भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बशुल्बसूत्र · अध्याय 5

5.1

इति चतुर्थखण्डः.
अपरेणाहवनीयं एकरज्ज्वादिभिदीर्ङ्घं चतुरश्रं विहृत्य संपाद्य यजमानमात्री पार्श्वमानी यथा सन्नानि हवींषि संभवेत् परस्परासंघटितानि तिष्ठन्ति तथा तिर्यङ्भानी ।
तस्यास्त्रिभागोन वा तिरश्वीति बोधायनीये शुल्बान्तरे प्रतिपादितम् ।
तावतीं रज्जुमभ्यस्य उभयतः पाशौ कृत्वा दक्षिणयोःश्रोण्यंसयोरन्तौ नियम्य पाशौ प्रतिमुच्य लक्षणेन जक्षिणापायम्य निमित्तं शङ्कुं निहत्य तास्मिन् शङ्कौ रज्जुं संयोज्य पाशावुन्मुच्य तेन हस्तेन गृहीत्वा दक्षिणां श्रोणिमारभ्य यावद्दक्षिणांसमालिखेत् ।
एवमुत्तरपार्श्वमालिखेत् ।
एतत्सन्नतत्वं वेदेः ।
तिर्यङ्भान्याप्येवं कुर्यात् ।
तिर्यङ्भानीप्रमाणां रज्जुमभ्स्य मध्ये लक्षणं कृत्वा श्रोण्योरन्ते पाशौ प्रतिमुच्य पार्श्वादपसार्य तत्र शङ्कुं निहत्य तत्र रज्जु प्रबध्यान्तौ समस्य दक्षिणां श्रोणिमारभ्य यावदुत्तरा क्षोणी तावदालिखेत् ।
एवं पुरस्तादपि करोति ।
एवमुन्नयनं श्रोण्यंसौ ।
एवंप्रकारा हि योषा ।
हिशब्दो रूपप्रसिद्धौ ।
प्राक्छिराःस्त्री एवमेवेत्यर्थः ।
विमिताया मेवं चतुरश्रमापादितायां पुरस्तात्पार्श्वमान्यावुपसंहरेत्, सङ्कोचयेत् ।
श्रुतिसामर्थ्यात्--"पुरस्तादंहीयसीऽ इति यैषा श्रुतिः तस्याःसामर्थ्यात् ।
इतरथा योषासादृश्यमपि न स्यात् ॥
इति चतुर्थःखण्डः
करविन्दीया व्याख्या
एताद्विहरणेन व्याचष्टे.
(अपरेणाहवनीयम् एवमुत्तरतः.)
अपरेणेति ।
अपरेणाहवनीयं आहवनीयस्य पश्चात्समीपे ।
गार्हपत्याहवनीययोर्यद्यपि महदन्तरालं तथाप्याहवनीयसमीप एव वेदिः ।
केचिद्विस्तारद्विगुणायामं दीर्घमिच्छन्ति ।
उक्तप्रमाणं दीर्घचतुरश्रमाहवनीयमपरेण विहृत्य श्रोण्यंसेषु शङ्कुन्निहत्य यावदायामः तावतीं रज्जुमभ्यस्य आयामद्विगुणां रज्जुं कृत्वा मध्ये लक्षणं निरञ्जनं कृत्वा दक्षिमयोःश्रोण्यंसयोरन्तौ नियम्य निरञ्जनेन दक्षिणापायम्य शङ्कुं निहत्य तस्मिन् रज्जुं प्रतिमुच्य पाशावेकीकृत्य श्रोण्या आरभ्य यावदंसं वृत्तमार्गेणालिखेत् ।
उत्तरपार्श्व उत्तरतो ऽपायम्य एवमेव कुर्यात् ॥
(तिर्यङ्भानीं द्विगुणां--लिखेत्)
तिर्यङ्भानीमिति ।
पूर्वां तिर्यङ्भानीं पूर्ववद्द्विगुणां कृत्वा पुरतो ऽपायम्य दक्षिणस्मदंसात् प्रक्रम्य उत्तरमंसमालिखेत्, पश्चिमया तिर्यङ्भान्या पश्चादप्येवमेव कुर्यात्, वेदिप्राचीमितां रज्जुं गार्हपत्याहवनीययोरन्तरालमित्युक्तप्रकारेण वेद्या दक्षिणोत्तरमायम्य पूर्ववद्द्वितृतीयदेशे लक्षणं कुर्यात् उदग्बहिर्वेदेरुत्तरतः उत्तरार्थं लक्षणं च कृत्वा वेद्याः पश्चादप्यवेमेव वितृतीये लक्षणं कुर्यात्. गार्हपत्याहवनीययोर्मध्यं--मध्यदेशः तत्र लक्षणं कुर्यात् ॥
(विमितायांअश्रुतिसामर्थ्यात्.)
विमितायामिति ।
विमितायां चतुरश्रीकृतमात्रायां लेखाकरणात् प्रागेव पार्श्वमान्यौ पुरस्तात्पुरत उपसंहारेत्--संकोचयेत् ।
इति चतुर्थः खण्डः.
सुन्दरराजीया व्याख्या.
(अपरेण श्रुतिसामर्थ्यात्)
तस्या विहरणमाह--
निमित्ते रज्जुं रज्जुमध्यं नियम्य प्रतिमुच्य दक्षिणायै दक्षिणस्याः श्रोणेरारभ्य दक्षिणमंसं प्रत्यालिखेत् ।
तिर्यङ्भान्योरपि मध्ये लक्षणं कृत्वा श्रोण्योरंसयोश्वान्तौ नियम्य पश्चात्पुरस्ताच्चापायम्येत्यादि द्रष्टव्यम् ।
एतदेव श्रोण्यंसयोरुन्नयनम् ।
विमितायां चतुरश्रीकृतायां संनमनात्पूर्वमेव किञ्चिदुपसंहरेत्, "पुरस्तादंहीयसीऽ इति श्रुतिसामर्थ्यात् ।
अत्र बोधायनः--
"यजमानमात्री प्राची, तस्या एवार्धं पुरस्तात्तिरश्वी, त्रिभागोना पश्चात् तिरश्वी त्रिंशत्पदानिऽ इति ॥
कपर्दिभाष्यं
त्रिंशत् पदानि प्रक्रमा वा पश्चात्तिरश्वी भवति । षट्त्रिंशत् प्राची चतुर्विंशतिः पुरस्तात् तिरश्चीति सौमिक्या वेदेर् विज्ञायते

5.2

षट्त्रिंशिकायाम् अष्टादशोपसमस्य अपरस्माद् अन्ताद् द्वादशसु लक्षणं पञ्चदशसु लक्षणं पृष्ठ्यान्तयोर् अन्तौ नियम्य पञ्चदशकेन दक्षिणापायम्य शङ्कुं निहन्त्येवम् उत्तरतःश्रोणी । विपर्यस्यांसौ पञ्चदशिकेनैवापायम्य द्वादशिके शङ्कुं निहन्ति । एवम् उत्तरतस्ताव् अंसौ
पदानीत्यस्मदीया श्रुतिः ।
त्रिंशत्पदानि प्रक्रमा वा पश्चात्तिरश्वीति ।
तिर्यङ्भानी भवति ।
षट्त्रिंशत्पृष्ठ्या प्राची चतुर्विंशतिः पुरस्तात् तिर्यङ्भानी भवतीति सौमिक्या वेदेः सोमे श्रुतिः ।
षट्त्रिंशिकायां रज्ज्वां अष्टादशोपसमस्य प्रक्षिप्यान्तयोः पाशौ कृत्वापरस्मादन्ताद्द्वादशसु लक्षणं पञ्चदशसु लक्षणं निरञ्जनं कृत्वा पृष्ठ्यान्तयोः प्राग्वंशस्य मध्यमाल्लालाटिकात्तीन्प्राचः प्रक्रमान् प्रक्रम्य शङ्कुं निहत्य तस्माच्च पुरस्तात् षट्त्रिंशत्प्रक्रमे शङ्कू निहत्य तयोः पाशौ प्रतिमुच्य पञ्चदशकेन दक्षिणापायम्य शङ्कं निहन्यात् ।
सा दक्षिणा श्रोणी ।
एवमुत्तरतो ऽपसार्य शङ्कुं निहन्यात् ।
सोत्तरा श्रोणी ।
विपर्यस्तयांसौ ।
पञ्चदशिकेनैवोपायम्य द्वादशके शङ्कू निहन्त्यैवमुत्तरतस्तावंसौ ।
शङ्कोः पाशावुन्मुच्य पूर्वपाशमपरस्मिन्प्रतिमुञ्चेत् ।
अपरं पूर्वस्मिन्प्रतिमुञ्चेत् ।
स विपर्यासः ।
विपर्यस्तया--एवं कृतया रज्ज्वांऽसौ मातव्यौ ।
तेनैव निरञ्जनेन दक्षिणापसार्य द्वादशके शङ्कुं निहन्यात् ।
तेनैवोदगपसार्य द्वादशके शङ्कुः ।
तावंसौ ।
महावेद्या मानं किमिर्थमिदमुच्यते ।
यावता सिद्धमेतत्? अनेकरज्जुविहरणविवक्षयोक्तमिति केचित्परिहरन्ति ।
आयामं वेत्यस्मिन् पक्षे द्वादशके लक्षणम् ।
पञ्चदशके लक्षणे च सप्तविंशतौ निरञ्जनमिति लक्षणबाहुल्यप्रतिपादनार्थमित्यपरे ।
समचतुरश्राणां दीर्घचतुरश्राणां च विहरणमुक्तम् ।
इह तु दीर्घविषमचतुरश्रस्येत्यन्ये ।
तदेकरज्ज्वा विहरणम्

5.3

त्रिकचतुष्कयोः पञ्चिकाक्ष्णयारज्जुः । ताभिस् त्रिरभ्यस्ताभिर् अंसौ । चतुरभ्यस्ताभिःश्रोणी

5.4

यस्य चतुरश्रस्य त्रिका तिर्यङ्भानी चतुष्का पार्श्वमानी तस्या अक्ष्णया रज्जुः पञ्चिका ।
ताभिरंसौ मातव्यौ ।
त्रिकं त्रिरभ्यासयुक्तं द्वादश भवन्ति ।
चतुष्कं (षोडश पञ्चिका) विशतिःष ।
युपावटीयाच्छङ्कोः पश्चात् षोडशसु शङ्कुं निहत्य तस्मिन् पञ्चिकां साभ्यासं प्रतिमुच्य यूपावटीये साभ्यासं त्रिकं प्रतिमुच्यांसावायच्छेत् ।
चतुरभ्यस्ताभिःश्रोणी ।
ताभिरेव चतुरभ्यासयुक्ताभिः श्रोणी मातव्यौ ।
विंशेषु शङ्कुं निहत्य तस्मिन् पञ्चिकां साभ्यासं पञ्चविंशतिं प्रतिमुच्य पञ्चदशिकां प्रतिमुच्य ताभिःश्रोणी विहरेत् ॥
करविन्दीया व्याख्या.
दर्शपूर्णमासवेदिविहरणानन्तरं प्रकृतौ सौम्यवेदिविमानमुच्यते ।
(त्रिंशत्पदानि प्रक्रमा वा वेदेर्विज्ञायते)
त्रिंशदिति ॥
त्रिंशत्पदान्.इ पश्चात्तिरश्वी भवतीति तैत्तिरीयकश्रुतिः ।
त्रिंशत्प्रक्रमेति शाशान्तरीया, अतो विकल्पः, यद्यपि कर्मोपतेशः प्रक्रमशब्देन प्राग्वंशस्य मध्यमाल्लालाटिकात्र्रीन् प्राचः प्रक्रमानिति तत्रापि श्रुत्योर्वैकल्पिकत्वेन प्रदर्शनार्थः प्रक्रमशब्दः ।
तत्र प्रक्रमायत इति प्रक्रमाशब्दः ।
पश्चात्तिरश्वी पश्चात्तिर्यङ्भानी प्राची आयामः पुरस्तास्तिरश्वी तिर्यङ्भानी विमानमुच्यते ॥
(षट्त्रिंशिवंसौ)
षट्त्रिंशिकायामिति ॥
षट्त्रिंशिका षट्त्रिंशत्प्रमाणा रज्जुः, तस्यामष्टादशोपसमस्य संयोज्यापरस्मात् पश्चिमादन्तादारभ्य द्वादशसु लक्षणमंसार्थं, पञ्चदशसु लक्षणं श्रोण्यर्थं, प्राग्वंशस्य मध्यमाल्लालाटिकात्र्रिन् प्राचः प्रक्रमानतीत्य ततः पुरस्तात् षट्त्रिंशत्प्रमाणां प्राचीं लेखामालिखेत सा पृष्ठ्या तदन्तयोः शङ्कु निहत्य तयोः पाशौ प्रतिमुच्य पञ्चदशिकेन लक्षणेन दक्षिणापायम्य शङ्कुं निहन्ति सा दक्षिणा श्रोणी, एवमुत्तर तो ऽपायम्य शङ्कुः, सोत्तरा श्रोणी, विपर्यस्तयांसौ विपर्यस्तपा शयांऽशौ मातव्यौ ।
पञ्चदशिकेनैवापायम्य द्वादशिके शङ्कुः, दक्षिणतः उत्तरतश् च तावंसौ ।
ननु "तदर्थमभ्यस्यापरस्मिन्ऽ इत्य नेनैब विहरणेनास्मिन्विहरणे सिद्धे किमर्थमिह पुनर्वचनम्, उच्यते--सङ्ख्यापूर्वागमार्थमिति केचित्परिहरन्ति, अनेकरज्जुविवक्षया इत्यन्ये, आयामाभ्यासेषु द्वादशसु लक्षणं पञ्चदशसु लक्षणं सप्तविंशत्यादौ निरढञ्जनमिति लक्षणबाहुल्यप्रतिपादनार्थमित्यपरे ।
दीर्घचतुरश्राणां च तत्र विहरणमुक्तं ।
इह तु विषमदीर्घचतुरश्रस्येत्यपरे ॥
(तदेकरज्ज्वा विहरणम्)
तदिति ॥
एका चासौ रज्जुश्वेत्येकरज्जुः, एकयैव रज्ज्वा श्रोण्यंसानां विहरणं ।
द्विशङ्कुना त्रिशङ्कुना पञ्जशङ्कुना वा योगेन यद्विहरणमुक्तं तदिदमित्युक्तमनुभाषते अनेकरज्जुविधित्सया ॥
(त्रिकचतुष्कयोः--पञ्चिकाक्ष्णयारज्जुः)
त्रिकेति ॥
त्रिका त्रिप्राणा चतुष्का चतुष्प्रमाणा पञ्चिका पञ्चप्रमाणा ।
त्रिकचतुष्कयोरिति आयामाभ्यासप्राप्तमनूद्यते, तदभ्यासेन श्रोण्यंसविधानार्थं एवमुत्तरेष्वभ्यासेषु ॥
(ताभिस्त्रिरभ्यस्ताभिरंसौ)
ताभिः पृथक्पृथक्रिरभ्यस्ताभिः त्रिरुपरि निक्षेप्ताभिः, त्रिकात् त्रिरभ्यस्तात् द्वादश, चतुष्कात्र्रिरभ्यस्तात् षोडश, पञ्चकात्त्रिरभ्यस्तात् विंशतिः, ताभिरंसौ मातव्यौ ॥
(चतुरभ्यस्ताभिःश्रोणी)
त्रिकाच्चतुरभ्यस्तात् पञ्चदश, चतुष्काद्विंशतिः, पञ्चकात् पञ्चविंशतिः, ताभिःश्रोण्यौ मातव्यौ ।
यूपावटीयाच्छङ्कोः पश्चात् षोडशसु शङ्कुं न्निहत्य तस्मिंस्त्रिरभ्यस्तां पञ्चिकां चतुरभ्यस्तां प्रतिमुच्य यूपावटीये त्रिरभ्यस्तां त्रिकां चतुरभ्यस्तां प्रतिमुच्य प्रथमनिहितशङ्कौ चतुरभ्यस्तां त्रिकांप्रतिमुच्य ताभ्यां श्रोण्यौ, आयामाभ्याससिद्धमिदम् ।
आयामद्विगुणाभ्याससिद्धं वा ॥
सुन्दरराजीया व्याख्या.
(त्रिंशत्पदानि प्रक्रमा वा वेदेर्विज्ञायते)
पदं च द्विविधमुक्तं बोधायनेन--"दशाङ्गुलं क्षुद्रपदं पदं पञ्चदशाङ्गुलम्ऽ इति ।
द्वादशाङ्गुलमिति कात्यायनः ।
एतानित्रिविधानि पदानि लौकिकेन पदेन विकल्प्यन्ते ।
तथा वक्ष्यति--"पदे युगे ऽरद्नौऽ इत्यादि ।
एतान्येव चतुर्विन्धानि पदानि द्विगुणानि त्रिगुणानि च प्रक्रमाः ।
ते च सप्तविधाः ।
तत्र साग्निचित्ये सोमे पदैर्विमानं न लभ्यते अग्निक्षेत्रासंभवात् ।
एवं सप्तविधे ऽग्नौ विंशत्यङ्गुलस्य निवृत्तिर् व्याख्याता, अनग्निचित्ये तु सर्वेषामेव प्रदप्रक्रमाणामिच्छया विकल्प इति केचित् ।
अन्ये पुनरेवं व्यवस्थामिच्छन्ति--पदैश्चतुर्विधैर्विंशत्यङ्गुलेन वा प्रक्रमेण मानमनग्निचित्ये ।
एकविधाग्नौ विंशत्यङ्गुलेन, द्विविधादिषु पञ्चविधपर्यन्तेषु चतुर्विंशत्यङ्गुलेन, षड्विधादिषु द्वाद शविधपर्यन्तेषु विंशत्यङ्गुलेन लौकिकेन वा द्विपदेन, त्रयोदशविधादिषु षट् त्रिंशदङ्गुलेनेत्यादि ।
सर्वेषामपि पक्षे अग्नयः पञ्चचत्वारिंशदङ्गुलेन प्रक्रमेण संभवन्ति ।
तत्राग्न्यनुगुणा वेदे र्विवृद्धिः कर्तव्या ।
यृपैफादशिन्यां न्यायस्य प्रक्रमास्थानीयः, एकशतविधे अशीत्यङ्गुल इत्यादि ।
अथास्या वेदेर्विंहरणमाह----
(षट्त्रिंशिकायांअविहरणम्)
यावदायाम् प्रमाणमित्युक्तस्य मानस्यायं प्रपञ्चः ।
अथास्या एव वेदेरनेकरज्ज्वा विहरणमाह--
(त्रिकचतुष्कयोःअश्रोणी)
त्रिकचतुष्कयोस्तिर्यक्पाश्वमान्योः अभ्यस्ताभिः उपक्षिप्ताभिः, यथा-- त्रिका त्रिरभ्यस्ता द्वादशिका, चतुष्का त्रिरभ्यस्ता षोडाशेका, पञ्चिका त्रिरभ्यस्ता विंशतिका ।
एताभिस्तिसृभिरभ्यस्ताभिरंसौ मातव्यौ ।
एताभिरेव चतुरभ्यस्ताभिः पञ्चदशिकया विंशिकया च श्रोणी मातव्ये ।
द्विरभ्यस्ताभिरप्येताभिरंसौ मातुं शक्येते ।
सर्वत्र द्वादशिकांऽसयोः ।
तिर्यङ्भानी पञ्चदशिका ।
श्रोण्योरितरा पृष्ठ्यायां पार्श्वमानी एवं षड्भीरज्जुभिर्विहरणम् ।
एवमुत्तरत्र ॥
कपर्दीया भाष्यम्.
प्रथमनिहते शङ्कौ त्रिकं साभ्यासम् ।
द्वादशिकापञ्चिकयोस् त्रयोदशिकाक्ष्णयारज्जुः, ताभिर् अंसौ द्विरभ्यस्ताभिः श्रोणी

5.5

युपावटीयाच्छङ्कोः पश्चात्पञ्चसु शङ्कुं निहत्य तस्मिन् त्रयोदशिकां प्रतिमुच्य यूपावटीये पञ्चिकां द्वादशिकां च प्रतिमुच्य ताभिरंसौ मातव्यौ ।
द्विरभ्यस्ताभिःश्रोणी ।
यूपावटीये त्रयोदशिकां साभ्यासां प्रतिमुच्य साभ्यासां द्वादशिकां च प्रथमनिहते पञ्चिकां च साभ्यासाम्, ताभिः श्रोणी मातव्यौ ।
करविन्दीया व्याख्या.
(द्वादशिका रज्जुः)
स्पष्टार्थमिदम् ॥
(ताभिःअश्रोणी)
यूपावटीयशङ्कोः पश्चात् पञ्चदशसु शङ्कुं निहत्य तस्मिंस्त्रयोदशिकां प्रतिमुच्य यूपावटीये द्वादशिकां प्रतिमुच्य ताभ्यामंसौ ।
तथा प्रथमनिहतशङ्कौ द्विरभ्यस्तां पञ्चिकां प्रतिमुच्य यूपावटीये द्विरभ्यस्तां त्रयोदशिकां प्रतिमुच्य ताभ्यां श्रोण्यौ ।
अर्धाभ्यासप्राप्तमिदमायामचतुर्गुणाभ्यासप्राप्तं वा ॥
सुन्दरराजीया व्याख्या.
(द्वाददिशिका श्रोणी)
द्विरभ्यस्ताभिः षव्डिंशिकादिभिः ।
कपर्दिक्षाष्यम्.
पञ्चदशिकाष्टिकयोः सप्तदशिकाक्ष्णयारज्जुः । ताभिःश्रोणी
प्रथमनिहताच्छङ्कोः पुरस्तादष्टसु शङ्कुं निहत्य तस्मिन् सप्तदशिकामामष्टिकां च प्रतिमुच्य प्रथमनिहते पञ्चदशिकाम् ।
ताभिः श्रोणी ॥
द्वादशिकापञ्चत्रिंशिकयोः सप्तत्रिंशिकाक्ष्णयारज्जुः । ताभिर् अंसौ

5.6

प्रथमनिहताच्छङ्कोः पुरस्तात्प्रक्रमे शङ्कुं निहत्य तस्मिन् सप्तात्रिंशिकां पञ्चत्रिंशिकां च प्रतिमुच्य यूपावटीये द्वादशिकाम् ।
ताभिरंसौ मातव्यौ ॥
एतावन्ति ज्ञेयानि वेदिविहरणानि भवन्ति

5.7

एतावन्त्येव शुद्धमूलानि ज्ञातुं शक्यानि वेदिविहरणानि भवन्ति ।
अन्ये शुद्धमूलाः कल्पयितुमशक्याः ।
तस्मादेतावन्तीत्यवधार्यन्ते--
करविन्दीया व्याख्या.
(पञ्चदशिका श्रोणी)
प्रथमनिहतशङ्कौ पञ्चदशिका, ततः पुरस्तादष्टासु सप्तदशिका, ताभ्यां श्रोण्यौ ।
आयामत्रिगुणाभ्यासप्ताप्तमिदं आयामतृतीयद्विकाभ्यासप्ताप्तं वा ॥
(द्वादशिका ताबिरंसौ)
द्वादशिकेति ।
इदमपि गतार्थम् ।
यूपावटीये द्वादशिका, प्रथमनिहतशङ्कोः पुरस्तात्प्रक्रममात्रे शङ्कुं निहत्य तस्मिन् सप्तत्रिंशिका, ताब्यामंसौ, पञ्चमद्वयाभ्यासप्राप्तमिदं, पञ्चगुणाभ्यासप्ताप्तं वा ।
(एतावन्ति भवन्ति)
एतावन्तीति ॥
शुद्धमूलतय्.आ ज्ञातुं शक्यानि एतावन्त्ये वेत्यवधारणा ।
एतावन्त्युक्तानि, अन्यान्यपि उन्नेयानि, सच्छेदाभिः रज्जुभिर्निर्ह्रासवृद्धिभ्यां च वेदिविहरणानि भवन्त्येव, यद्यपि इदं विहरणमेकरज्ज्वा द्विसयोगेनैव व्याख्यतम्, तथा त्रि शङ्कुपञ्चशङ्कुभ्त्यामपि निर्ह्रासवृद्धिभ्यां यथा योगं विहर्तव्यः, इतरथा तयोर्विधानस्यादृष्टार्थत्वकल्पनाप्रसङ्गात्, अतो निदर्शनमेतत् सर्वविहरणानाम् ।
सुन्दरराजीया.
(पञ्चदशिका भवन्ति)
छेदरहितान्येतावन्ति ।
सच्छेदान्यन्यान्यपि बहूनि सन्ति यथा--
अर्धद्वादशिकार्धचतुर्थिकयोरर्धत्रयोदशिकाक्ष्णयारज्जुः, ताभिरंसौ ।
पञ्चदशिकासपादैकादशिकयोः पादोनैकान्नविंशिकाक्ष्णयारज्जुः, ताभिःश्रोणी इत्यादि ।
कपर्दिभाष्यम्.
अष्टविंशत्योनं पदसहस्रं महावेदिः
नवशतानि द्विसप्ततिश् च (972) पदक्रमाणि प्रक्रमप्रमा णानि वा चतुरश्राणि महावेदेः ।
महद्रहणं किमर्थम्? पदप्रमितायां महावेद्यां सदोहविर्धानादीनामपि पदनेवै मानार्थं, प्रक्रममितायामरत्निप्रक्रमैरेव नवारत्निः तिर्यङ्भानत्यिरत्निमानं सदसो विहितम् ।
नवारत्नि तिर्यगिति नियतप्रमाणविधानात् अरत्निनैन विधानमनुमीयते ।
तथा हविर्धानस्य त्र्यरत्नि विस्तारं नवारत्नयायाममित्यनुमीयते ।
तत्कथं पदेन तयोर् मानं लभ्यते इत्युच्यते, चत्वारिंशदधिकानि पञ्चदशाङ्गुलमिति वचनात् ।
सदसः पश्चात् पञ्चचत्वारिंशदङ्गुलं षोडसाधिकं शतद्वयं सदोहविर्धानयोर्मध्यं पञ्चचत्वारिंशदङ्गुलं षोडशाधिकं शतद्वयं सदोहविर्धानयोर्मध्यं पञ्चचत्वारिंशत्संचरः ।
हविर्धानस्य षोडशाधिकं शथद्वयम् ।
अवशिष्टमष्टादशाङ्गुलम् ।
तस्मादुत्तरवेदिसदोहविर्धानानां अन्तर्वेद्यसंभवात् वृद्धिः कल्पनीया ।
अरत्नेर्वा ह्रासः कल्पनीयः ।
तदुभयमचोदितं भवति ।
अतोयेन वेदिर्मिता तेनैव तेषां मानार्थं पहद्रहणं स्थितम् ।
करविन्दीया व्याख्या.
(अष्टाविंशत्यूनंअमहावेदिः)
द्विसप्ततिः नवशतानि च पदपरिमितानि क्षेत्राणि महावोदेः, प्रक्रममाने ऽप्येवम् ।
पदग्रहणं किमर्थं, उच्यते--पदग्रहणमहद्व्रहणाम्यामेतत् ज्ञायते--वेद्याः पदेन माने सदोहविर्धानयो रपि पदेन मानं नारत्निभिः, उत्तरवेदिश् च युगमात्री न सर्वतो दशपदेति प्रक्रममितायां वेद्यामरत्निविहितयोःसदोहविर्धानयोःसर्वतो दशपदाया उत्तरवेदेश्वासंभवात् पदेनैव सदोहविर्धान. योर्विमान युगमात्रोत्तरवेदिरिति सिद्धम् ।
संख्यानप्रयोजनम् वोदन्तृतीये यजत इत्यादिषु ।
सुन्दरराजीया.
अष्टाविंशत्यूनंअमहावेदिः.
पदग्रहणं प्रक्रमस्याप्युपलक्षणम् ।
कपर्दिक्षाष्यम्
दक्षिणस्माद् अंसाद् द्वादशसु दक्षिणस्यां श्रोण्यां निपातयेत् । छेदं विपर्यस्योत्तरत उपदध्यात् । सा दीर्घा चतुरश्रा । तथा युक्तां संचक्षीत

5.8

दक्षिणस्मादंसादारभ्य द्वादशस्वेव श्रोण्यां विपादयेत् ।
त्रीणि पदानि श्रोणिदेशे, विपर्यस्योत्तरस्मिन्नंसे मनसा स्थापयेत् ।
एवं कृते सप्तविंशतिविस्तारा षट्त्रिंशदायता दीर्घचतुरश्रा भवति ।
तथाभूतां वेदिं सप्तविंशतिं षट्त्रिंशत्या गुणिते सति अष्टाविंशत्यूनपदसहस्रं भवति ।
सौमिक्या वेदितृतीयदेशे यजेतेति सौत्रामण्या वेदेर् विज्ञायते
वेदितृतीये यजेतेति दार्शिकपाशलकयोरशंभवात्सौमिकं लभ्यते ।
अतःसौमिक्या इत्युक्तम् ।
प्रक्रमास्य द्विकरणी प्रक्रमस्थानीया भवति त्रिकरण्या वा
तृतीयकरणी प्रक्रमस्थाना, स्थानान्ताद्विभाषेति छप्रत्ययः ।
तृतीयकरणीं प्रक्रमं कृत्वा षट्त्रिंशिकायामित्यादिना विहरेत् ।
तृतीयकरण्या वा वक्ष्यमाणेन विधिना ।
अष्टिका दशिकेति तिर्यङ्मान्यौ । द्वादशिका पृष्ठया

5.9

अष्टिका पुरस्तात्तिर्यङ्भानी ।
द्वादशिका पृष्ठया ।
द्वादशसु षडुपसमस्यापरस्मादन्तात्पञ्चसु लक्षणं चतुर्षु लक्षणं कृत्वा पृष्ठयान्तयोरन्तौ नियम्य पञ्चकेन दक्षिणा पसार्य शङ्कुं निहन्यात् ।
एवमुत्तरतस्ते श्रोणी ।
विपर्यस्तयांसौ ।
पञ्चकेन दक्षिणापायम्य चतुर्षु शङ्कुं निहन्यात् ।
एवमुत्तरतस्तावंसौ भवतः ।
त्रीणि चतुर्विंशानि पदशतानि सौत्रामणिकी वेदिः

5.10

दक्षिणस्मादंसादारभ्य चतुर्ष्वव दक्षिणस्यां श्रोण्यां विपात्य शेषं विपर्यस्येत्यादि पूर्वावत् ।
द्वादशपदविस्तारा द्वादशपदायामा भवति एवं संचक्षीत ॥
द्विस्तावा वेदिर् भवतीत्य् अश्वमेधे विज्ञायते

मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc