भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बशुल्बसूत्र · अध्याय 4

4.1

अर्धस्य द्विप्रमाणा पुरुषमात्री ।
पादानां पूरणं यतः ।
तदुक्तं--"द्वाभ्यां चत्वारिऽ इति ।
तृतीयेन नवमी कला, प्रमाणतृतीयेन नवमी कला -- नवमोंऽश इत्यर्थः ।
तदप्युक्तं-- त्रिभिर्नवेति.
इत्यापस्तम्भसूत्रविवरणे कपर्दिभाष्ये
शुल्बाख्यप्रश्ने प्रथमः पटलः
तृतीयः खण्डः
करविन्दीया व्याख्या.
इदानीं सच्छेदप्रमाणमुच्यते--अध्यर्धेति ।
(अध्यर्धपुरुषा नवमी कला)
अध्यर्धपुरुषप्रमाणेनाध्यर्धपुरुषमभ्यस्य फलं द्वौ सपादौ--पादसहितौ द्वौपु रुषौ करोति ।
अर्धतृतीयपुरुषा षट् सपादान्, अर्धं तृतीयं येषां ते अर्धतृयीयाः, ते च प्रमाणं यस्याः सार्ऽधतृतीयपुरुषा ।
सा येनाभ्यस्ताः फलं सपादान् षद्पुरुषान् करोति ।
उपलब्धिरपि तथा अध्यर्धपुरुषचतुरश्रस्यार्धेन चैकेन चापच्छेदः प्राक्चोदक्च एक मे केन द्वावर्धौ पादश्व, एवमन्यदपि उभ्यतः सच्छेदे सपादरज्जुमध्यर्धं षोडशांशं करोति ।
चतुरश्रक्षेत्रविपृद्धौ वृद्धक्षेत्रपरिज्ञानप्रकारमाह--अन्तःसमीपं प्रकरणं तदतीत्य वर्तत इत्यत्यन्तः अत्यन्तः प्रदेशः विधिर्यस्य सो ऽत्यन्तप्रदेशः--सार्वत्रिक इत्यर्थः ।
समचतुरश्र विषयो ऽयम् ।
यावता--यावत्प्रमाणेन, यावताधिकेन--यावत्प्र माणोनाधिकेन ।
एको यावच्छब्दः प्रमाणमात्रविषयः, अन्यो यावच्छब्द आगन्दुविषयः ।
यावता प्रमाणेन यावन्मात्राधिकेनेत्यर्थः ।
परिलिखति यच्चतुरश्रकरणार्थं परिलिखति तत्र तत् अधिकमागन्तुमूलचतुरश्रक्षेत्रं पार्श्वयोः प्राची चोदीची च क्षेत्रमुपदधाति--संयोजयति ।
यच्च तेनधिकमात्रेण चतुरश्रं क्रियते तत्क्षेत्रं कोट्यां संयोजयति ।
एतदुक्तं भवति--सर्वत्र समचतुरश्रक्षेत्रविवृद्धौ विवृद्धस्य चतुरश्रस्य च दक्षिणप श्विम भागे मूलप्रमाणकृतचतुरश्रं परिकल्प्य तस्यतस्य पूर्वोत्तरपार्श्वयोस्तत्पार् श्वमितपार्श्वमानीकं प्रमाणाधिकमात्रतिर्यङ्भानीकं क्षेत्रं परिकल्प्य यच्च तेना धिकमात्रेण एकेनैकं द्वाभ्यां चत्वारि त्रिभिर्नवेत्यादिफलकरणं चतुरश्रं क्रियते तत्क्षेत्रं प्रागुदक्कोट्या परिकल्पयेदिति ।
एवं सर्वत्र समचतुरश्रस्य क्षेत्रवृद्धौ क्षेत्रस्य परिगणनं कुर्यादित्यर्थः ।
अर्धप्रमाणेन--प्रमाणार्धेनापादप्रमाणं--पादो ऽत्र चतुर्थोभागः, तत्प्रमाणं विधीयते संपाद्यते प्रमाणार्धमितं क्षेत्रं प्रमेयस्य चतु र्थभागो बवति ।
कुतः? अर्धस्य द्विप्रमाणायाः पादपूरणत्वात् अर्धस्य द्विप्रमाणकतया भूमेश्चतुर्भागः पूर्यते ।
तृतीयेन नवमी कला--प्रमाणतृतीयेन क्षेत्रस्य नवमोंऽशः पूर्यते ।
उपलब्धि स् तथा ।
एकप्रमाणाया भूमेरर्धेन प्राक्योदक्चापच्छेदे कृतेर्ऽधप्रमाणकृता भूमिरेकप्रमाणायाः पादो दृश्यते, तस्या एवं प्राक्चोदक्चापच्छेदे प्रमाणतृतीयमिता भूमिरेकप्रमाणाया नवमाशो दृश्यते ।
तथा चतुर्थेन षोडश कला, पञ्चमेन पञ्चविंशतिकला, षष्ठेन षट्रत्रिंशोंऽशः पूर्यते ।
एवमन्यान्यपि छेदफलानि द्रष्टव्यानि ॥
इति श्रीकरविन्दस्वामिकृतायां शुल्बप्रदीपिकायां प्रथमः पटलः.
सुन्दरराजीया व्याख्या
अथ सच्छेदानां फलमाह----
(अध्यर्धपुरुषा षट् सपादान्)
एवं अर्धचतुर्थपुरुषाद् दादश सपादान्, अर्धपञ्चमपुरुषा विंशतिं सपादानित्यादि ।
सपादपुरुषा अध्यर्धं षोडशभागं चेत्यादि द्रष्टव्यम् ।
सार्वत्रिको ऽयं विधिः--कृत्स्नं चतुरश्रं वर्धयितुमिच्छन् यावता प्रमाणेन वर्धयितुमिच्छति तत्पुरस्तादुत्तरतश्वोपदधाति ।
अधिकप्रमाणेन यच्चतुरश्रं क्रियते तदुत्तरपूर्वस्यां कोट्याम् ।
इदानीं तच्छेदानां फलमाह--
(अथात्यन्तप्रदेशः)
द्विप्रमाणाया रज्ज्वाः अर्धस्य प्रमाणमात्रस्य पादपूरण त्वात् ।
द्विप्रमा णाया रज्ज्वाः फलं चत्वारि ।
तस्य पाद एकम्, तस्य पूरणत्वादित्यर्थः ॥
(तृतीये नवमी कला)
कलाभागस्त्रिप्रमाणायास्तत्तृतीयस्य नवमपूणत्वादिति गम्यमानत्वान्नोक्तम् ।
चतुर्थेन षोडश, पञ्चमेन पञ्चविंशतिरित्यादि द्रष्टव्यम् ॥
इति सुन्दरराजीये आपस्तम्बशुल्बसूत्रव्याख्याने
शुल्बप्रदीपे प्रथमः पटलः.
कपर्दिभाष्यम्
पूर्वमविशेषेण मानमुक्तम्, अस्येयानायामः इयान्विस्तर एवं च विहर्तव्यमिति ।
विशेषविधानार्थमाह--
आग्न्याधेयिके विहारे गार्हपत्याहवनीययोर् अन्तराले विज्ञायते
गार्हपत्याहवनीययोरन्तरालं यथा स्यान्नाहवनीयदक्षिणाग्नयोः दक्षिणाग्निगार्हपत्ययोर्वा मा भूदित्येवमर्थं गार्हपत्याहवनीयग्रहणम् ।
विज्ञायते--श्रूयते ।
श्रुतिर्वक्ष्यमाणा ।
अष्टासु प्रक्रमेषु ब्राह्मणो ऽग्निम् आदधीत । एकादशसु राजन्यः । द्वादशसु वैश्यः

4.2

चतुर्विंशत्याम् अपरिमिते यावता वा चक्षुषा मन्यते तस्मान् नातिदूरम् आधेय इति सर्वेषाम् अविशेषेण श्रूयते

4.3

प्रक्रमेण प्रमाणं वक्ष्यति ।
अष्टौ प्रक्रमानतीत्य गार्हपत्यादाहवनीयं प्रतिष्ठापयति ।
एवमेकादशसु राजन्यस्य ।
वैश्यस्यद्वादशसु ।
चतुर्विंशत्या वा परिमिते वा यावाता वा चक्षुषा मन्यते ।
तस्मान्नादिदूरमाधेयः इति सर्वेषामविशेषेण श्रूयते ।
यावता वेति सर्वेषां विधिर्विकल्वेन ।
इयतान्तरालेन विहारसंपत्तिर्भवतीति मननम् ।
अतिदूरप्रतिषेधो व्यवायपरिहारार्थः ।
यद्यतिदूरमाधीयते तदा श्वादयो व्यवेयुः ।
करविन्दिया व्याख्या
उक्ताःसामान्यतो विहाराः ।
इदानीं दर्शपूर्णमासादिषु विशेषविवक्षया प्रथमभूताग्नयाधेयविहारयागविधिरुच्यते ।
अग्नय अधीयन्ते ऽस्मिन् कर्मणीति तदग्नयाधेयं ।
तभ्दव आग्नया धेयिकः ।
विह्रियन्ते ऽस्मिन् अग्नय इति विहारः, देवयजनेदशः, तमधिकृत्य ।
गार्हपत्याहवनीययोरन्तराले--गार्हपत्याहवनीय शब्दाभ्यां तत्तदायतने लक्षणा अन्तराल श्रुतिसामर्श्यात्, अन्तराले अन्तरालं प्रस्तुत्य विज्ञायते श्रूयते ।
सर्वत्र विज्ञायत इत्यस्यायमेवार्थः गार्हपत्याहवनीयग्रहणात्, तयोरेवान्तराले ।
श्रुतिरेवं पठ्यते--
अष्टासु प्रक्रमेषु ब्राह्नणो ऽग्नीनादधीतैकादशसु राजन्यो द्वादशसु वैश्यः चतुर्विंशत्यामपरिमिते यावता वा चश्रुषा मन्यते तस्मान्नातिदूरमाधेय इति ॥
सर्वेषामविशेषेण्.अ श्रूयते ।
प्रक्रमं वक्ष्यति द्विपदस्त्रिपदो वेति ।
अष्टप्रक्रमादयो ऽन्तरालविशेषणं ।
अष्टासु प्रक्रमेष्वन्तराले इत्यादि ।
अपरिमितसंख्यायां तच्चतुर्विंशतेः परतः तदानन्तर्यात्, अपरिमितं प्रमाणात् भूयः, इति कात्यायनः ।
यावता वा चक्षुषा मन्यते तावता प्रमाणेन चक्षुषा गृहीतेन मन्यते यथा इयांश्चतुर्विंशति प्रक्रम इति चक्षुषा मानं ।
यद्यपि चतुर्विशतेः परत एव पठ्यते तथापि द्वादशसु विक्रमेष्वित्यारभ्य यं द्वादशसु विक्रामेषु इत्यादितैत्तिरीयकश्रुत्यनुरोधादष्टप्रक्रमादीनमपि सर्वेषां ग्राह्यं, तेन इयानष्टप्रक्रम इयानेकदश इयान्द्वादशप्रक्रम इति संभवति ।
तस्माच्चतुर्विंशतेरदूरमतिदूरेनाधेयं ।
अनेनापरिमितवचनप्राप्तातिदूरता निषिध्यते ।
चतुर्विंशतिविधानादेवेतः प्रागतिदूरा योगाः ।
चतुविंशत्यादि विधिचतुष्टयं सर्वेषां ब्राह्मणादीनामविशेषेण भवति ।
द्वादशसु विक्रमेष्वित्यपि सर्वेषामविशेषेण लभ्यते ॥
सुन्दहहाजीया व्याख्या
(आग्नयाधेयिके वैश्यः)
गार्हपत्यस्य पुरस्तादेतेषु प्रक्रमेष्वतीतेष्विति विज्ञायते अथ सावर्णिकी श्रुतिः ।
(चतुर्विंशत्या श्रूयते.)
अपरिमितं "प्रमाणाभ्दूयऽ इति कल्पान्तरम् ।
चक्षुषा मन्यत इति दण्डादिमाननिषेधः ।
इयानष्टौ प्रक्रमाः, इयानेकादश इयान् द्वादशेति चक्षुक्षा यावन्तं देशं मन्यते तस्मान्नातिदरं तस्यावधेःसमीप आधेयः ।
एतत्सर्वं प्रयोगकाल एवोक्तमनूद्यते ।
कपर्दिभाष्यम्
दक्षिणतः पुरस्ताद् वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेर् विज्ञायते

4.4

दक्षिणतः पुरस्तात् दक्षिणाप्राक्कोणे देशे वितृतीयदेशे--ईषदूनतृतीयदेशे--कस्य वितृतीयदेशः--गार्हपत्याहवनीययोरन्तरालस्य नेदीयसि आसन्नतृतीयदेशे पार्श्वादित्यर्थः ।
तत्र दक्षिणाग्नेरायतनमिति श्रूयते ।
करविन्दीया व्याख्या.
(दक्षिमतःअविज्ञायते)
दक्षिणतः पुरस्तात् दक्षिणाप्राक्कोणदेशे तस्य गार्हपत्यस्य नेदीयसि सन्निकृष्टे तस्यैव वितृतीयदेशे विशब्दो हीनवचनः किञ्चिद्धीनतृतीयदेशान्तराले दक्षिणाग्रेरायतनं श्रूयते ॥
सुन्दरराजीया व्याख्या.
दक्षिणाग्रयायतनविधानाथमाह ।
(दक्षिणतःअविज्ञायते)
वितृतीयदेशे विकलतृतीयदेशे ईषदूनतृतीयदेश इत्यर्थः ।
गार्हपत्यस्य दक्षिणतः पुरस्तात्तस्यैव नेदीयसि वितृतीयदेशे दक्षिणाग्रेरायतनमिति ॥
कपर्दिभाष्यम्.
तत्कथं गृह्यत इत्याय ।
गार्हपत्याहवनीययोर् अन्तरालं पञ्चधा षड्धा वा संविभज्य षष्ठं सप्तमं वा भागम् आगन्तुम् उपसमस्य समं त्रैधं विभज्यापरस्मिंस् तृतीये लक्षणं कृत्वा गार्हपत्याहवनीययोर् अन्तौ नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति तद् दक्षिणाग्नेर् आयतनम् । श्रुतिसामर्थ्यात्

4.5

गार्हपत्याहवनीययोरन्तरालं पञ्चधा विभज्य षड्धा वा विभज्येत्यन्वयः ।
यदि पञ्चधा तदा षष्ठो भाग आगन्तुः ।
षष्ठं सप्तमं वा भागं आगन्तुमुपसमस्य समं त्रैधं विभज्य ।
यदि षोढा तदा सप्तमो भागः आगन्तिः ।
तमुपसमस्य संयोज्य, समं त्रैधं विभज्य; आगन्तुना सह विषमं माभूदिति समग्रहणम् ।
अपरस्मिंस्तृतीये लक्षणं कृत्वा गार्हपत्यावहनीययोरन्तौ नियम्य पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य शङ्कं निहन्यात् ।
दक्षिणाग्निस्थानं श्रुतिसामर्थ्यात् ।
सामर्थ्यमभिधानशक्तिः अस्याःश्रुतेरयमेवार्थं इति ।
तेन गार्हपत्याहवनीय योरन्तरालं, त्रिप्रथमविस्तारायामानि त्रीणि चतुरश्राणि कृत्वापरस्मिन् चतुरश्रे उत्तरस्यां श्रोण्यां गार्हपत्यं दक्षिणेंऽसेदक्षिणाग्नयायतनं पूर्वस्मिन् चतुरश्रे, उत्तरेंस आहवनीयमित्येवमादयो निरस्ता भवन्ति ।
सर्वत्राग्नयायतनानि चतुरश्राणि मण्डलानि वा ।
इह तु मण्डलं गार्हपत्यमर्धमण्डलाकारमन्वाहार्यपचनं ।
चतुरश्रमाहवनीयमिति स्मरन्ति मण्डलचतुरश्रयोरुक्तो विधिः ।
इदानीं दक्षिणाग्नेः धनुराकार उच्यते--पिशीलद्विकरण्या चतुरश्रं कृत्वा पूर्वोक्तेन विधानेन मण्डलं कुर्यात् ।
तस्य मण्डलस्य विष्कम्भचतुर्भागं दक्षिणाग्नेः पूर्वनिहताच्छङ्कोरुदगपसार्य शङ्कं निहत्य तस्मिन्पाशं प्रतिमुच्य विष्कम्भार्धेन मण्डलं परिलिख्योत्तरमर्धं त्यजेत् ।
तत्र श्लोकौ भवतः----
दक्षिणाग्नेर्हताच्छङ्कोरुदक्छङ्कुर्दशाङ्गुले ।
एकादशतिलैरूने कार्यस्य धनुषा समः ॥
तस्मिन्पाशं प्रतिमुच्य विंशत्यायतया लिखेत् ।
ऊनया तु द्वाविंशतितिलैरर्धं त्यजेदुदक् ॥
इति ।
करविन्दीया व्याख्या
गार्हपत्याहवनीययोः--श्रुतिसामर्थात्.
एतस्य विहरणमाह--
गार्हपत्याहवनीययोरन्तरालमष्टप्रक्रमादिकं दञ्चधा षोढा वा संभुज्य गुणयित्वा षष्ठं सप्तमं वा भागमागन्तुमुपसमस् पञ्चधा गुणने षष्ठं षोढा गुणने भागमुमसमस्य संयोज्यागन्तुन् तृतीये गार्हपत्यसन्निहिते तृतीये लक्षणं निरञ्जनं कृत्वा गार्हपत्याहवनीययोरन्तौ नियम्य रज्ज्वन्तौ पाशौ गार्हपत्यस्य पूर्वशङ्कौ पश्चिमं पाशमाहवनीयस्य पश्चिमशङ्कौ पूर्वं पाशे प्रतिमुच्य लक्षणेन दक्षिणापायम्य निमित्तं चिह्नं तत्र कुर्यात् ।
तन्निमित्तं धनुराकृतेर्दक्षिणाग्नेर्मध्यमं, विशेषाश्रवणात् ।
गार्हपत्याहवनीययोर्मध्यमशङ्क्वोरन्तौ नियम्येति केचित् ।
श्रुतिसामर्थ्यात् ।
"दक्षिणतः पुरस्तात्ऽ इत्यादि श्रुतिबलादित्यर्थः ।
अत्र पञ्चधापक्षे गार्हपत्याहवनीययोरन्तरालस्य दक्षिणाग्नयायतनमध्योपक्रान्ताद्दक्षिणोत्तरलम्बात् पश्चिमो भाग एकत्रिंशदङ्गुलयः त्रिभागोनसप्ततिलाश् च ।
पूर्वभागो ऽष्टाविंशतिरङ्गुलयः त्रिभागाधिकसप्तविंशतितिलाश् च ।
लम्बकः षट्त्रिंशदङ्गुलयः पादोनषोडशतिलाश् च ।
षड्धापक्षे द्वात्रिंशदङ्गुलयः सार्धसप्तविंशतितिलाश् च पूर्वभागः ।
लम्बकस्त्रिंशदङ्गुलयः सप्ततिलाश् च ।
पादाष्टकमिते ऽन्तरालवत् प्रक्रमिते एकादशादिषु च भागयोर्लम्बकस्य प्रमाणमुन्नेयं, उन्नयनप्रकारं चात्रैव वक्ष्यामः ।
अत्राप्यायतनानि पिशीलमात्राणि, अथवा अस्यैष धिष्ण्यो लीयत इति प्राजहितस्यापि धिष्ण्यत्वदर्शनादायतनानां चतुरश्रमण्डलत्वयोरनियमेन प्राप्तयोरपि मण्डजलमेव गार्हपत्यायतनं अग्ननयो वै त्रयी विद्येत्यत्रानुवाकपर्याये तस्य पृथिवीस्तुतेः तदाकारत्वाच्चतस्याः अर्धमण्डलाकारं धनुराकारं दक्षिणाग्नयायतनं, तत्रैवान्तरीक्षस्तुतेः तदाकारत्वाच्च नभसश्चतुरश्रमाहवनीयम्, तत्रैव द्युलोकस्तुतेः चतुरश्रमैन्द्रस्थानमिति शास्त्रान्तरे दर्शनाच्च सभ्यावसथ्ययोरपि चतुरश्रमेव, तयोस्तद्द्विकारत्वात् ।
अत्र योगः गार्हपत्यायतने पिशीलमात्रं चतुरश्रं विहृत्य मण्डलं कुर्याद्दक्षिणाग्नेरपि वचनात्, विशीलद्विकरण्या चतुरश्रं विहृत्य मण्डलक्टित्य मण्डलविष्कम्भचतुर्भागेन दक्षिणाग्ननयायतनं तन्निमित्तादुत्तरतःशङ्कुं निहत्य तत्र शङ्कौ तद्विष्कम्भमध्यं नियम्यान्तौ समौ कृत्वा मण्डलं विलिख्य मण्डलध्ये प्राचीं लेखां विलिख्य उदगर्धं त्यजेत् ।
दक्षिणार्ध आयतनं गार्हपत्यस्य पुरस्तादष्टप्रक्रमादीनतीत्य पिशीलमात्रं चतुरश्रमाहवनीयं कुर्यात् तत्पुरस्तात् सञ्चरमवशिष्य आहवनीयवत् सभ्यं तत्पुरस्तादावसथ्यमपि ।
तद्वत् पिशीलप्रमाणं च ।
द्विप्रादेशं पिशीलम् ।
मुष्टिकृतो ऽरत्निः पिशीलमित्येके ।
बाह्वोरन्तरालं पिशीलमित्येक इति केचित् ।
प्रक्रम्यत इति पक्रम इति पदस्यापि प्रक्रमतामिच्छन्ति ।
तथापि लभ्यते, अयमत्र विमानक्रमः--गार्हपत्याहवनीयधिष्णियौ विमाय गार्हपत्याहवनीययोरन्तरालमित्यादि दक्षिणापायम्य नियम्य निमित्तं कृत्वा तेनैव लक्षणेनोत्तरतश् च निमित्तं विपर्यस्य दक्षिणत उत्तरतश् च निमित्तं कृत्वा पिशीलद्विकरणीचतुरश्रमण्डलीवष्कम्भचतुर्थांशेन दक्षिणयोर्निमित्तयोरुदक्कृतनिमित्तद्वयानुकूल्येन शङ्कुं निखनेत् ।
अनयोः पश्चिमशङ्कौ पिशीलद्विकरणी चतुरश्रमण्डलविष्कम्भार्धेन मण्डलमालिख्य पुर्वशङ्क्वानुकूल्येन प्राचीं ज्ञात्वा मण्डलस्योत्तरार्धं त्यजेत् ।
दक्षिणार्धो दक्षिणाग्निधिष्णियो भवति ।
सुन्दरराजीया व्याख्या.
(गार्हपत्याहवनीययोःअश्रुतिसामर्थात्.)
तत्कथं ग्राह्यमित्यत आह----
समं सर्वं, गार्हपत्याहवनीययोः गार्हपत्यस्य पौरस्त्ये शङ्कौ आहवनीयस्य पाश्वात्ये शङ्कौ च दक्षिणतो दक्षिणाग्नयायतनम् ।
तदायतनमध्यमित्यन्ये ।
तस्मिन्, पक्षे गार्हपत्याहवनीययोरापि मध्ययोरेव ग्रहणम् ।
सर्वाण्येवाग्रयायतनानि पिशीलमात्राणि चतुरश्राणि परिमण्डलानि वा धिष्णियत्वान्मण्डलं गार्हपत्यस्य ।
अर्धमण्डलं दक्षिणाग्नेश्चतुरश्रमाहवनीयस्येत्यैतिहासिकाःसर्वाणि चायतनानि क्षेत्रतस्तुल्यानीत्याहुः ।
तत्रोक्तो मण्डलविधिः आहवनीयस्याक्ष्णयारज्ज्वा चतुरश्रं विहृत्य विधानेन मण्डलं कृत्वा उत्तरार्वं जह्यात्तद्दक्षिणाग्नयायतनम् ॥
कपर्दिक्षाष्यम्
यजमानमात्री प्राच्य् अपरिमिता वा यथासन्नानि हवींषि संभवेद् एवं तिरश्ची प्राञ्चौ वेद्यंसाव् उन्नयति । प्रतीची श्रोणी पुरस्ताद् अंहीयसी पश्चात् प्रथीयसी मध्ये संनततरैवम् इव हि योषेति दार्शिक्या वेदेर् विज्ञायते

4.6

यजमानमात्रीत्यादि दार्शिक्यावेदेःश्रुतिः ।
अस्याःश्रुतेरर्थं विमानविधिनैव व्याचष्टे ।
करविन्दिया व्याख्या
आयतनविहरणानन्तरं प्रकृतिभूतयोर्दर्शपूर्णमासयोर्विहरणमुच्यते ।
(यजमानमात्री--वेदेर्विज्ञायते.)
यजमानमात्रीति ॥ .॥
यजमामात्री षण्णवत्यङ्गुला प्राक्त्वेनापरि मिता ।
तदधिका प्राची प्राङ्मुखा, संभवो व्याप्तिः, यथा हवींषि परस्परसंबन्धेन आसन्नानि भवन्ति तथा तिरश्वी तिर्यङ्भानी स्यात्, आयामस्य त्रिभागोना पश्चत्तिरश्वी ।
"आयामास्यार्धेन पुरस्तात्तिरश्वीऽ इति बोधायनः ।
पशुबन्धे च तथा दृश्यते, अरत्निभिर्वा चतुर्भिः पश्चात् षड्भिः प्राची त्रिभिः पुरस्तादिति, विकृतिषु वहुहविःषु भहुविस्तारा, अल्पहविः षु प्रकृतिवत् ।
प्राञ्चौ वेद्यंसावुन्नयति प्राक्त्वेन पूर्वान्तमतीतावंसौ कुर्यात् प्रतीची श्रोणी तथा पृथक्त्वेन श्रोण्याकुर्यात् अंहीयसी--तन्वी प्रथीयसी-- विस्तीर्णा सन्नततरा अतिशयेन तनुः, एवमिव हि योषेति ।
एवमिवहीति शब्दो निपातसमुदायः प्रसिद्धवचनः ।
यथा--एवमिव हि पशुः, एवमिव ह्यन्नमद्यत इति ।
एतदेव हि योषा सादृश्यमस्याः ।
यन्मध्ये कृशत्वं पृथ्वंसत्वं पृथुतरश्रोणीत्वं च ।
एतत् "चतुःशिखण्डा युवतिःसुपेशाऽ इति मन्त्रवर्णाच्च लभ्येत, दार्शिक्या वेदेः दर्शपुर्णमासयोःसाधारणा ऽ पि वेदिः दर्शे पूर्वेद्युर्द्दश्यतया दार्शिकीत्युच्यते ।
यद्वा--दर्शपूर्णमासयोरेकशेषं कृत्वा निर्देशः,
सुन्दरराजीया व्याख्या
(यजमानमात्री विज्ञायते.)
यजमानमात्री चतुररत्निः पञ्चारत्निर्वा यथाऽसन्नानि हवीषि संभवेत् संगृह्णीयात् ।
एवं तिरश्वी अर्धलक्षणं तिर्यगित्यर्थः ।
उन्नयति दीर्घं नयति ।
प्रतीची प्रतीच्या योषासादृश्यं च "चतुःशिखण्डाऽ इति मन्त्रवर्णात् दर्शिक्याः-- दर्शपूर्णमासिक्याः ।
कपर्दिक्षाष्यम्
अपरेणाहवनीयं यजमानमात्री दीर्घं चतुरश्रं विहृत्य तावतीं रज्जुम् आयम्य मध्ये लक्षणं कृत्वा दक्षिणयोः श्रोण्यंसयोर् अन्तरा नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति । निमित्ते रज्जुं नियम्यान्तौ समस्य । दक्षिणायाः श्रोणेर् दक्षिणम् अंसम् आलिखेत् । एवम् उत्तरतः । तिर्यङ्मानीं द्विगुणां तथा कृत्वा पश्चात् पुरस्ताच् चोपलिखेत् । विमितायां पुरस्तात् पार्श्वमान्याव् उपसंहरेत् । श्रुतिसामर्थ्यात्

मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc