भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बशुल्बसूत्र · अध्याय 3

3.1

तस्य त्यागविधिरुक्तः ।
इति द्वितीयः खण्डः
करविन्दीया व्याख्या
दीर्घचतुरश्रंअनिर्ह्रास उक्तः
दीर्घोति--सर्वतस्तुल्यप्रमाणं समचतुरश्रं एकत आयामतो ऽधिकं दीर्घचतुरश्रं समचतुरश्रं कुर्वन् तिर्यङ्भान्या तिर्यङ्भानीप्रमाणया रज्ज्वा परिमिते प्रदेशे मध्ये दक्षिणोत्तरमप च्छिद्य शेषं पुर्वभागं मध्ये दिर्यक् द्विधा विभज्य तयोः पश्चिमं भागं तथैवावस्थाप्य पूर्वभागं प्रथमस्योत्तरतः प्राचीनमुपदध्यात् ।
उत्तरपूर्वभागं शून्यभूतं खण्डमागन्तुना संपूर्य समचतुरश्रं संपाद्य अधिकमागन्तुभूतं खण्डं ततो निर्हरेत्--निर्गमयेत् ।
तस्य निर्हार उक्तः "चतुरश्राच्चतुरश्रं निर्झिहीर्षन्ऽ इति ।
तस्योपयोगो रथचक्त्रादिषु ।
इति द्वितीयः खण्डः
सुन्दरराजीया व्याख्या
दीर्घचतुरश्रंअनिर्हार उक्तः
तिर्यङ्भानीप्रमाणेन पार्श्वमानीमपच्छिद्य समचतुरश्रं कृत्वा शेषं विभज्य पुरस्तादुत्तरतश्वोपदधयात्, यथोत्तरपूर्वकोणे समचतुरश्रं आगन्तुः खण्डो भविष्यति ।
तस्य निर्हार उक्तः "चतुरश्राच्चतुरश्रम्ऽ इति ॥
इति द्वितीयः खण्डः
कपर्दिभाष्यम्
समचतुरश्रं दीर्घचतुरश्रं चुकीर्षना यावच्चिकीर्षेत् तावतीं पार्श्वमानीं कृत्वा यदधिकं स्याद् यथायोगम् उपदध्यात्

3.2

समचतुरश्रं दीर्घचतुरश्रं कर्तुमिच्छन् यावता दीर्घभूतेन प्रयोजनं तावत्पार्श्वमालिख्य यदधिकक्षेत्रं तद्यथायोगं यथा तत्क्षेत्रं चुज्यते तथा क्षिपेत् ।
चतुरश्रं विभज्य उभयतःप्रौगे विनियोगः, अवकीर्णिपशौ च ।
करविन्दीया व्याख्या
समचतुरश्रं द्विधा कृत्वा तस्यैकस्मिन् भागे भागान्तरस्योपर्युपरि निहिते दीर्घचतुरश्रं भवतीति मन्वानस्तस्य प्रकारमाह--
समचतुहश्रंऔपदध्यात् समेति ।
तिर्यङ्भान्या अपच्छिद्य शेषं विभजेदित्येव ।
समचतुरश्रं दीर्घचतुरश्रं कर्दुमिच्छन् समचतुरश्रं त्रिभागाद्विभागार्धादीनामन्यतमेनैकांशेन परिमिततिर्यक्प्रमाणं दीर्घचतुरश्रङ्कर्तुमिच्छति तावत्या तिर्यङ्भान्या समचतुरश्रमेकतो ऽपच्छिद्य शेषस्य समचतुरश्रकरणीसमां पार्श्वमानीं तावतीमुक्तया तिर्यङ्भान्या समचतुरश्रं कृत्वा तत्र शेषं विभज्य यदधिकं स्यात्तद्यथायोगमुपदध्यात् ।
अधिकस्य यथा विभागे कृते विभागा एकैकशो वा सर्वाः संहस्य वा भागान्तरस्योपरि निधीयमानास्तद्विस्तारं व्याप्यान्योन्यसंघटितास्तद्दीर्घं संपादयन्ति तथा विभज्य सर्वं शेषं भागान्तरस्योपरि निदध्यादिति ।
अयमर्थः--समचतुरश्रं दीर्घचतुरश्रं चिकीर्षन् क्त्रियमाणस्य चिकीर्षितविस्तारप्रमाणया तिर्यङ्भान्या समचतुरश्रमेकतो ऽवच्छिद्य शिष्टस्य च पार्श्वमानीं तावतीं कृत्वा तदधिमेकयानेकया वा विभज्य तेसर्वे भागा दीर्घचतुरश्रं यथा संपादयन्ति तथा सर्वशेषं भागान्तरस्योपर्युपरि निदध्यादिति ।
अत्राधिकृते शेषशब्दे कर्मवाचिन्यपि सन्निधेःसामर्थ्याच्च तस्य षष्ठ्यर्थो ऽपिप्रतीयते ।
तावतीमित्यादिशब्दस्य शेषसंबन्धित्वे सामञ्जस्याद्यावच्चिकीर्षेदित्यपि दीर्घविस्तारविषयःस्यात् ।
एक एव न्या यो दीर्घस्यापि दीर्घवीधाववगन्तव्यः ।
तत्र श्लोकाः--
चतुरश्रं समं द्वैधं कृत्वा भागान्तरोपरि ।
क्षिप्ते भागान्तरे दीर्घचतुरश्रं तु तद्धवेत् ॥
करिष्यमाणदीर्घस्य विस्तारसमपार्श्वकम् ।
विभज्य शेषमधिकं यथायोगं हि तत्क्रिया ॥
तावती पार्श्वमान्याश् च शेषस्याञ्जस्यभागतः ।
करिष्यमाणदीर्घस्य तिर्यग्यावच्चिकीर्षितम् ॥
सुन्दरराजीया
(समचतुरश्रंऔपदध्यात्)
अयमत्र प्रकारः-- यावदिच्छं पार्श्वमान्या प्राच्यौ वर्धयित्वा उत्तरपूर्वां कर्णरज्जुमायच्छेत्, सा दीर्घचतुरश्रमध्यस्थायां समचतुरश्रतिर्यङ्भान्यां यत्र निपतति तत उत्तरं हित्वा दक्षिणांशं तिर्यङ्भानीं कुर्यात्, तद्दीर्घचतुरश्रं भवति ।
दीर्घस्य दीर्घकहणे ऽप्ययमेव प्रकारः ॥
कपर्दिभाष्यम्
चतुरश्रं मण्डलं चिकीर्षन् मध्यात् कोट्यां निपातयेत्
यच्चतुरश्रं मण्डलं कर्तुमिच्छेत् ।
रथचक्त्रचिदादौ विनियोगः ।
मध्यात्कोट्- चां निपातयेत्--मध्यमे शङ्कौ पाशं प्रतिमुच्य कोट्यामायच्छेत् कर्णेनाऽयच्छेत् ।
अपसार्य तत्र लक्षणं कृत्वा--
पार्श्वतः परिकृष्यातिशयतृतीयेन सह मण्डलं परिलिखेत्
तेनैव लक्षणेन पार्श्वतः आकर्षेत् ।
परिकृष्टं यावच्च तुरश्रमतीत्य शेते सो ऽतिशयः ।
तस्यातिशयस्य तृतीयेन सह चतुरश्रार्घेन मण्डलं परिलिखेत्--सर्वतो लिखेत् ।
सा नित्या मण्डलम्
सानित्या मण्डलं करोति ।
अनित्या सथूला ॥
यावद् धीयते तावद् आगन्तु

3.3

स्त्रक्तिषु यावद्धीयते तावत्पार्श्वे न गच्छति ।
एतच्च वचनमासन्नतरत्वख्यापनार्थम् ।
करविन्दीया व्याख्या
(चतुरश्रं मण्डलंअतावदागन्तु)
समचतुरश्रं मण्डलं चिकीर्षन कर्तुमिच्छन् तस्य चतुरश्रस्याक्ष्णयारज्वर्घप्रमाणात् किञ्चिदधिकामेकतःपाशां रज्जुं मीत्वा तत्पाशं चतुरश्रस्य मध्यमे शक्ङौ प्रतिमुच्य तामक्ष्णयाकोट्यां निपात्य तत्र लक्षणं कृत्वा पार्श्वप्रदेशादतिरिक्तलक्षणयोरन्तरालं त्रेधा विभज्य अन्ततो द्वौ भागावुत्सृज्य भागेनैकेन सहितायां चतुरश्रार्द्धप्रमाणया रज्ज्वा यथा भूमिमण्डलं भवति तथा परितःसर्वतो लिखेत् ।
एवं कृते सा नित्या मण्डलं--चतुरश्रक्षेत्रतिल्यक्षेत्रं भवति ।
सा नित्या--सा भूमिर्नित्या, यावत् चतुरश्रे भूमिः मण्डले ऽपि सा भवती त्यर्थः ।
तत्र हेतुमाह--यावद्धीयते तावदागन्तु--यावत्प्रमाणं क्षेत्रं हीयते हीयमानतया (इति) टृश्येत चतुरशभक्तिषु तावन्मण्डलस्य पार्श्वेष्वागन्तु टृश्यते, तस्मान्नित्येति ।
ननु विष्कम्भार्धेन परिणाहार्धमभ्यस्य फलावगतिरित्यनेन न्यायेन भूमेः नात्यन्ततुल्यता, तत्कथं नित्येति? उच्यते--यद्यप्यनित्या, तथाप्यन्येषामुपायान्तराणामतिस्थूलत्वादस्य चोपायस्यासन्नत्वात् सम्यगुपायस्य वहुप्रयत्नसाध्यत्वेन अशक्यत्वाच्चैवं वदत आचार्यस्यायमेवोपायःसाधुरित्यभिप्रायः ।
यावदिह हीयते तावदागन्तु इति
तयोरल्पवैषम्यात्तावदेवेति ।
प्रवृत्तिरोचनार्थमनित्यापि नित्येत्युक्तेत्यदोषः ।
अथवा या रज्जुर्मण्डलं करोति सा रज्जुरिति रज्ज्वभिप्रायो ऽपि तच्छब्दः ।
सुन्दरराजीया व्याख्या
(चतुरश्रं मण्डलंअतवदागन्तु)
चतुरश्रमध्ये शङ्कुं निहत्य तस्मिन् रज्जुं प्रतिमुच्य कोट्यामक्ष्णयां निपात्य चिह्नं कृत्वा पार्श्वे कृत्वा पार्श्व च परिकृष्य तस्मिन् चिह्नं कृत्वा चुह्नयोरन्तरालं त्रेधा कृत्वा एकभागसहितेन चतुरश्रार्घेन मण्डलं परिलिखेत्सा रज्जुरनित्या मण्डलं करोति यावद्धीयते कोटिषु तावत्प्रमाणं पार्श्वष्वागच्छति ॥
कपर्दिभाष्यम्
मण्डलं चतुरश्रं चिकीर्षन् विष्कम्भं पञ्चदश भागान् कृत्वा द्वाव् उद्धरेत् । त्रयोदशावशिष्यन्ते । सा नित्या चतुरश्रम्

3.4

मण्डलं चतुरश्रं कर्तुमिच्छन् मण्डलस्य विष्कभ्यं व्यासं पञ्चदशधा विभज्य द्वौ भागौ त्यजेत् ।
त्रयोदशभागाःशिष्यन्ते ।
तैस्त्रयोदशभिर्मिता रज्जुः तावत्क्षेत्रं चतुरश्रं करोति ।
सा चानित्या स्थूलतरा ।
त्रयोदशावशिष्यन्त इति वचनं शुल्बान्तरोक्तादपि मानसं वरमिति ख्यापनार्थम् ।
तीव्रसुतसोमे विनियोगः ।
तत्र प्राच्येकादशिनि मातव्या ।
तत्राङ्गुलेन प्रादेशमात्रं वेदिखण्डमुपादातव्यम् ।
यदि द्वादशाङ्गुला उपरवाः अर्धप्रादेशाङ्कोर्दक्षिणतःषडङ्गुले शङ्कुं निहत्य तावद्वयास चतुस्त्रिंशत्प्रक्रमायामा प्राची वेदिर्मन्तव्या ।
दशानां क्षेत्रम् ।
सूत्रकारोपदेशेन पञ्चशतानि चत्वारिंशदधिकानि अङ्गुलक्षेत्राणि ।
तदर्धाङ्गुलं गृह्यते ।
तेन वेदिच्छेदोर्ऽधमानेषु ।
पूर्वार्धानां वेदिसंस्कारो न क्रियते ।
अतिरिक्तक्षेत्रं निरस्तं भवति ।
वेदेश्र्वावटेषु विच्छित्तिर्भवति--
करविन्दीया व्याख्या
(मण्डलं चतुरश्रं चिकीर्षनचतुरश्रम्)
मण्डलस्य विस्तारप्रमाणं विष्कम्भः ।
तत्पञ्चदशधा विभज्य द्वौ भागावपनयेत् ।
शिष्टास्त्रयोदश भागाश्चतुरश्रस्य करणी भवति ।
अत्रापि सा नित्येत्यादि समानं ।
तावेव चोद्यपरिहारौ ।
सुन्दरराजीया व्याख्या
(मण्डलं चतुरश्रं चिकीर्षनचतुरश्रम्)
त्रयोदश भागाः करणी चतुरश्रस्य अनित्या चतुरश्रं करोति ।
अनयोरनित्यत्वं विज्ञायते गणितविरोधात्परस्परविरोधाच्च ।
तथाहि--सप्तविधस्य सारत्निप्रादेशस्य रथचक्रचितावग्नेः क्षेत्रं लक्षमष्टौ च सहस्राण्यङ्गुलयः, तस्य चतुरश्रीकृतस्य करणी त्रीणि शतान्यष्टाविंशतिश्र्वाङ्गुलयोर्ऽधद्वाविंशाश्र्व तिलाः ।
तस्मिन्नुक्तेन मर्गेण मण्डले कृते त्रीणि शतानि चतुःसप्ततिश्र्वाङ्गुलयो विष्कम्भो भवति ।
तस्य परिणाहःसहस्रं पञ्चसप्ततिशताङ्गुलयः ।
यथाऽहुः--
चतुरधिकं शतमष्टगुणं द्वाषष्टिस्तथा सहस्राणाम् ।
अयुतद्वयविष्कम्भक्यासन्नो वृत्तपरिणाहः ॥
इति ।
अस्य मण्डलस्य फलं लक्षं नवसहस्रमष्टौ शतानि षष्टिश्वाङ्गुलयो टृश्यन्ते उक्तं च --
समपरिणाहस्यार्धं विष्कम्भार्धहतमेव वृत्तफलम् ।
इति ।
एवमग्निक्षेत्रे रथचक्रचिदादौ मण्डले कृते षष्ट्यधिकानि अष्टशतानि सहस्रं चाङ्गुलयो ऽतिरिच्यन्ते ।
तथा च परस्परविरोधः ।
अर्धद्वाविंशतितिलसहिताष्टाविंशतिशतत्रयाङ्गुलकरणीकस्याग्नेर्मण्डलीकृतस्य विष्कम्भः चतुःसप्ततिशतत्रयाङ्गुल उक्तः ।
तस्यैव मण्डलस्योक्तेन मार्गेण चतुरश्रीकरणे त्रीणि भवतीति पूर्वोक्तायाः करण्याःसाष्टादशतिलाश्चतस्रो ऽङ्गुलयो हीयन्ते ।
तस्मात्सूक्ष्ममिच्छता चतुरश्रस्य मण्डलकरणे सूत्रोक्तादतिशयतृतीयभागसहिताद्विष्कम्भार्धादष्टादशशतांशस्त्याज्यः ।
एवं कृते रथचक्रचितौ बिष्कम्भः षट्रतिलोनैकसप्ततिशतत्रयाङ्गुलो भवति ।
परिणाहश् च पञ्चषष्टिशतसहस्राङ्गुलयः ।
तस्य मण्डलस्य समपरिणाहस्येत्यादिना पूर्वोक्तेन आनीतं फलं लक्षमष्टौ सहस्राणि भवन्ति ।
मण्डलस्यापि चतुरश्रकरणे सूत्रोक्ते विष्कम्भे स्वस्मात् त्रिगुणात् त्रयस्त्रिंशच्छतांशं युञ्ज्यात् ।
तत्र श्लोकाः--
चतुरश्रमण्डलकृतौ त्यक्तव्यो ऽष्टादशशताशः ।
सूत्रोक्ताद्व्यासार्धाद्व्यासार्धं मण्डलस्यैतत् ॥1 ॥
चतुरश्रव्यासे वा त्रिंशशतांशं समाभ्यस्य ।
पुनरष्टमं च युञ्ज्याद्विष्कम्भो मण्डलस्यैषः ॥2 ॥
मण्डलचतुरश्रकृतौ विष्कम्भे सूत्रचोदिते युञ्ज्यात् ।
त्रिगुणात्स्वकात्र्रयस्त्रिंशत्सातिशयान्मण्डलस्यैतत् ॥3 ॥
मण्डलविष्कम्भाद्द्वात्रिंशशतांशकं परित्यज्य ।
शिष्टान्नवमं जह्याच्चतुरश्रस्यैष विष्कम्भः ॥4 ॥
एवं कृते हि वह्नावेकशतविधे ऽपि वृत्तविष्कम्भे ।
स तिलद्वितयविशेषो न च भवति परस्परधिरोधः ॥5 ॥
कपर्दिभाष्यम्
प्रमाणेन प्रमाणं विधीयते

3.5

चतुरश्रं प्रमीयते क्षेत्रमनेनेति प्रमाणं प्रक्रमादि ।
यत्र प्रमाणेनैव चोदना तत्र तेनैव चतुरश्रं विधीयत इति प्रत्येतव्यम् ।
पुरुषं दक्षिणे पक्षः इत्यादिषु च संख्या विवक्षिता ।
करविन्दीया व्याख्या
द्विकरणीप्रभृतयः करण्य उक्ताः तासां फलावगमायाह--प्रमाणेनेति ।
(प्रमाणेन प्रमाणं विधीयते)
यत्र प्रमाणेनैकेन विमानं तत्र सर्वतस्तेनैकेन परिमितं चतुरश्रं फलं भवति यथा "पुरुषं दक्षिणे पक्षेऽ इत्यादि,
सुन्दरराजीया व्याख्या
चतुरश्राणां फलक्षेत्रमाह--
(प्रमाणेन प्रमाणं विधीयते)
प्रमाणमात्रेण दण्डेन प्रमाणमात्रं क्षेत्रं विधीयते--क्रियते ।
कपर्दिभाष्यम्
चतुरश्रम् आदेशाद् अन्यत्

3.6

आदिशतीत्यादेशो विधिः ।
विधेरन्यद्धवति--यत्र विधीयते तत्रान्यदपि भवति तेनैव प्रमाणेन गार्हपत्यचित्युपरवादिषु
करविन्दीया व्याख्या
(चतुरश्रमादेशादन्यत्)
आदिशतीत्यादेशः--उपदेशः ।
तेनान्यच्चतुरश्रात् प्रागादिफलत्वमवगम्यते ।
अथवा आदिशतीत्यादेशो--गणितशास्त्रम् ।
ततो विषमादीनां फलमवगन्तव्यमिति ।
उक्तं च तत्र सर्वेषां क्षेत्राणां प्रसार्य पार्श्वफलं तदभ्यासे इति, अस्यार्थः--सर्वेषां विषमक्षेत्राणां पार्श्वे--पार्श्वमानीतिर्यङ्भान्यौ प्रसार्यसंपाद्य ।
तदभ्यासे--तयोरन्यान्यगुणकाले फलमवगन्तव्यमिति ।
त्रिकं द्विधा प्रच्छिद्यान्यतरच्छेदमन्यत्रोपदध्यात् ।
तत्र सा दीर्घा चतुरश्रा ।
"तथायुक्तां संचक्षतेऽ वक्ष्यमाणेन न्यायेन फलावगमः, दीर्घचतुरश्रस्य पार्श्वमानीप्रमाणेन तिर्यङ्भानीप्रमाणमभ्यस्य फलावगमः ।
वृत्तस्य परिणाहार्धेन विष्कम्भार्धमभ्यस्य फलावगमः ।
शरार्धप्रमाणेन धनुरर्धमभ्यस्य धनुषः फलावगम इत्यादि गणितशास्त्रादवगन्तव्यमिति ।
प्रकृतमनुसरामः ॥
सुन्दरराजीया
(चतुरश्रमादेशादन्यत्)
सर्वत्र चतुरश्रमेव क्रियते तद्विधानादेव मण्डलादि ।
कपर्दिभाष्यम्
द्वाभ्यां चत्वारि
द्वाभ्यां प्रक्रमाभ्यां चतुरश्रे कृते चत्वारि पुरुषप्रमाणानि भवन्ति ।
मण्डलानां चतुरश्रकरणमुक्तम् ।
चतुरश्राणां मण्डलकरणमिदं नोक्तं इयत्या रज्ज्वा इयत् क्षेत्रं भवतीति ।
अत इदमुच्यते
त्रिभिर् नव

3.8

त्रिभिः प्रक्रमैः चतुरश्रे कृते नव पुरुषक्षेत्राणि भवन्ति ।
तथा भूमावालिख्य द्रष्टव्यम् ।
करविन्दीया व्याख्या
(द्वाभ्यांअनव)
उपलब्धिः यत्र द्वाभ्यां द्विगुणप्रमाणेन विमानं तत्र सर्वतो द्विप्रमाणे चतुरश्रे द्विप्रमाणपरिमितानि चत्वारि चतुरश्राणि फलं भवति ।
त्रिप्रमाणे चतुरश्रे त्रिप्रमाणपरिमितानि नव चतुरश्राणि फलम् ।
सुन्दरराजीया व्याख्या
(द्वाभ्यांअनव)
द्विप्रमाणेन दण्डेन चत्वारि प्रमाणक्षेत्राणि भवन्ति ।
कपर्दिभाष्यम्
यावत्प्रमाणा रज्जुस् तावतस्तावतो वर्गान् करोति
यावत्प्रमाणा--यावदायामा रज्जुः तावतो वर्गान्करोति--पङ्क्तीः करोति--यावत्संख्यायुक्तं प्रमाणं तावत्संख्यायुक्ताः पङ्क्तीः करोति ।
पञ्चमानां पञ्चसख्यायु क्तान्वर्गान्करोति ।
एवं सर्वत्र योजनीयम् ।
तथोपलब्धिः ।
भूमावालिख्य प्रेक्षिते तथैवोपलभ्यते ।
द्याभ्यां कृते उभयतो लिखैते चत्वारि शृङ्गाणि भवन्ति, पञ्चभिः कृते पञ्चधा, उभयतो लिखिते पञ्चविंशतिशृङ्गाणि भवन्ति ।
एवं सर्वत्र द्रष्टव्यम् ।
करविन्दीया व्याख्या
(यावत्प्रमाणा यथोपलब्धिः)
यावन्ति प्रमाणानि यस्या रज्ज्वाः सा रज्जुस्तावतस्तावतः प्रमाणसंख्यायुक्तान् तावतः--तत्संख्यागुणितान्वर्गान् समचतुरश्रान् करोति ।
"वर्गसमचतुरश्रःऽ इति गणितशास्रेषु व्यवहारः ।
तथा चतुष्प्रमाणा रज्जुश्चतुर्भिर्गुणिताश्चतुरो वर्गान् षोडश करोति ।
पञ्चप्रमाणा पञ्चभिर्गुणितान् पञ्च वर्गान् पञ्चविंशतिं, षट्प्रमाणा एकोनपञ्चाशतं, अष्टप्रमाणा चतुःषष्टिं, नवप्रमाणा एकाशीतिं, दशप्रमाणा शतं, एकादशप्रमाणा एकविंशोत्तरशतं, द्वादशप्रमाणा चतुश्वत्वारिंशच्छतमि त्यादि द्रष्टव्यम् ।
प्रमाणमाह--उपलब्धिस्तथा--तथोपलभ्यते ।
उक्तेष्वर्थेषु प्रत्यक्षं प्रमाणमित्यर्थः ।
तथा द्विप्रमाणं चतुरश्रं द्विधापच्छिद्य चत्वार्युपलभ्यन्ते ।
त्रिपमाणं त्रिधापच्छिद्य नव, चतुष्प्रमाणं चतुर्धापच्छिद्य षोडश, एवं पञ्चप्रमाणादि ष्वपि ।
तथा दीर्घस्याक्ष्णयारज्जुरित्यादिषु तथातथोपलभ्यन्ते ।
द्वाभ्यामेकमभ्यस्य फले द्वे उपलभ्येते ।
त्रिभिर्द्वे अभ्यस्य षट ।
चतुर्भिर्द्वे अभ्यस्याष्टौ ।
तथाहि--द्विप्रमाणपार्श्वमानीकमेकप्रमाणतिर्यङ्भानीयकं द्विधापच्छिद्य द्वे उपलभ्येते ।
द्विप्रमाणपार्श्वमानीकं त्रिप्रमाणतिर्यङ्भानीकं प्रमाग्द्विधोदक त्रिधापच्छिद्य षडुपलभ्यन्ते ।
एवमन्येष्वपि पार्श्वमानीप्रमाणसङ्ख्ययोदगवच्छेदः तिर्यङ्भानीप्रमाणसङ्ख्यया प्रागवच्छेद इति कृत्वा फलावगमः ।
सुन्दरराजीया व्याख्या
(यावत्प्रमाणा तथोपलब्धिः)
चतुर्बिःषोडश पञ्चभिः पञ्चविंशतिरित्यादि ।
अत्र प्रमाणम्----
तथोपलब्धिः ।
कपर्दिभाष्यम्
अध्यर्घपुरुषा रज्जुर्द्वै सवादौ करोति ।
अधि--उपर्यर्धं यस्याःसा अध्यर्धा, तया कृते चतुरश्रे सवादौ द्वौ करोति (1 1ञ्2 न् 1 1ञ्2 उ 9ञ्4 उ 2 1ञ्4)एकस्य वर्गः एकः (12उ1)तस्याग्रतः पार्श्वतश् च द्वावर्धौ ।
पूर्वेण सह द्वौ, अर्धेन यच्चतुरश्रं कृतं, कोट्यां सपादम् ।
तेन पादौ द्वौ करोति ।
एवमेवोत्तरसूत्रं योजयितव्यम् ॥
अर्धतृतीयपुरुषा षट् सपादान्

3.9

अथात्यन्त प्रदेशः
सार्वत्रिको विधिः (5ञ्2 न् 5ञ्2 उ 6 1ञ्4)
यावता यावताधिकेन परिलिखति तत्पार्श्वयोर् उपदधाति । यच् च तेन चतुरश्रं क्रियते तत् कोट्याम्

3.10

अर्धप्रमाणेन पादप्रमाणं विधीयते
यावता थेदेनाधिकेन परिलिकिति तत्पार्श्वयोरग्रतश्वोपदधाति ।
यत्तेन चतुरश्रं क्रियते तत्कोट्यां--एवं विहितेन यच्चतुरश्रं कोट्यां तेनैव सह साख्या बोद्धव्योति ।
मण्डलपूरणे चैकेनै कं भवति ।
अर्धे चार्धमिति कस्यचिभ्द्रान्तिःस्यात् अतस्तं प्रत्याह--
अर्धप्रमाणेन पादप्रमाणं विधीयते ।
प्रमाणस्यार्धप्रमाणेन पादप्रमाणं विधीयते ।
अस्यैव कारणमाह-
अर्धस्य द्विप्रमाणायाः पादपूरणत्वात्
तृतीयेन नवमी कला

मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc