुपधानं स्यात् ।
अत्रात्मनि सन्ध्यन्तराले चत्वारिंशत् पञ्चमभागीयास्तासां पुरस्ताद्दश पश्चाच्च दश ।
पक्षयोर्विंशतिः पुच्छे दश ।
ता एता दशोत्तरशतं पञ्चमभागीयाः, पञ्चाशदर्धाश्चतस्रोर्ऽधाः द्वौ प्रादेशाविति षट्षष्ठिः शतं चेष्टकाः ।
"साहस्रं चिन्वीत प्रथमं चिन्वानऽ इत्यादिभिर्वाक्यैः प्रत्यग्नीष्टकानां साहस्रादयःसंख्या विधास्यन्ते ।
ताश् च प्रतिचिति प्रतिप्रस्तारं च भिद्यान्त इति च तत्रैव प्रतिपादयिष्यते ।
सा सहस्रसंख्या कथमत्र सम्पाद्येत्याह ॥
पञ्च रयेत्
पञ्चदशभागीयाभिरष्टाङ्गुलाभिःसंख्या पूरयेत् ।
का संख्यात्र पूर्यते? किं समुदायगता? उत प्रस्तारगता अविशेषात्? न समुदायगता आनन्तर्यात्, प्रतिप्रस्तारं शतद्वयनियमाच्च, प्रस्तारगतैव संख्या तत्र पूर्यते, अस्य वचनस्य सामर्थ्यादवसीयते संख्यापूरणं उपधानाय प्रच्छादिकासु कासांचिदुद्धरणं प्रचालनं वा यथायोगं न्याय्यमिति ।
अत्र प्रस्तारशतद्वयसम्पत्तये चतुस्त्रिंशत्संख्यासम्पाद्या ।
सा च प्रच्छादितासु काश्विदुद्धृत्य योग्नेष्टकोपधानेन भवति ।
तत्रैकस्मिन् पञ्चमभागीयाक्षेत्रे नव पञ्चदशभागीयाःशेरत इति ।
तत्रतत्रोपधाने देशानियमे तदुद्धरणेन तासामुपधाने कार्ये मन्त्रोपधानसौकर्याय उद्धरणोपधानदेशनियम उच्यते ।
तत्रास्मनि प्राच्यो दश रीतयः, तत्र मध्यमरीत्योः द्वितीये उद्धृत्य तत्र अष्टादश पञ्चदशभागीया आवपेत् ।
तयोरेव रीत्योरुपान्ते उद्धृत्याष्टादश आवपेत् ।
पुच्छे चतस्नः प्राच्यो रीत्यः, तत्र मध्यमयोरन्त उद्धृत्य चतस्रोर्ऽधेष्टका उदीचीरुपदध्यात् ।
एवं द्विशतः प्रस्तारः पूर्यते ।
अत्रैके पुच्छाग्रे दश प्रादेशानुपधाय पञ्चमभागीयाभिः प्रच्छादयन्ति, तेषां च विपरीतवचनानर्थक्यप्रसङ्गो मैदप्रसङ्गश् च भवतीति तथा नोपधेयाः ।
किञ्च -- यदि पुच्छाग्रे प्रादेशानामुपधानमपीष्टमभविष्यत्तर्हि पादेष्टकाश्चतुर्मागीयानां पक्षाग्रयोः पञ्चदश पुच्छाग्र इति च स्पष्टतरं पुच्छाग्र इत्येवावक्ष्यत् ।
न चैवमुक्तं ।
तस्मादुक्तविध एवोपधानक्रम इति स्थितम् ॥
सुन्दरराजीया व्याख्या
पुच्छादवशिष्टं प्रादेशक्षेत्रं यामिरिष्टकाभिर्मेदपरिहारेणोपधातुं शक्यते ताभिरुपदध्यात् ।
तत्र पार्श्वयोर्द्वे प्रादेशमात्रयौ मध्ये चतस्रोर्ऽधेष्टका उदगायताः ।
एतदेव प्रादेशकरणस्य प्रयोजनम् ।
अतः प्रादेशाभावेन कियते ।
शिष्टाग्नौ पञ्चमभागीयाभिः प्रच्छादिते षट्षष्टिशतमिष्टका भवन्ति ।
अरत्निप्रादेशरहिते पञ्चाशच्छतं इष्टका भवन्ति ।
तत्र आत्मन्युदीच्ये नव रीतयः ।
तत्र आत्मनि मध्यमायां मध्यमाश्चतस्र उद्धृत्य चतुःपञ्चाशन्निधेयाः ।
उभयत्रापि पुच्छाग्रे द्वे पञ्चम्यावुद्धृत्य चतस्रोर्ऽधेष्टका उपधेया उदगायताः ।
एवं द्विशतः प्रस्तारः ॥
कपर्दिबाष्टम्
अपरस्मिन् प्रस्तारे ऽध्यर्धा दश दक्षिणत उदीचीर् आत्मन्य् उपदधाति । दशोत्तरतो दक्षिणाः
आत्मनि दक्षिणत उतीचीरुदगायताः दशाध्यर्धाः उपदधाति आत्मन्येवोत्तरतः दशध्यर्धाः दक्षिणायताः ।
यथा प्रथमे प्रस्तारे पक्षौ तथा पुच्छम् । यथा पुच्छं तथा पक्षौ विपरीता अप्यये

10.5

पुच्छाग्रे पश्चादध्यर्धाः प्रागायताः ।
दक्षिणे पक्षे पश्चात् पञ्च प्रागायताः पुरस्ताच्च् पञ्च ।
षट्प्रत्यगायताः ।
उत्तरपक्षे चैवं प्रागायताः
प्रत्यगायताश् च ।
पुच्छाप्यये ऽध्यर्धाः पञ्च प्रागायताः प्रत्यगायताश् च ।
पुच्छाप्यये ऽध्यर्थाः पञ्च प्रागायताः ।
तासामर्धेष्टकामात्रा आत्मनि भवन्ति ।
एवं विपरीता अप्यये ।
तासां पुरस्तात्पञ्चार्धेष्टका उदीच्यः ।
सर्वम् अग्निं पञ्चमभागीयाभिः प्रच्छादयेत्

10.6

पञ्चदशभागीयाबिः सङ्ख्यां पूरयेत्
गतमेतत् ।
पूर्ववद्द्विशतः प्रस्तारः ।
करविन्दीया व्याख्या
अपर णाः
द्वितीये प्रस्तारे ऽध्यर्धा आत्मनो दक्षिणे भागे दशोपदध्यादुत्तरे दश ॥
यथाप्र क्षौ
प्रथमप्रस्तारे यथा पक्षावुपहितौ तथा पुच्छे ।
यथा पुच्छमुपहितं तथा पक्षयोः ।
एतदुक्तं भवति -- पुच्छाग्रे पुच्छाग्रसन्धौ पञ्च पञ्चाध्यर्धा उपधेयाः ।
पक्षयोस्तु पार्श्वयोः अध्यर्धा उपधेयाः, तत्र विशेषमाह --
विपरीता प्यये
पुच्छाप्यये पक्षाप्ययवदतिदेशप्राप्तानामध्यर्धानां आत्मनि अरत्नि मात्रत्वं पुच्छेर्ऽधेष्टकामात्रत्वं च प्राप्तोतीत्यत आह ।
अत्र विपरीता भवेयुरर्धेष्टका मात्राण्यात्मनि भवेयुररद्ननिमात्राणि पुच्छ इत्यर्थः ।
अस्य च भेदाभावः प्रयोजनमिति पूर्वस्मिन्नेव प्रस्तार उक्तं ।
सर्वम येत्
अत्र पुरस्तात् प्रभृत्यात्मनि प्रच्छाद्यमाने पुच्छाप्ययविशयानां पुरतः पुरुषमात्रे प्रादेशो ऽवशिष्यते ।
तत्र पञ्चमभागीयानामसम्भवात् भेदाभावाय पञ्चार्धेष्टका उदीच्य उपधेयाः, तासामुपधाने हेतुरुक्तः ।
अत्रात्मन्यध्यर्धानां मध्ये पञ्चषष्टिः पञ्चम
करविन्दीया व्याख्या
भागीयाः पञ्च चार्धाः, पक्षयोर्द्वादश द्वादश पञ्चमभागीयाः, पुच्छे पञ्चदश ता एताः चतुरुत्तरशतं पञ्चमबागीयाः, पञ्चचार्धाः, चतुःपञ्चाघदध्यर्धाः ।
ता एताः त्रिषष्टिः शतं च, अत्र सप्तत्रिंशत्संख्या सम्पाद्या ॥
पञ्च येत्
अत्र पक्षयोरात्मनि पुच्छे चतस्रः पञ्चमभागीया उद्धृत्य ष्ट्त्रिंशतं पञ्चदशभागीया उपदध्यात् ।
अत्मनि पूर्वस्यां रीत्यां मध्ये पञ्चोद्धत्य दशार्धेष्टका उदीचीरुपदध्यादेवं द्विशतः प्रस्तारः ॥
सुन्दरराजीया व्याख्या
अपरस्मिनतथापुच्छम्
अत्राप्यययोः पञ्चपञ्चाध्यर्धाः ।
पार्श्वेषु पञ्चपञ्चाध्यर्धाः, अरत्ननिवृद्धौ षट्षडिति द्रष्टव्यम् ।
पुच्छाप्यये या उपधीयन्ते तासामर्धेष्टकामात्राण्यात्मनि भवन्ति ।
पुच्छे ऽरत्निमात्राणि ।
एतच्च प्रादेशवृद्धौ ।
इतरथा अर्धेष्टकामात्राण्येव पुच्छे ।
सर्वमग्निंअपूरयेत्
पूर्ववदात्मनि मध्ये चतस्रःषड्वोद्धृत्य एकैकस्य स्थाने नवनवाष्टाङ्गुलाः ।
सारत्निप्रादेशपक्षे पुच्छाप्ययस्थाभ्यः प्राक्पञ्चार्धेष्टका उदगायता उपधेयाः ।
आत्मनि पूर्वरीत्यां मध्यमाः पञ्चोद् धृत्य दशार्धेष्टका उदगायता उपदध्यात् ।
एवं द्विशतः ।
अरत्निप्रादशाभावे तु चतु पञ्चाशता पञ्चतशभागीयाभिः द्वयूनं द्विशतं भवति ।
पुच्छपार्श्वयोरेवैकैकां पञ्चमीमपोह्य चतस्रोर्ऽधेष्टकाः प्रागायताः ।
एवं द्विशतः ।
कपर्दिभाष्यम्
व्यत्यासं चिनुयाद् यावतः प्रस्तारांश् चिकीर्षेत्

10.7

गतमेतत् ।
पञ्च चितयो भवन्ति । पञ्चभिः पुरीषैर् अभ्यूहतीति पुरीषान्ता चितिर् अर्थान्तरत्वात् पुरीषस्य

10.8

इष्टकासन्धानार्थं पुरीषम् ।
तस्मात्तदन्ता चितिः ।
तदर्थत्वात्तद्घरेण गृह्यते ।
जानुदघ्नीं साहस्रं चिन्वीत प्रथमं चिन्वानः
यः प्रथमं चिनोति स जानुदघ्नीं चिनुयात् सहस्रसङ्ख्यायुतं च ।
महाग्निमेवाधिकृत्य विधानान्न शालामुखीयधिष्णीयानां सहस्रसङ्ख्यायामन्तर्भावः ।
नापि जानुदघ्नीता ॥
नाभिदघ्नीं द्विषाहस्रं द्वितीयम् आस्यदघ्नीं त्रिषाहस्रं तृतीयम् उत्तरम् उत्तरं ज्यायाम्सम्
नाभिप्रमाणमुत्सेधतः द्विषाह्स्रं द्वितीयं चिन्वानः ।
आस्यप्रमाणं तृतीयं चिन्वानः ।
त्रिषाहस्रं तृतीयमुत्तरमुत्तरं ज्यायाम्सं ॥
नाभिप्रमाणमुत्सेधतः द्विषाह्स्रं द्वलितीयं चिन्वानः ।
आस्यप्रमाणं तृतीयं चिन्वानः ।
त्रिषाहस्रं च ग्रीवदघ्नमित्यस्मदीया श्रुतिः ।
महान्तं बृहन्तम् अपरिमितं स्वर्गकामश् चिन्वीतेति विज्ञायते

10.9

उत्तरमुत्तरमाहारमाहरेत् ।
ज्यायान् विधाभ्यासेन ।
महानुत्सेधतः ।
बृहत्परिमाणतः ।
अपरिमितं सहस्रादिभ्यः ।
"स्वर्गकामऽ इति वचनादाग्निकल्पे "वाजिसनेयिकमितिऽ पचनाच्च विकल्पः ।
करविमन्दीया व्याख्या
व्यत्या र्षेत्
गतं ।
ननु व्यत्यासे नाम यस्मिन् प्रस्तारे यत्र यादृशानामुपधानं कृतं तदनन्तरे प्रस्तारे तत्रान्याटृशानामुपधानं तादृशानामेवान्यतो दीर्घाणाम् ।
नच भेदाभावः प्रयोजनम्; स चेहाचार्यप्रवृच्यैव सिद्धः, तत्किमर्थमिदमुच्यते व्यत्यासं चिनुयादिति? उच्यते -- अन्यप्रस्तारद्वये सूत्रकारस्य व्यत्यासोपधानविधेरुपर्युपरि प्रस्तारेष्वनियमाशङ्का मन्दधियां न भवेदिति व्यत्यासवचनम् ।
किञ्च मन्त्रोपधानोत्तरमपि प्रामादिक भेददर्शने तत्परिजिहीर्षया लोकवदुपहितानामेव प्रचालनादिप्राप्तौ ""स इन्द्र इष्टकामावृहत् ।
ते वा कीर्यन्तेतिऽऽ दोषदर्शनादयालनाय शुल्बोपधानसमय एव शुल्बकुशलैर्नियतदेशानामभाधेन भेदाभागवः परिहरणीय इत्येवमर्थं व्यत्यासवचनम् ।
पञ्च षस्य
जलाद्रा पृत् -- पुरीषम् ।
अभ्यूहनमुपलेपः ।
उपधायापेधाय तां तां चितिं जलार्द्रया मृदोपलिम्पेत् ।
द्वाभ्यां वाक्याभ्यामेका चितिः पुरीषोपधानपर्यन्ता ज्ञेया ।
न केवलेत्यर्थः ।
अर्थान्तरत्वात् पुरीषस्य, अर्थः -- प्रयोजनं ।
अन्तरा -- भेदः ।
प्रयोजनान्यत्वादित्यर्थः ।
चितीनामन्यत्प्रयोजनं पुरीषाणां चान्यत् ।
चितीनां प्रयोजनभूतात् जानुदघ्नवदुत्सेधकरणादन्यत् प्रयोजनं पुरीषस्य ।
तच्चेष्टकानां शोषपाकागलह्रासपूरणं परस्परसं श्लेषश् च ।
अत एव चानियतपरिमाणं पुरीषम् ।
नच एतावद्भिः पुरीषैर्ह्रासपरिहारः परस्परसंश्लेषश् च भवतीति प्रमाणमस्ति ।
तस्मादनियतप्रमाणं पुरीषम् ।
अत उक्तं पुरीषान्ता चितिरिति ।
तथाच श्रूयते -- "पुरीषेणाभ्यूहति ।
तस्मान्मांसेनास्थि च्छन्नमितिऽ ।
अयमर्थः -- यथा शरीरावयवभूतान्यस्थीनि मांसैश्छन्नान्येव शरीरकार्ये प्रभवन्ति ।
एवमवयवभूतेष्टकाः सर्वतः पुरीषैश्छन्ना एवाग्निकार्ये प्रभवन्ति ।
तस्मादभ्यूहनपर्यन्ता चितिः ।
किञ्चयदि पुरीषोपदानं स्वार्थं तदा जानुदघ्नाद्यतिरिक्तप्रमाणताग्नेः स्यात् ।
अतः उक्तमेव प्रयोजनम् ।
अनेन "दश सम्पद्यन्ते द्वादश सम्पद्यन्तऽ इति चार्थवाददर्शनेन चितिपुरीषयोर्मिन्नार्थताशङ्का माभूदिति एकार्थता प्रतिपदिता ।
जानु यते
अत्र "जानुदघ्नं चिन्वीत प्रथमं चिन्वानऽ इत्याद्या उत्सेधविधायिका स्तिस्रःश्रुतयः ।
तथा "सहस्रं चिन्वीतेऽ त्याद्या अग्नेरिष्टकासङ्ख्याविधायिकास्तिस्रःश्रुतयः ।
जानुदघ्नं जानुप्रमाणं, नाभिदघ्नं नाभिप्रमाणं आस्यदघ्नमास्यप्रमाणम् ।
साहस्रं सहस्रसङ्ख्या परिमितं ।
द्विषाहस्रं द्वाभ्यां सहस्राभ्यां परिमितम् ।
त्रिषशाहस्रं त्रिभिःसहस्रैः परिमितम् ।
उत्सेधविधयः तत्सम्पादनापेक्षाः ।
सङ्ख्याविधयः तदाश्रयापेक्षाः ।
तेषां यथाक्रमं नष्टाश्वदग्धरथवत् परस्परापेक्षया मेलनेन पठिताः ।
ज्यायांसमुत्कृष्टैर्मर्दनादिकल्पैः उत्कृष्टैश् च संसर्जनीयैः; महान्तमुत्सेधतः; बृहन्तं परिमाणतः; अपरिमितं सङ्ख्यात उक्तं ।
संख्यादिकमपरिमितं परिमितात् परिमाणात् भूयः प्रमाणे साहस्रं शास्त्रं प्रमाणमिति कात्यायनः ।
स्वर्गकामस्य तु विशेषतः ।
अकामस्य तु नित्य एव ।
स्वर्गकामस्ये त्युक्तेः अग्निकल्पे "वाजसनेयिकमितिऽ वचनाच्च द्विषाहस्रादीनां विकल्पः ।
ग्रीवदघ्नमिति तैत्तिरीयके श्रूयते ।
उभयमप्येकार्थमेव ।
इष्टकोत्सेधकरणान्तराविधानात् ।
"समानं हिशिरोग्रीवमितिऽ ब्राह्नणदर्शनाच्च ।
(किञ्च ग्रीवास्ययोः पर्यायत्वदर्शनाच्च) ।
किञ्च ग्रीवास्ययोः पर्याय्त्वं लोके च दृश्यते -- दशास्यो दशग्रीव इति ।
तस्माच्छुत्योरेकार्थता ।
सुन्दरराजीया व्याख्या
व्यत्यासंअपुरीषस्य
इष्टकाःस्थण्डिलार्थाः, तत्सन्धानार्थं पुरीषं ।
अतो भिन्नप्रयोजनत्वात्सख्यान्तरं नावगाहते ।
जानुदघ्नींअज्यायांसं साहस्रं सहस्रपरिमाणम् ।
द्विषाहस्रं त्रिषाहस्रमिति "पूर्वपदादितिऽ षत्वम् ।
उत्तरमुत्तरं चतुर्थप्रभृति ।
अत्र ब्राह्नणं प्रमाणत्वेनाह --
महान्तंअविज्ञायते
महान्तं विधाभ्यासेन ।
अपरिमितं बृहन्तं ऊर्वप्रमाणेन ।
अत्र बोधायनः -- ऊर्ध्वप्रमाणाभ्यासं जानोः पञ्चमस्य चतुर्विंशेनैके समामनन्ति ।
कपर्दिभाष्यम्
द्विषाहस्रे द्विप्रस्ताराश् चितयो भवन्ति । त्रिषाहस्र त्रिप्रस्ताराश् चतुर्थप्रभृतिष्व् आहारेषु नित्यम् इष्टकापरिमाणम्

10.10

विज्ञायते च ःन ज्यायांसं चित्वा कनीयांसं चिन्वीतेतिऽ

मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc