आपस्तम्बशुल्बसूत्र · अध्याय 6
कस्य द्विस्तावा? सौमिक्याः प्रकृतत्वात्प्रकृतित्वाच्च ।
इति पञ्चमःखण्डः.
करविन्दीया व्याख्या.
क्षेत्रतृतीयग्रहणं न प्रमाणमिति तृतीयग्रहणमिति कथं संख्यायात इत्यत आह--
दक्षिणस्मादंसा--संचक्षीत.
वेद्या दक्षिणस्मादंसादारभ्य द्वादशसु दक्षिणस्यां श्रोण्यां लेखा निपातयेद्रज्जुं वा तां निपात्य तब्दहिश्छिन्द्यात् ।
लेखाया बहिर्भूतं छेदं विपर्यस्य--विपर्यासं कृत्वा इतरतः--इतरस्मात् पार्श्वे स्थापयेदेवं सप्तविंशतिविस्तारा षट्त्रिंशदायता दीर्घचतुरश्रा वेदिर्भवति, तथा युक्तां तथा भूतां गणयेत् ।
एतेन विषमचतुरश्राणां संख्यानप्रकारो वेदितव्यः ।
वेदिप्रसङ्गाद्विकारा उच्यन्ते--
(सौमिक्या विज्ञायते.)
सुत्रामदैवत्या सौत्रामणी, तस्या वेदितृतीये यजेत इति श्रूयते ।
वेद्यास्तृतीयो देशः वेदितृतीयदेशः, स कस्याः, सौमिक्याः, किमोदनं शालीनां सक्त्वाढकपरिमितानामिति वत् ॥
(प्रक्रम--पृष्ठया.)
प्रक्रमतृतीयकरणी व्याख्याता प्रक्रमास्थानीया भवति ।
"स्थानान्ताद्विभाषाऽ इत्यादिना स्वार्थे छप्रत्ययः ।
तथा षट्त्रिंशतिकायामित्यादिना कौमिकवद्विमानं त्रिकरणी चोक्ता, अष्टिकादशिके तिर्यङ्भान्या द्वादशिका पृष्ठया तत्पक्षे अष्टप्रमाणा पुरस्तात तिर्यक्, दशप्रमाणा पश्चात्तिर्यक्, द्वादशायामः द्वादशिकायां षडुपसमस्य चतुसृषु पञ्चसु लक्षणं पञ्चसु श्रोण्या चतसृष्वंसौ ।
वेदितृतीयत्वं क्षेत्रत इत्याह- (त्रिणि चतुर्विंशानि पदशतानि सौत्रामणिकी वोदिः.)
चतुर्विंशत्यधिकानि त्रीणि शतानि सौत्रामणिकी वेदिः ।
दक्षिणस्मादंसादित्यादि सौमिकवत् ।
प्रक्रमस्य तृतीयकरणीति दर्शनात्, अत्रापि पदप्रक्रमौ विकल्पितौ ।
प्रकमशब्देनोपक्रम्य पदशब्देनोपसंहारादन्यत्राप्यष्टासु प्रक्रमेष्वित्यादिषु पदेनापि विमानं लभ्यत इति सूचितम् ।
द्धिस्तावा वेदिर्भवतीत्यश्वमेधे विज्ञायते.)
प्रकृतत्वात् प्रकृतित्वाच्च सौमिक्या एव द्विस्तावा--द्विगुणा वेदिरश्वमेधे भवति, पशुगणसंबन्धाद्यूपानां चोदकप्राप्तरथाक्षमात्रान्तरालता प्रत्यक्षविहितद्विस्ताववचनात् बाध्यते ।
अतो ऽत्रयथा संभवान्तराला एव एकविंशतियूपाः ।
त्रिस्तावान्नीत्वा त्रिपदक्रमः द्विस्तावा ।
यूपैकादशिनी पक्षे वेदिविवृद्धिर्भवतीत्येव ।
सुन्दरराजीया व्याख्या.
संख्यानोपायमाह----
(दक्षिणस्मादंअसंचक्षीत.)
दक्षिणस्मादंसादारभ्यापरान्ते पृष्ठचाया दक्षिणतो द्वादशसु रज्जुं निपातयेत् ।
तद्दक्षिणतश्छेदं दीर्घं त्रिकोणं मनसा विपर्यस्य उत्तरपार्श्व उपदधयात्, सा षट्त्रिंशित्प्राचिका सप्तविंशतिव्यासा दीर्घचतुरश्रा भवति, तथाभूतां गणयेत् ।
सप्तविंशतिषट्त्रिंशतोःसंवर्गे कृते नव शतानि द्विसप्ततिश् च भवन्ति ।
(सौमिक्या भवति.)
प्रक्रमाग्रहणं पदस्याप्युपलक्षणम्, एवं पदशतानीति पद ग्रहणं प्रक्रमस्योपलक्षणमिति शेषः ॥
(त्रिकरण्या वा पृष्ठया.)
दशाङ्गुलपदस्य त्रिकरणी सप्तदशाङ्गुलयः एकादश तिलाश् च अं? 7 ति 11 द्वादशा ङ्गुलस्य विंशत्यङ्गुलयः सप्तविंशतितिराश् च अं 20 ति 27 पञ्चदशाङ्गुलस्य तिलोनषड्विंशतिरङ्गुलयः ।
एवं प्रक्रमाणामपि द्रष्टव्यम् ॥
(त्रीणि सौत्रामणिकीवेदिः.)
काठकाग्नीनामप्येषा ।
द्विस्तावा वेदिर्भवतत्यिश्वमेधे विज्ञायते
इति पञ्चमःखण्डः
कपर्दिभाष्यम्.
प्रक्रमस्य द्विकरणी प्रकमस्थानीया भवति
द्विकरण्या प्रमाणतृतीयेन वर्धयेदित्यादिना वर्धितेन तदेव विहरणम् ।
प्रक्रमो द्विपदस्त्रिपदो वा । प्रक्रमे याथाकामी शब्दार्थस्य विशयित्वात्
द्विपदस्त्रिंशदङ्गुलः ।
त्रिपदः पञ्चचत्वारिंशदङ्गुलः ।
पदं पञ्चदशाङ्गुलमिति वचनाद् ।
काम इच्छा ।
यथाकाम एव याथाकामी यथेच्छा तथा गृह्णीयात् ।
प्रक्रमे ऽध्यर्धप्रक्रमो विप्रकृष्टप्रक्रम इति नैवमन्वर्थसंज्ञा ।
पदाधिकस्य मानार्थस्य वाचको यथा यौगिकः तथा द्विपदं त्रिपदं वा वक्ति, क्रामत्यनेनेति क्रमः ।
प्रकृष्टः क्रमः इति निरूढः, कल्पनार्थद्रव्ये वचनात्पदाधिकं प्रक्रम इति शब्दार्थस्य विशयित्वात् विशयित्वं कल्पितार्थानामपि वाचकत्वादनेकवाचकत्वं ।
शब्दार्थानां विशयित्वं यतः, कस्य पदादयो ग्रहीतव्याः इत्याह--
यजमानस्याध्वर्योर्वा । एष हि चेष्टानां कर्ता भवति
यजमानस्य पदं ग्राह्यं स्वामित्वात् ।
अध्वर्योर्वा--वाशब्दः पक्षव्यावृत्तौ ।
न यजमानस्य ।
अध्वर्युरेव कुतः? एष हि चेष्टानां कर्ता भवति ।
चेष्टयन्त इति चेष्टाः कर्माणि ।
स कर्मणां कर्ता यतः हिशब्दो हेतौ ।
तस्मादध्वर्योरेव न यजमानस्य ।
करविन्दीया व्याख्या.
(प्रक्रमस्य भवति)
द्विस्तावायां वेद्यां अश्वमेधे प्रक्रप्रस्य द्विकरिणी प्रक्रमस्थाने भवति प्रमाणद्विकरण्या विहरेत् ।
(प्रक्रमो विशयित्वात्).
पदं पञ्चदशाङ्गुलम्. द्विपदं त्रिंशदङ्गुलम्. त्रिपदं पञ्च चत्वारिंशदङ्गुलम्, द्विपदे त्रिपदे च प्रक्रमव्यवहारादुभयमिह ग्राह्यम् ।
अथवा प्रक्रमः पदविक्षेपवाची, पदादयो ऽत्र मान साधनभूता गृह्यन्ते ।
अतो न विक्षेपमात्रेण प्रयोजनम् ।
किनतु तत्मंबन्धिना केनचिद्द्रव्योण, अतो विक्षेपफलभूतसंयोगविभागाभ्यामुपलक्षितदेशान्तरालपरिमितरज्ज्वादिना प्रयोजनम्, गच्छन् हि सर्वो जनः एकं पदं विक्षिप्य निदधाति, तत्र निर्विकारं संगच्छन समः पुरुषः, स्थितनिधीयमानयोः पदयोरन्तरालं यथा पदपरिमितं भवति तथा गच्छति, अतो विक्षिप्तेन पदेन पदद्वयं व्याब्तमिति द्विपदः प्रक्रमः, स्थितमपि पदं तत्सहकारीति ताभ्यां पदत्रयव्याप्तेस्त्रिपदश् च भवति ।
प्रक्रमे याथाकामीकाम इच्छा, तदनतिक्रमो यथाकामम्, तस्य भावः यथाकाम्यम्, याताकाम्यमेव याथाकामी--यथेष्टमित्यर्थः, विविधं शेत इति विशय, उभयत्र प्रयोगो दृश्यत इत्यर्थः ।
ननु प्रक्रमेषु वैषम्यमपि दृश्यते, यथा चतुरो विष्णुक्रमाम् प्राचः क्रामत्युत्तरमुत्तरं ज्यायांसमिति ।
नायं दोष, तस्य वचनस्योत्त रोत्तरं ज्यायस्त्वविधिपरत्वात्, प्रक्रमे गृह्यमाणे द्विपदमेव त्रिपदमेव वा गृह्णीयात्, न मिश्रयेदित्यर्थः, चतुरो विष्णुकमानित्यत्र वाचनिकत्वात् क्रमवैषम्यस्य न क्रमवैषम्यानुयोगः ।
अतो विशेषितप्रकमविधौ द्वित्रिपदप्रकमयोरेवान्यतरं कृह्णीयान्न मिश्रयेदित्यर्थः ।
पदादिसूत्रे वक्ष्यमाणः पदविकल्पनिबन्धनः प्रक्रमयोरपि विकल्पो भवतीत्येव ।
(यजमानस्य भवति).
चजमानाध्वर्यू प्रसिद्धौ, हि शब्दो हेतौ, चेष्टन्त इति चेष्टाः, कर्माणि ।
अयमर्थः पदादयो यजमानस्य ग्राह्याः स्वामित्वात्, कुतः, याथाकामिर्वात्, तस्य अध्वर्योर्वा ।
वाशब्दो विकल्पार्थः ।
यस्मादेषो ऽध्वर्युश्वेष्टानां कर्ता भवति तस्मादस्य पदादयो ग्राह्याः चेष्टाकर्तृत्वात्, यजमानस्य प्राप्तयर्थं वचनमध्वर्योस्तु बाधकवाधनार्थमतो विकल्पः ।
सुन्दरराजीया व्याख्या.
(प्रक्रमस्य विशयित्वात्).
शब्दार्थस्य--शब्दप्रवृत्तिनिमित्तस्य विशयित्वं--अनेकवृत्तित्वम् ।
इदं प्रकमे याथाकाम्यं शब्दार्थस्य विशयित्वादुक्तमित्यर्थः ।
"द्विपदः प्रकमःऽ इति बोधायनः ।
"त्रिपदः प्रक्रमःऽ इति कात्यायनः ।
उभयमप्याचार्यस्यानुमतमिति विज्ञायते ।
(यजमानस्यध्वार्योर्वा).
पदेनाङ्गुलिभिर्वा प्रकमो ग्राह्यः स्वामित्वात् ।
कारणमाह--
(एष हि भवति)
कपर्दिक्षाष्यम्.
रथमात्री निरूढपशुबन्धस्य वेदिर् भवतीति विज्ञायते
रथप्रमाणा निपरूढपशुबन्धस्य वेदिर्भवतीति श्रुतिः ।
तस्य खल्वाहू रथाक्षमात्री पश्चात् तिर्यग् ईषया प्राची । विपथयुगेन पुरस्तात्
खलुशब्दो ऽलङ्कारे ।
तत्र तस्मिन्नर्थे रथप्रमाणविदो रथकारा आहुः ।
रथाक्षमात्री पश्चात् तिर्यगीषया प्राची, विपथयुगेन पुरस्तात्, रथाक्षणात्री पश्चात्तिर्यङ्नानी ।
रथग्रहणं शकटनिवृच्यर्थम् ।
ईषामात्री पृष्ठया ।
विपथयुगेन--व्याप्तः पन्था येन युगेन तद्विपथयुगम् ।
अब्यन्तरं युगछिद्रयोरन्तरालम् ।
तत्प्रमाणं पुरस्तात्तिर्यङ्भानी ।
यावता वा बाह्ये छिद्रे
यावता प्रमाणेन युगस्य बाह्ये छिद्रे भवतः तावद्वा पुरस्तात्तिर्यङ्भानी वेदेः ।
करविन्दीया व्याख्या.
(रथमात्री बाह्ये छिदे)
रथमात्री--रथप्रमाणा निरूढपशुबन्धस्य वेदिरिति श्रुतिः ।
श्रुत्युक्तमभियुक्तोक्तया दर्शयति ।
खलुशब्दो वाक्यालङ्कारार्थः ।
तत्राहुरभियुक्ताः--रथाक्षमात्री रथप्रमाणा पश्चात्तिर्यक्तिरश्वी ईषया संमिता प्राची ।
व्याप्तः पन्था येन स विपथः चारणरथ इत्यर्थः ।
विपथस्य युगो विपथयुगः ।
तेन संमिता पुरस्तात्तिरश्वी ।
अथवा यावता वा बाह्ये छिद्रे यावता प्रमाणेन गृहीते बाह्ये च्छिद्रे भवतः तावती वा पुरस्तात्तिर्यक् ।
सुन्दरराजीया व्याख्या.
(रथमात्री बाह्ये छिद्रे.)
इत्याहुराचार्याः--पश्चात्तिर्यङ्भानी रथाक्षमात्री, ईषामात्री प्राची, विपथयुगमात्री पुरस्तात्तिर्यङ्नानी ।
विगतः पन्था यस्माद्युगात् तद्विपथयुगम् ।
बाह्यच्छिद्रसहितं षडशीत्यङ्गुलं युगम् ।
यावता वा बाह्ये च्छिद्रे बाह्यच्छिद्रयोरन्तरालमशी त्यङ्गुलम् ।
कपर्दिभाष्यम्
तदेकरज्ज्वोक्तम् । पञ्चदशिकेनैवापायम्यार्धाक्षेणार्धयुगेन श्रोण्यंसान् निर्हरेत्
तदेकरज्जुरिति किं सौमिकी गृह्यते आहोस्वित्प्रथमसौमिकी गृह्यते? पञ्चदशिकेनेति दर्शनात्, तत्र हि पञ्चदशिके लक्षणम्, नेतरत्र ।
ईषामात्री ईषां षट्त्रिंशद्धा विभज्य एकं भागं प्रक्रमस्तानीयं कृत्वा सौमिकवत्पञ्चदशिकेनामायम्य अर्धाक्षेण श्रोण श्रोणीं मिनुयात् ।
अर्धयुगेनासौ मिनुयादिति केचित् ।
अपरे पुनः प्रथमामेकरज्जुं गृह्णन्ति ।
यदि सौमिकी गृह्यते अदृष्टकल्पना प्राप्तोति कथं पञ्चदशिकेनेति चेत्, लक्षणया षट्त्रिंशिकायामं यत्पञ्चदशकं तदपि षड्भागोनमेव ।
तस्मात्पञ्चदशिकेनेति षड्भागोनां लक्षयितुं न शक्यते ।
तेनादृष्टकल्पनाभवति ।
नन्वन्यत्रापि लक्षणा? सा तु लौकिकी, किं च साधारणत्वाच्च सैवैका रज्जुःसाधारणी ।
तस्माच्च सैव ग्राह्या ।
एवमुत्तरत्रापि योजनीयम् ।
अर्धक्षे अर्धयुगे च लक्षणं कृत्वा षड्भागोनेनापायम्य अर्धाक्षे श्रोणी ।
अर्धयुगे त्वंसौ ।
करविन्दीया व्याख्या.
(तदेकरज्ज्वा विहरेत्)
एताद्विहरणमेकरज्जुविहरणेन व्याख्यातम् ।
एकरज्जुरिति द्वित्रिपञ्चशङ्करज्ज्वादीनां ग्रहणं, इतरथा उत्तरयोर्विधानस्यादृष्टार्थत्वकल्पनाप्रसङ्गदिति सौमिक्यां व्याख्यातम् ।
तथा पञ्चदशिकेनेति षड्भागोने कृतलक्षमस्य ग्रहणम् ।
तच्च निरञ्चनमात्रप्रदर्शनम् ।
इतरथा अदृष्टार्थत्वप्रसङ्गादिति तत्र्रेवोक्तम्, तत्रानेकरज्जुभिरिहापि विहरणसुक्तम्, तदिहाप्यविरोधात् गृह्यत एव ।
ईषामात्रा षट्त्रिंशद्भागं प्रक्रमं कृत्वा तेनैव विहरेत् ।
सुन्दरराजीया व्याख्या.
(तदेकरज्ज्वा विहरेत्)
"षट्त्रिंशिकायामष्टादशोपसमस्यऽ इत्यादिना एकरज्ज्वा तन्मानमुक्तम् ।
ईषायाःषट्त्रिंशो भागः पञ्चाङ्गुलमर्धाष्टमतिलाश् च प्रक्रमस्थाने द्रष्टव्यम् ।
यद्वा एकरज्जुशब्देन यावदायाममिति विहरणमभिप्रेतम् ।
अत्र पक्षे पञ्चदशिकेनेति लक्षणया षड्भागोनतृतीयमेवोच्यते ।
सोमे तत्पञ्चदशप्रक्रममभूदिति ।
एवमुत्तरत्रापि बाह्यच्छिद्रान्तरालपक्षे तदर्धेनांसनिर्हरणम् ।
कपर्दिभाष्यम्
अथाप्युदाहरन्ति
अथशब्दःसमुच्चये ।
एवं चोदाहरन्ति रथप्रमाणपिदो रथकाराः--
अष्टाशीतिशतमीषा तिर्यग् अक्षश्चतुःशतम् । षडशीतियुगं चास्य रथश्चारण उच्यते इति रथपरिमाणम्
एवं रथपरिमाणं सर्वतो मानमुदाहरन्ति--ब्रुवते ।
सामर्थ्यसिद्धेश्वाङ्गुलिर्गृह्यते ।
रथेषाप्रमाणं अष्टाशीत्युत्तरमङ्गुलशतम् ।
तिर्यक्छब्दः पूरणार्थः ।
अक्षप्रमाणं चतुरधिकं शतम् ।
युगस्य प्रमाणं षडसीतिः ।
एवंलक्षणो यो रथःस चारणः, चरत्यनेनेति चारणः ।
चरण एव चारणः ।
चारणग्रहणं क्रीडादिरथनिवृच्यर्थम् ।
अथवा अस्यशब्दस्य स्थाने यस्यशब्दमध्याहृत्य योजनीयम् ।
वर्णव्यत्यासेन वा ।
अरत्निभिर् वा चतुर्भिः पश्चात् षड्भिः प्राची त्रिभिः पुरस्तात् । तद् एकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्य द्वाभ्याम् अध्यर्धेनेति श्रोण्यंसान् निर्हरेत्
अरत्निभिर्वा मातव्यमिति शेषः ।
चतुर्भिः पश्चात्तिर्यङ्भानी ।
षड्भिः प्राची पृष्ठया ।
त्रिभिः पुरस्तात्तिर्यङ्भानी ।
तदेकरज्ज्वोक्तमित्यादि--गतमेतत् ।
यजमानमात्री चतुःस्रक्तिर् भवतीति पैतृक्या वेदेर् विज्ञायते, तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान् निर्हरेत्
पैतृक्या वेदेः श्रुतिः--यथा दिक्षु स्रक्तयो भवन्ति तथा मातव्या ।
तदेकरज्ज्वेति गतार्थम् ।
करविन्दीया व्याख्या.
वेदार्थावगमस्य बहुविद्यान्तराश्रयत्वात् ।
तक्षशास्त्रे गार्ग्या गस्त्यादिभिरङ्गुलिसंख्ययोक्तं रथपरिमाण श्लोकमुदा हरति--
(अथाप्यु प्रमाणम्)
अथापिशब्दौ समुच्चये, उदाहरन्ति मुनयः, अष्टशीतिश् च शतं चाष्टाशीतिशतं, चत्वारि च शतं च चतुःशतम्, षट्चाशीतिश् च षडशीति, आयोधनपुष्यजैत्रचारणादिभेदेन रथस्यानेकविधतामुपन्यस्त तैरुक्तं अष्टाशीतिशतमित्यादि, अस्यार्थः--अस्य बहुविधस्य मध्ये यस्य ईषा अष्टाशीतिशतमङ्गुलयः, चतुरधिकं शतमक्षः, युगं च षडशीतिः, एवंविधो रथश्वारण उच्यत इति ।
एवं रथपरिमाणमुदाहरन्ति मुनयः ।
ननु अक्षस्य तिर्यङ्भानीत्वमुक्तम्, युगेषयोः का प्राची का तिरश्वीति न ज्ञायते ।
उच्यते--अक्षस्य तिर्यक्त्वविधानादेवयुगेषयोरपि या द्राघीयसी सा प्राची, या ह्रसीयसी सा तिरश्वीति सामर्थ्यादीषा प्राचीति गम्यत इति मन्यन्ते ।
छिद्रान्तरालपक्षे षोडशाङ्गुलहीना पुरस्तात्तिरश्वी ।
(अरत्निभिर्वापुरस्तात्) गतम् ।
(तदेकरज्ज्वा निर्हरेत्)
इदमपि गतम् ।
अत्रारत्नावारत्निद्वये च लक्षणम् ।
(यजमानमात्री निर्हरेत्)
पितृणामियं वेदिः--पैतृकी महापितृयज्ञवेदिः ।
चोदकप्राप्ते ऽपि यजमानमात्रे पुनर्वचनं विस्तारस्यापि तथात्वा(य)त् ।
(आयामः) प्रतिदिशं स्रक्तयः महादिक्षुकोणाः "सर्वा ह्यनुदिशःऽ इति दर्शनात्, अत्र प्रयोगः--अग्रेणान्वाहार्यपचनं किञ्चिदन्तःसञ्चरमवशिषय तस्य पुरस्ताद्यजमानमात्रं द्विकरम्या चतुरश्रं संपाद्य तस्य करणीमध्येषु यथा स्रक्तयो भवेयुः तथा पञ्चदशिकेनेत्यादिना विहृत्यार्धेन ततः तस्य यजमानमात्रस्यार्धेन श्रोण्यंसान्निर्हरेत्तन्निमित्तो निर्ह्रासो विवृद्धिर्वेत्युक्तयोर्निर्ह्रासः, महावेद्यां पदञ्चशिकेनैवापायम्य अर्धयजमानमात्रे शङ्कुं निहन्यात् दक्षिणाप्राची वेदिः ॥
सुन्दरराजीया व्याख्या.
(अथाप्युदाहरन्ति रथपरिमाणम्)
अङ्गुलयःसंख्येयाः ।
अङ्गुलिश्वोर्ध्वबाहोः पुरुषस्य विंशतिशततमो भाग इति वक्ष्यते ।
"पञ्चारत्निः पुरुषः, चतुविंशत्य ङ्गुलयो ऽरत्निः
इति ।
सा च चतुस्त्रिंशतत्तिलेत्याचक्षते ।
यथोक्तं बोधायनेन--
""अङ्गुलिप्रमाणं चतुर्दशाणवः चतुस्त्रिंशत्तिलाः पृथुसांश्लिष्टा इत्यपरम्ऽऽ इति चतुरधिकं शतं चतुःशतं युगमिति विपथयुगमुच्यते प्रस्तुतत्वात् ।
अन्यत्तु युगं शताङ्गुलमिति तक्षशास्त्रविदः ।
षण्णवत्यङ्गुलमित्याचार्यपादीयाः ।
यथाऽहुः-- चतुर्हस्तो धनिर्दन्डो धनुर्धन्वन्तरं युगम् ।
इति ।
"हस्तश्चतुर्विंशतिरङ्गुलयःऽ इति च ।
(अरत्निभिर्वा पुरस्तात्)
पशुबन्धवेदीत्येके ।
(तदेकर निर्हरेत्)
द्वाभ्यां श्रोणी ।
अध्यर्धेनांसौ ।
(यजमानमात्री विज्ञायते)
पञ्चारत्निः ।
(तदेकर निर्हरेत्)
तत इति षष्ठयन्तात्तसिल् ।
दक्षिणाप्राची पृष्ठया ।
महादिक्षु श्रोण्यंसाः ।
अत्र लघूपायमाह कात्यायनः--
"पैतृक्यां द्विपुरुषं चतुरश्रं कृत्वा करणीमध्येषु शङ्कवःससमाधिःऽ इति ।
तत्र प्रकारः--पुरुषमात्रद्विकरण्या दशतिलोनया सप्ततिशताङ्गुलया समचतुरश्रं कृत्वा करणीनां मध्येषु शङ्कून्निहत्य दशारत्नयो रज्ज्वोः पाशान पूर्वापरयोः प्रतिमुच्य तयोर्मध्ये दक्षिणोत्तरयोर्नियम्य वहिःस्पन्दमपच्छिन्द्यात् ।
एतं चतुररत्नमिपि केचिदिच्छन्ति ।
तत्र आज्यं पुरोडाशा आसादयितुं न शक्यन्ते ।
कपर्दिभाशष्यम्.
दशपदोत्तरा वेदिर् भवतीति सोमे विज्ञायते । तद् एकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान् निर्हरेत्
पदग्रहणं प्रदर्शनार्थम् ।
प्रकममितायां महानेद्यां दशपदोत्तरवेदिः सर्वतो दशपदा "प्रमाणेन प्रमाणं विधीयतऽ इति वचनात् ।
क्षेत्रतो वा दशपता ।
तदा एकपदविस्तारं त्रिपदायामं दीर्घचतुरश्रं कृत्वा तस्याक्ष्णया रज्जुं गृहीत्वा चतुरश्रं कुर्यात् ।
प्रक्रमे ऽप्येकप्रक्रमविस्तारं त्रिप्रक्रमायामं चतुरश्रं विहृत्य तस्याक्ष्णया रज्जुं गृहीत्वा चतुरश्रं कुर्यात् ।
तदेकरज्ज्वोक्तं--अर्धेन ततः--तस्येत्यर्थः षष्ठयर्थे तसिल् ।
तां युगेन यजमानस्य वा पदैर् विमाय शम्यया परिमिमीते
युगेनोक्तपमाणेन यजमानस्य वा पदैः ।
यजमानग्रहणादध्वर्योर्न लभ्यते ।
यजमानग्रहणं प्रदर्शनार्थमिति केचित् ।
तस्मादेव वचनादुत्तरवेदिर्युगमात्री लभ्यते ।
सोमे पदमानायां महावेद्यां उत्तरवेदिं युगेन वा पदैर्वा विमाय शौल्बेन मानेन पश्चाच्छम्यया मानमदृष्टार्थं कर्तव्यम् ।
शम्यया परिमिमीत इत्येतद्वचनमदृष्टार्थं न प्रमाणविधिः इयुक्तं भवति ।
करविन्दीया व्याख्या.
(दशपदोत्त विज्ञायते)
महावेद्यां प्रथमनिहताच्छङ्कोः पुरस्तात्पञ्चविंशतिषु शङ्कुं निहत्य तत्पुरस्तादृशसु शङ्कुं निहत्य पञ्चदशिकेनेत्यादिना विहरेत् ॥
(तदेकर निर्हरेत्)
ततोर्ऽधेन पञ्चपदेनेत्यर्थः ।
"सर्वतो दशपदाऽ इति शतपथब्राह्नणे श्रूयते "प्रमाणेन प्रमाणं विधीयते शतुरश्रमिति तदनिरूपक्षे त्रतो दशपद
इति कात्यायनः ।
अस्मिन् पक्षे पदविस्तारं त्रिपदायामं दीर्घचतुरश्रं विहृत्य तस्याक्ष्णयारज्जुप्रमाणोत्तरवेदिः ।
अस्मिन्नपि पक्षे एतत्करण्यर्धेन श्रोण्यंसानां विहरणम् ॥
(तां युगेन परिमिमीते )
तामुत्तरवेदिं युगप्रमाणेन ।
तदुक्तं "षडशीतिर्युगम्ऽ इति ।
तेन वा यजमानस्य वा पदैर्विमाय पश्चाददृष्टार्थं शम्यया सर्वतो मिमीते ।
शम्याप्रमाणं चोक्तं सूत्रान्तरे "षट्त्रिंशच्छम्याऽ इति पशुबन्धे त्वन्यस्याभावात् परिमाणार्थमेव शम्याविधानम् ।
मात्रैवास्यै सेति लिङ्गाच्च ।
अस्मादेव वचनात् सौमिक्युत्तरवेदिर्युगमायपि लभ्यते (भवति) ॥
सुन्दरराजीया व्याख्या.
(दशपदोत्तर निर्हरेत्)
दशपदा--सर्वतः ।
क्षेत्रतःशतपदा ।
(तां युगेन परिमिमीते)
युगमपि दशपदाया एव मानसाधनं वेणुवत् ।
केचित् तस्यतन्त्रं प्रमाणमाहुः, अतद्विचारणीयं सूरिभिः ।
यजमानग्रहणं अध्वर्युनिवृच्यर्थम् ।
शम्यया परिमाणमदृष्टार्थम् ।
कपर्दिक्षाष्यम्.
पदे युगे ऽरत्नाव् इयति शम्यायां च मानार्थेषु यथाकामी शब्दार्थस्य विशयित्वात्
पदादिषु मानार्थेषु यथाकामी--यथेच्छा तथा गृह्णीयात् ।
किमुक्तं भवति ॥
अणवश्चतुर्दश तिलः
चतुस्त्रिंशत्तिलाः अङ्गुलः (पृथुतःसंस्पृष्टा इत्यपरम्)
द्वादशाङ्गुलाः प्रादेशः
त्रयोदशाङ्गुलः वितस्तिः
पञ्चदशाङ्गुलं पदम्
चतुर्विंशत्यङ्गुलयः अरत्निः
द्वात्रिंशदङ्गुलयः जानुः
षट्त्रिंशदङ्गुला शम्या
षडशीत्यङ्गुलं युगम्
चतुःशतं अक्षः
विंशत्युत्तरं शतं पुरुषः
इत्येवमादिशुल्बान्तरोक्तलक्षणमानार्थेषु प्रमाणावयवा गृह्येरन् ।
लक्षणे वर्गेण विमाय तत्र यथाकामी शब्दार्थस्य विशयित्वात् ।
पञ्चदशाङ्गुलं पदमपि भवति ।
यजमानपदमपि ।
तत्रान्यतरद्ग्राह्यमित्याधाने ।
इयद्द्वादशविक्रामा इति ।
तत्र स्वसंवित्तिं अपरसंवित्तिं लोकप्रसिद्धिं शास्त्रप्रसिद्धिं वा गृह्णीयादित्यर्थः ।
विमितायां पुरस्तात् पार्श्वमान्या उपसंहरेत् । श्रुतिसामर्थ्यात्
मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0