भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बशुल्बसूत्र · अध्याय 7

7.1

एवं चतुरश्रे आपादिते पार्श्वमान्या पुरस्तादु पसंहरेत्, श्रुतिसामर्थ्यात्--""चतुःशिखण्डे युवती कनीनेऽऽ इति युवतिसादृश्यानुवादः सामर्थ्यम् ॥
इति षष्ठःखण्डः.
करविन्दीया व्याख्या.
(पदे युगे विशयित्वात्)
पदे युगे ऽरत्नावियति प्रादेशे प्रक्रमे शम्यायां चेति हिरण्यकोशिशुल्बे बोधायनीयशुल्बे च ।
अथाङ्गुलीप्रमाणं चतुर्दशाणवः चतुस्त्रिंशत्तिलाः पृथुसंश्लिष्टा इत्यपरम् ।
दशाङ्गुलं क्षुद्रपदम् ।
द्वादश प्रादेशः ।
पृथोत्तरयुगे त्रयोदशिके प्रक्रामे च (पञ्च) दश ।
अष्टाशीतिशतमीषा ।
षडशीतिर्युगम् ।
द्वात्रिंशज्जानुः षट्त्रिंशच्छम्या, बाहुर्द्द्विपदः प्रकामः, द्वौ प्रादेशावरत्निरिति ।
तथा पञ्चा रत्निः पुरुषश्चतुररत्निर्वा याम इति च ।
तत्रैव इयत्यग्रे जुहोति, इयत्यग्रे हरति, इयन्तं गृह्णाति, इयन्तं करोति, इयद्भवतीत्यादि ब्राह्नणव्याख्यानावसर एवाचार्येण जानुदघ्नादिभिः परिमाणैर्व्याख्यातः ।
तत्र पदादिषु मानसाधनवया निर्दिष्टेषु याथाकामी स्याद्यथेच्छा तथा कुर्यादित्यर्थः ।
शब्दार्थस्य विशयित्वादिति गतम् ।
अयमर्थः--पदादिषु यजमानस्याध्वर्योर्वावयवभूताङ्गुल्या परिकल्पितानि अणुतिलपरिकल्पिताङ्गुल्या परिकल्पि तानि वा पदादीनि गृह्नीयात् ।
पदादिशब्दार्थस्योभयत्रापि प्रयुक्तत्वादिति ।
अणवो धान्यविशेषाः ।
(आचार्येणैव निरूढपशौ रथ परिमाणज्ञानार्थं तक्षशास्त्रोक्तादष्टाशीतिशतमित्युदाहरणात्, श्येनेपञ्चारत्निः पुरुष इत्यादेः क्ल्प्तिशब्देन प्रमाणविदां समयानुकथनान्न शास्त्रान्तरपरिगृहीताङ्गुलिपदादिपरिग्रहानुयोगः ।
द्विपदस्त्रिपदो वेति प्रक्रमप्रस्तावे यजमानस्याध्वर्योर्वेति वचनान्न केवलमवयवादिविमिताङ्गुलिपरिच्छिन्नपदादिग्रह्रणम्) ॥
प्रासाङ्गुकं परिसमाप्य प्रस्तुतशेषं ब्रूते--
(विमिता सामर्थ्थात्)
व्याख्यातमेतद्दार्शिक्याम् ।
इह तु श्रुतिसामर्थ्यात् "चतुःशिखण्डे युवती कनीनेऽ इद्यस्याः श्रुतेरहीयसीं पुरस्तादित्येक इत्युपसंहाराच्च विकल्पः कर्मोपदेश उक्तः ॥
षष्ठ.खण्डः.
सुन्दरराजीया व्याख्या.
(पदयुगे विशयत्वात्)
पदचातुर्विध्यमुक्तम् ।
युगत्रौविध्यं च षडशीतिषण्णवतिशताङ्गुलैः ।
अरत्निर्द्विविधः--चतुर्विंशत्यङ्गुलो हस्तश् चेति ।
इयानिति प्रादेशो ऽभिप्रेतः ।
स च द्विविधः--द्वादशाङ्गुलः प्रसारिते अङ्गुष्ठप्रेदशिन्याविति ।
शम्या त्रिविधा--"चत्वारो ऽष्टद्वात्रिंशदङ्गुला शम्या, इति कात्यायनः ।
"षट्त्रिंशच्छम्याऽ इति होधायनः, लौकिकी तृतीया ।
एषु मानेषु याथा काम्यं भवति, शब्दार्थस्यानेकत्र वृत्तैः ।
(विमितायांअसामर्थ्यात्)
अंहीयसी पुरस्तादिति अस्य वैकल्पिकत्वं प्रागेवोक्तम् ॥
षष्ठ.खण्डुः
कपर्दिभाष्यम्.
नवारत्नि तिर्यक् सप्तविंशतिर् उदग् आयतम् इति सदसो विज्ञायते

7.2

अष्ठादशेत्येकेषां

7.3

तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धपञ्चमैः श्रोण्यंसान् निर्हरेत्

7.4

नवारत्निः प्राची तिर्यङ्भानी, सप्तविंशतिरुदीची पार्श्वमानी ।
एवं मन्तव्यमिति सदसःश्रुतिः ।
पदेन प्रक्रमेण वा मातव्यम् ।
करणमुक्तम् ।
प्रथमनिहताच्छङ्कोर्दक्षिणतः प्रक्रमे शङ्कुं निहत्य तस्मिन् पाशं प्रतिमुच्य तस्य पुरस्तादर्धाष्टमे पृष्ठयायां दक्षिमतः प्रक्मशङ्गुः ।
तत्सदसो मध्यमौदुम्बरीस्थानम् ।
प्रथमनिहताच्छङ्कोः पृष्टयायामेव पुरस्तादर्धाष्टमे शङ्कुं निहत्य तस्मिन् पाशं प्रतिमुच्योपर्युपरि शङ्कुमुदगपसार्यार्धचतुर्दशे नवसु वा शङ्कुं निहन्यात् ।
पृष्ठयायां यःशङ्कुः तस्मिन् प्रतिमुच्योपर्युपर्यौदुम्बरीस्थानीयं दक्षिणापसार्यार्धपञ्चदशे दशसु वा शङ्कुं निहन्यात् ।
सदस आयामः ।
तःसिन्नायामे तदर्धमभ्यस्य यथासूत्रं विरहेत् ।
सप्तविंशतावर्धचतुर्दशमभ्यस्य दक्षिणस्मादंसादेकादशसु पदेषु निहञ्जनमर्धपञ्चमे लक्षणं श्रोण्यं सादर्धमष्टादशसु वा नव प्रक्षिप्यार्धाष्टमे निरञ्जनमर्धपञ्चमलक्षणं श्रोण्यंसार्धमायामयोरन्तौ नियम्य निरञ्जनम् ।
तेन पश्चादपसार्यार्धपञ्चमे शङ्कुः ।
पुरस्तादपसार्यार्धपञ्चमे शङ्कुः ।
ते श्रोणी ।
सदसः विपर्यस्यांसौ ।
प्राग्वंशमानं हविर्थानम् ।
आग्नीध्रमानं चानेनाचार्येण नोक्तम्. अतःशुल्बान्तरोक्तं ग्राह्यं वैकृतत्वात् ।
सदसः पुरस्तात्तिषु प्रक्रमेषु दशप्रक्रमविस्तारं द्वादशायामं हविर्धानं मिनुयात् ।
एकरज्ज्वा पञ्चशङ्कुना त्रिशङ्कुना वा हविर्धानस्य पाश्वात्यमध्यमशङ्कौ पाशं प्रतिमुच्योदगपसार्य द्वादशप्रकमे शङ्कुः ।
तदाग्रीध्रायतनम् ।
तया रज्ज्वा दक्षिणापसार्य द्वादशसु मार्जालीयम् ।
पृष्ठयायां सदसः पौरस्त्यशङ्कौ पाशं प्रतिमुच्योदगपसार्य पादोनैकादशसु शङ्कुं निहत्य तस्माच्चोत्तरतः षट्सु शङ्कुः ।
ताभ्यां च पुरस्तात् षट्सु प्रकमेषु शङ्कुं निहन्यात् ।
एवं पञ्चशङ्कुना वा समचतुरश्रं मिनुयात् ।
अष्टप्रकमविस्तारं द्वादशायामं प्राग्वंशं मिनुयात् ।
द्वादशविस्तारं षोडशायाममित्यन्ये ।
करनिन्दीया याख्या.
(नवार एकेषां)
तिर्यङ्नाना नवारत्निः प्राग्भवति उदक्सप्तविंशतिरायतं ।
अष्टादशायतमित्येकेषां शाखिनाम् ।
(तदेक निर्हरेत्)
पदविमितायां वेद्यां सदोहविर्धानयोरपि पदेनैव मानमित्युक्तं, प्रक्रममाने त्वरत्निविमानमेव, हविर्धानस्यापरिमितं वति कर्मोपदेश उक्तः, अपरिमितं सप्तविंशतेः परं सदोविमानमुच्यते, महावेदेः पश्चात्तिरश्वयाः पृष्ठयाया दक्षिणतो दशपदेष्वारभ्य यावत्पुरस्तात् तिरश्वयाः तावतीं लेशामालिखेत्, रज्जुं वा पातयेत्, एवं पृष्टयाया उत्तरतो ऽपि अष्टासु पदेषु पश्चिमान्तादारभ्य तयोरेव लेखयोः पूर्वपश्चिमेषु दक्षिणत आरभ्य यावदुत्तरं उदीचीं लेशामालिखेत्, सा सदसः पृष्ठया भवति ।
अष्टादशिकायां नवोपसमस्यार्धपञ्चमेष्वर्धाष्टमेषु लक्षणं कृत्वा पृष्ठ्यान्तयोरित्यादिना विहृत्यार्धपञ्चमेषु शङ्कुं न्निहन्यात्तत्सदो भवति ॥
हविर्धानाग्नीध्रप्राग्वंशप्रमाणानीहाचार्येणानुपदिष्टान्यपि शुल्बान्तरोपदिष्टानि ग्राह्याणि ।
हविर्धानं दशायामं, दशवि स्तारमाग्नीध्र, षडायामविस्तारमर्धमन्तर्वेद्यर्धं बहिर्वेदिर्भवति ।
प्राग्वंशःषोडशायामो द्वादशविस्तारः ।
द्वादशायामो नवविस्तारो वा ।
प्रथमनिहतात् शङ्कोः पुरस्तात्पञ्चदशसु शभ्कुः, तत्पुरस्तात् नवायामविस्तारं हविर्धानं दशपदं वा तद्द्विशङ्कुप्रभुतीनामन्यतमे न कुर्यात् ॥
सुन्दहहाजीया व्याख्या.
(नवार एकेषां)
उदगायतमित्येव ।
नवारत्निरेव प्राची ।
तत्र विंशतिचतुविंशत्यङ्गुलप्रक्रमेण अष्टाशारत्निः ।
उत्तरेषु क्रतुषु सप्तविंशत्य रात्निः ।
देशस्तु प्रयोगकल्प एवोक्तः, "अपरस्माद्वे द्यंसात्ऽ इत्यादिना ।
(तदेक निर्हरेत्)
उदीची--पृष्ठ्या ।
कपर्दिक्षाष्याम्.
प्रादेशमुखाः प्रादेशान्तराला भवन्तीत्य् उपरवाणां विज्ञायते । अरत्निमात्रं चतुरश्रं विहृत्य स्रक्तिषु शङ्कून् निहत्यार्धप्रादेशेन तं तं परिलिखेच् छ्रुतिसामर्थ्यात्

7.5

उपरवमानमपि निगदव्याख्यातम् ।
अरत्नीति गतार्थम् ।
करविन्दीया व्याख्या.
(प्रदेश विज्ञायते)
अभिषवकाले ग्रावभिरेषामुपरि र(य)वन्त इत्युपरवाः ।
उपराः--ग्रावविशेषाः, तेन तद्वन्त इति वा उपरवा अवटविशेषाः ।
(अरत्नि मर्थ्यात्)
दक्षिणस्य हविर्धानस्य दक्षिमस्यां श्रोण्यां द्विशङ्क्वादीनामन्यतमेनारत्निप्रमाणं चतुरश्रं विहृत्य कोणेषु शङ्कून् निहत्यार्धप्रादेशेन कर्कटेन रज्ज्वा वा तान् शङ्कून् परितो लिखेत् ।
एवं प्रादेशमुखा अन्योन्यतः प्रादेशान्तराला भवन्ति ।
एषा श्रुतिरेवमर्थवती भवति ।
पदमानेन वेदिः ॥
अथ देवयजनदेशविमानभागा उच्यन्ते--पदमाने एक पञ्चाशत् प्राचीं त्रिंशत्तिरश्वीं देवयजमानयोग्यां भूमिं कृत्वा तन्मध्ये तदायामां देवयजनयोग्यां भूमिं कृत्वा न्तमध्ये तदायामां प्राचीं लेखामालिख्य रज्जुं प्रसार्य तदन्तयोः शङ्कुं निखाय प्राग्वंशप्रभृति तदनुरूपं तत्क्रतुकाले कुर्यात्, पश्चादन्ते प्राग्वंशं षोडशायामं द्वादशविस्तारं द्वादशायामं नवविस्तारं वा निर्माय तस्य लालाटिकात्र्रीन् प्राच इत्यादि तत्त्रैव तच्छङ्कोरारभ्य त्रिपदा वहिर्वेदिस्तदन्ते शङ्कुः, ततस्तत्पुरस्तात् षट्त्रिंशन्महावेदिः प्राची, त्रिंशत्पश्चात् तिरश्वी, चतुर्विंशतिः पुरस्तात् तिरश्वी, एवं महावेदिं विमाय पश्चिमान्ते त्रिपदःसञ्चरः, तत्पुरस्तात्प्राक्त्वेन नवपदमुदक्त्वेनाष्टादशपदं सदः, दक्षिणोत्तरमष्टादशायामं तन्मध्ये पृष्ठ्याया दक्षिणतः पदमात्रे भवति ।
तदोदुंबरीस्थानं, सदसः पूर्वार्धे पुरस्तादर्धं पदमात्रं संचरमवशिष्य तत्पश्चात्पृष्ठ्यायां होत्रीयमित्यादयो धिष्ण्या अरत्निमात्राः पिशीलमात्रा वा ।
तेषां च तस्य तस्योत्तरतः विसांस्थित संचरः सदसः पुरस्तात् त्रिपदःसंचरः ।
तत्पुरस्तात् नवायामविस्तारं हविर्धानं, त्र्यरत्निविस्तारं नवायाममिति मध्यमं मध्यमे छतिषि तूष्णीमितरे छदिषी इति दर्शनात् ।
"दशायामविस्तारं हविर्धानम्ऽ इति बोधायनः ।
यूपावटीयाच्छङ्कोः पश्चात्पदमात्रःसंचरः ।
तत्पश्चाद्युगमात्रोत्तरवोदिः ।
उत्तरवेदिहविर्धानयोरन्तरालमन्तर्वेदिः ।
पृष्ठ्याया दक्षिणतो दक्षिणहविर्धानं, उत्तरत उत्तरं हविर्धानं, दक्षिणहविर्धानस्य दक्षिणश्रोण्यामुपरवाः, हविर्धानस्य पश्चाद् आग्नीध्रस्य (दाग्नीध्रीयश्व) बाहुसमं पृष्ठ्याया दक्षिणतो द्वादशसु पार्जा लीयः ।
तथैव तस्या एवोदक् द्वादशस्वाग्नीध्रीयः, सर्वधिष्णियाः पिशीलमात्राः सदसोंऽसादुत् तरतः पादोनत्रिपदे पदोननवपदे चशङ्कूः ।
आग्नीध्रमण्टपस्य ते श्रोणी ।
हविर्धानपश्चिमान्तादारभ्य प्राक्र्रिपदेषु पृष्ट्याया उत्तरतः ।
पादोनैकादशसु पादोनसप्तदशसु शङ्कू, तावाग्नीध्रपण्टपस्यांसौ ।
षड्विंशिकायाः पश्चात् पृष्ठ्यायाः पूर्वान्ते अर्धमन्तर्वेद्यर्धं बहिर्वेदिः ।
त्रिपदविष्कम्भस्त्रिपदपरीणाहो यूपावट इति बोधायनः ।
उत्तरस्माद्वेद्यंसादुदक्प्रक्रमे चात्वाल उत्तरवेदिसंमितः, चात्वालमध्यो वेद्यंसतुल्यः ।
अर्धान्ते चात्वालात् पश्चाद्दादशसु तद्बहिर्वेद्युत्करः, वेद्यङ्कोत्करयोर्मध्ये उत्तरतः षोडशसु शामित्रधिष्ण्यः ।
एतत्पदमाने ।
प्रक्रममाने तु सदोहविर्धानयोररत्निमानमग्नेरुत्तरवेदेर्वा पश्चात्र्रीन् प्रतीचः प्रक्रमानतीत्य तिर्यगहविर्धानं नवारत्नीत्यादि यावत् ।
संभवा यामीवस्तारं सदः ।
धिष्ण्याः पिशीलमात्राः प्रक्रमेणैव सर्वमानं षट्त्रिंशदङ्गुलपरिमिता उत्तरवेदिस्तु दशपदा युगमात्री वा तत्स्थाने ऽग्निर्वा ।
अन्यत्सर्वं प्रक्रमकृतं ।
यूपैकादशिनीपेक्ष दशरथाक्षामेकादशो (परां)परवां रज्जुं मीत्वा तस्याश्चतुर्विंशेन भागेन वेदिंविमिमीते ।
प्रक्रमस्थानीया भवतीत्युक्त (क्तं प्राच्येकादशिन्यां) मेकादशिन्यां ।
प्राच्येकादशिनीपक्षे अर्धषष्ठानि पदान्यंसौ यूपार्धं बेदेः पुरस्तात् पदार्थमात्रमंसमपच्छिद्य तत्पुरस्तात् प्राञ्चं निदध्यादिति बोधायनः ।
एकादशैकादीशनीपक्षे अर्धषष्ठानि पदान्यंसावपच्छिद्य तान्येकादशधा विभज्य पृष्ठ्यान्ता पृष्ठ्यादा दारभ्य एकं विभागं मध्ये प्राञ्चन्निदध्यात् ।
तद्दक्षिणतः उत्तरतश् च पञ्चपञ्च विभागान् प्राञ्चो निदध्यात् ।
अग्निविवृद्धौ महावेदि विवृद्धिः, प्राग्वंशःप्राची चान्तरालबहुत्वे विवर्धते ।
अलमति विस्तरेण ॥
सुन्दरराजीया.
(प्रादेश सामर्थ्यात्)
देशस्तु दर्शित एव "दक्षिणस्य हविर्धानस्यऽ इत्या दिना ।
सर्वत्रापि प्रक्रमैर्माने अपरस्माद्वेद्यान्तात् प्रक्रमत्रयमवशिष्य नवारात्नि सदः ।
उत्तरवेदेः पश्चात्प्रक्रमत्रयमवशिष्य नवारात्नि हविर्धानम् ।
पदमाने तूक्तप्रमाणानां सदोहविर्धानोत्तरवेदीनामसंभवाद्वेद्यनुगुणो निर्द्वासः कर्तव्यः ।
चात्वालस्तु शम्यामात्र एव सर्वत्रापि ।
"शम्यामात्रश्वात्वालःऽ इति बोधायनवचनात् ।
अत्र श्लोकाः----
मीयते सौमिकी वेदिः प्रक्रमैर्द्विदशाङ्गुलैः ।
आदौ त्रिषु नव द्व्येकचन्द्रद्विशरभूद्विषु ॥ .1 ॥
एकैकद्विशरैकेषु शङ्कवो दश पञ्च च ।
षट्त्रिंशिका मानरज्जुः तस्या द्व्याष्टसु लक्षणम् ॥ .2 ॥
विमाने पाशयोर्मध्ये प्रक्रमा द्वादश स्मृताः ।
श्रोणी पञ्चमोनेषु सदो ऽनन्तरतुर्ययोः ॥ .3 ॥
तत्कोणः पञ्चमोनेषु भास्करेषु दशस्वपि ।
तृतीये द्व्यन्तरा धिष्ण्यास्तेषां प्रादेशतो भ्रमः ॥ .4 ॥
रुद्रेषु सप्तदशसु शङ्कू पादोनितेष्विह ।
आग्नीध्रं तत्पञ्चमे तु धिष्ण्यौ द्वादशसु स्मृतौ ॥ .5 ॥
षष्ठे स्यात्पञ्चके धानं पञ्चाशद्द्वितयान्विते ।
सप्तमे प्राग्वदाग्नीध्रं नवमे मनुषूत्करः ॥ .6 ॥
एकादशे हविर्धानं पाशौ व्यात्यस्य पूर्ववत् ।
षोडशस्वर्धहीनेषु शामित्रो द्वादशे भवेत् ॥ .7 ॥
उत्तरार्धात्तृतीये तु त्रयोदशचतुर्दशे ।
शङ्कोरुत्तरवेदिःस्याद्द्वयोःसार्धमुपान्त्ययोः ॥ .8 ॥
अन्तिमे द्वादशस्वंसौ चात्वाललो ऽसादुदक्क्रमे ।
पुरः पश्चात्सदोधानाच्यजेत्प्रक्रम पञ्चकम् ॥ .9 ॥
दक्षिणे तु हविर्धाने पश्चाच्त्रीन् प्रक्रमांस्त्यजेत् ।
पार्श्वद्वयो प्रक्रमौ द्वौ अङ्गुलद्वयसंयुतौ ॥ .10 ॥
अरत्निमात्रं मध्ये चोपरवाणां तु लक्षणम् ।
एवमेव विमांन स्यात्पदैरपि चतुर्विधैः ॥ .11 ॥
पदं पञ्चमसंयुक्तं धिष्ण्यविष्कम्भ इष्यते ।
शम्यामात्रस्तु चात्वालो व्याक्तं बोधायनो ऽब्रवीत् ।
अन्यथाग्नौ विरोधःस्यात् मानं चान्यन्न विद्यते ॥ .11 ॥
कपर्दिक्षाष्यम्.
व्यायाममात्री भवतीति गार्हपत्यचितेर् विज्ञायते

7.6

चतुरश्रेत्य् एकेषाम्, परिमण्डलेत्येकेषाम्

7.7

चतुररात्निर्व्यायामः ।
तत्प्रमाणं गार्हपत्यचितेः ।
चतुरश्रा गार्हपत्यचितिरित्येकेषां शाखिनां मतम् ।
परिमण्डला गार्हप्त्यचितिरित्येकेषां श्रुतिः ॥
करणं व्यायामस्य तृतीयायामं सप्तमव्यासं कारयेत्

7.8

चतुरश्रायां करणमुच्यते ।
व्यायामतृतीया पार्श्वमानी व्यायामसप्तमी तिर्यङ्नानी ।
एवं करणं कारयेत् ।
कुर्यादिति वक्तव्ये कारयेदिति वचनादन्यैस्तक्षादिभिः प्रवीणैर्नाध्वर्युणेत्यवगम्यते ।
कियन्ते ऽनेनेष्टका इति करणं दारुमयम् ।
ता एकविंशतिर् भवन्ति

7.9

तेन करणेन कृता इष्टकाः एकविंशतिः तस्यां गार्हपत्यचितौ भवन्तीति शेषः ।
करविन्दीया व्याख्या.
(व्यायाम विज्ञायते)
व्यायामश्चतुररात्निः ॥
(चतुरश्रे एकेषां)
एकेषां शाखिनामुभयमपि भवति ।
(करणंअर्भवन्ति)
क्रियन्ते ऽनेनेष्टका इति करणम्, तच्च दारुमयं लोहमयं वा ।
द्वात्रिंशदङ्गुल आयामः, त्रयोदशाङ्गुलयश्चतुर्विंशतितिलाश् च व्यासः ।
उत्सेधश् च जानोः पञ्चमभागः ।
एकविंशतिरिति शङ्ख्यासपत्तिं ब्रूते ।
पञ्चचितीकमित्यादिषु समुदायसंख्यावगत्यर्थं ॥
सुन्दरराजीया व्याख्या.
अथाग्निचित्यायां----
(व्यायाम बिज्ञायते)
चतुररात्निर्व्यायामः ।
(चतुर केषां)
तत्र चतुरश्रायाम्--
(करणंअर्भवन्ति)
तृतीये द्वात्रिंशदङ्गुलम् ।
सप्तमं दशतिलोनं चतुर्दशाङ्गुलम् ।
ता एकवि शतिर्भवन्त्येकैकस्मिन् प्रस्तारे ।
कपर्दिक्षाष्यम्
प्रागायामाः प्रथमे प्रस्तारे ऽपरस्मिन्न् उदगायामाः

7.10

प्रागायामाः--प्रागायताः प्रथमे प्रस्तारे ।
उदगायामाः--उदगायताः द्वितीये प्रस्तारे ।
एवसुपहिते भेदो न भवति ।
अनेन ज्ञायते सर्वत्र भेदो वर्जनीय इति ।
शब्देनैवोक्तं भगवता बोधायनेन ""सर्वत्र भेदो वर्जनीयःऽऽ इति ।
अधरोत्तरयोः पर्श्वसंस्थानं भेद इत्युपदिशन्तीति ।
अनेनाचार्येणोक्तमेतत् "व्यत्यासं चिनुयात्ऽ इति ।
करविन्दीया व्याख्या.
(प्रागायमाप्रथमे प्रस्तारे)
उपधीयमाने प्रागायामाः स्युः ।
(अपरस्मिन्नुदगायामाः)
अपरस्मिन् द्वितीये तु उदगायता भवेयुः भेदाभावाय ।
उक्तं च बोधायनेन "सर्वत्र भेदान्वर्जयेतऽ इति ।
सुन्दहहाजीया व्याख्या.
(प्रागाया गायामाः)
इष्टका उपधेयाः ।
कपर्दिभाष्यम्
मण्डलायां मृदो देहं कृत्वा मध्ये शङ्कुं निहत्यार्धव्यायामेन सह मण्डलं परिलिखेत्
यदि मण्डला गार्हपत्यचितिः मृदो भृत्तिकायाः "हऽ इति निपातः अत्रेत्येतस्मिन्नर्थे ।
उल्लेखनं कृत्वेति देहबिम्बं श्लक्ष्णीकृत्य तन्मध्ये शङ्कुं निहत्यार्धव्यायामेन मण्डलं परिलिखेत् ।
तद्व्यायाममात्रं णण्डलं भवति ।
केचिदत्र सहशब्दश्रवणादतीयेनेति वर्णयन्ति ।
क्षेत्रसमत्वाय तदनी प्सितमिहाचार्यस्य अर्धव्यायामेनेति वदतः ।
यदीप्सित मभविष्यत् मृदो देहं कृत्वा मण्डलं कुर्यादित्येवावक्ष्यत् ।
उक्तं त्वादेशादन्यदिति ।
तावतीं भूमिमिति वक्ष्याति च ।
कथं सहेत्युच्यते? यो मण्डलं चिकीर्षेत् स एवं कृत्वार्ऽधव्यायामेन परिलिखेत् ।
ह इति निपातः ।
एवमध्याहृत्य योजनीयम् ।
अथवा श्रुतिरेवेयमेवंभूता ।
तस्मिंश् चतुरश्रम् अवदध्याद् यावत् सम्भवेत् तन् नवधा व्यवलिख्य त्रैधम् एकैकं प्रधिकं विभजेत्

7.11

तस्मिन्निति मण्डलं परामृस्यते ।
तस्मिन्मण्डले चतुरश्रं यावच्छेते तावच्चतुरश्रं लिखेत् ।
समपरिणाहं चतुर्धा विभज्य अवान्तरदिक्षु लक्षणं कृत्वा तेषु स्रक्तयो यथा भवन्ति तथा चतुरश्रमालिखेत् ।
दिक्षु चत्वारि धनुःसमाः ।
तच्चतुरश्रं नवधा व्यवलिख्य एकस्य प्रमाणेन समचतुरश्रं करणं कारयेत् ।
त्रैधमेकैकं प्रधिकं विभजेन् ।
गमनाय प्रधीयत इति प्रधिकम् ।
तच्च पार्श्वधनुः ।
तत्प्रतिकृतित्वात् प्रधिकमित्युच्यते ।
एकैकं प्रधिकं त्रिधा कृत्वा करणानि कारयेत् ।
चतुर्भिस्तिलैरूनाःष्ट्यङ्गुलाश्चतुरश्रप्रमाणम् ।
णण्डलमध्ये तस्य तृतीयेनैकं करणं प्रधिकमध्यं द्वाविंशतित्रयोदशाभ्यां कारयेत् ।
त्रिंशदङ्गुलेन त्वेकं तक्षयेत् ॥
यथ्.आ धनुराकारं यथा ज्याफलकयोर्मध्ये तिलोनमङ्गुलं भवति तथोनं त्रिभिस्त्रयोदशाङ्गुलमेकं करणं अरत्निमात्रं तिलाभ्यामेकं सप्तविंशत्यङ्गुलमष्टभिस्तिलैरूनमेकं तक्षेत् ।
पूर्वमङ्गुलद्वयं अग्निफलकाभ्यां सह मध्ये यथा भवति तथा तृतीयेन करणेन विपर्यस्यान्यमेवमिष्टकाः कारयेत् ।
उपधाने चतुरश्रस्यावान्तरदेशान् प्रति स्रक्तीः सम्पादयेत्
उपधानकाले प्रथमे प्रस्तारे अवान्तरदेशान् कोणदेशान् प्रति चतुरश्रस्य स्रक्तीःसम्पादेयत् संयोजयेत् ।
चतुरश्रे नार्धेष्टकाःशरते ।
चतुरश्रे नवेष्टकाःशेरते ।
प्रधिकेषु द्वादश ।
नवसु द्वादशसु च एकविंशतिर्भवन्ति ।
मध्यानीतरस्मिन्प्रस्तारे
द्वितीये प्रस्तारे मध्यानि चतुरश्रे मध्यानि अवान्तरदेशं प्रतिसम्पादयेत् ।
व्यत्यासं चिनुयाद् यावतः प्रस्तारांश् चिकीर्षेत्

7.12

यावतः प्रस्तारान्कर्तुमिच्छेत् तावद्य्वत्यासं चिनुयात् ।
यः प्रथमःस तृतीयः ।
पञ्चमश् च यो द्वितीयःस चतुर्थः ।
पिशीलमात्रा भवन्तीति धिष्ण्यानां विज्ञायते

7.13

चतुरश्रा इत्येकेषां परिमण्डला इत्येकेषाम्

7.14

बाह्वोरन्तरालं पिशीलमिति केचित् ।
मुष्टिकृतो ऽरत्निः पिशीलमित्यन्यो ।
प्रादेशः पिशीलमित्यपरे ।
चतुरश्रा धिष्ण्या इत्येकेषां श्रुतिः ।
परिमण्डला इत्येकेषाम् ।
मृदो देहान् कृत्वाग्नीध्रीयं नवधा व्यवलिख्य, एकस्याः स्थाने ऽश्मानम् उपपध्यात्

7.15

यथासङ्ख्यम् इतरा व्यवलिख्य यथायोगम् उपदध्यात्

मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc