आपस्तम्बशुल्बसूत्र · अध्याय 20
उपदध्यादिति शेषः ।
पुरस्ताच्छिरसि घोणाकारे एका ।
तस्याः पश्चात्तिस्रः ।
अपरेणेति -- कर्णाभरणवत् ।
पादेष्टका एव ।
पूर्वेति -- आत्मनि पक्षाप्यययोः पूरस्तादेकादश अपरेण पक्षाप्ययावेकादश एता एव ।
पूर्वेति -- पूच्छस्याप्ययस्य पुरस्तात् पञ्च पश्चाच्च पञ्च ।
पञ्चदशेति -- पुच्छाग्रे पञ्चदश ।
ता एवैताः षट्पञ्चाशत्पादेष्टकाः ॥
एकोनविंशः खण्डः
करविन्दीया व्याख्या
च वक्रता कार्येत्याह ----
पक्षक -- येत्
प्रथम्यात् सामर्थ्याच्च पक्षेष्टकाकरणीविषयमिदम् लिखया विभक्तस्य पक्षार्धस्य करणी पक्षकरणी ।
सा सपादाङ्गुलोन दशशताङ्गुला ।
तस्याःसप्तमं साष्टादशतिला पञ्चदशाङ्गुला ऋज्ववस्थिता प्रजम्ब्यमानस्य करणस्य यथा तिर्यङ्नानी भवति तथा तत्करणं ऋज्वक्ष्णया प्रजम्भयेत् -- प्रकर्षेण नमयेत् ।
पार्श्वमानी तु प्रज्म्भ्यमाने ऽपि करणे पुरुषचतुर्थमेव ।
प्रजम्भतिरत्रापि मानार्थ एव ।
एतदुक्तं भवति -- करणस्य एकस्यां कोट्यां रज्जुं प्रबध्य तां कोटिमितारां कोटिं प्रति अक्ष्णया बलेन कर्षयेत् ।
यथा आकर्षणे कृते द्वयोः कोट्योः सन्निकर्षेण पार्श्वमान्योरन्तरालमृजुत्वेन पक्ष्करण्याःसप्तमं भवति न न्यूतं नाप्यधिकं तथा प्रजम्भयेत् ।
तिर्यङ्नान्योरन्तरालमृज्ववस्थितमपि पुरुषचतुर्थमेव ।
अनेन तिर्यङ्मान्या ह्रासः क्रियते वक्रत्वाय क्षेत्रसमत्वाय च ।
अथवा साष्टादशतिलं पञ्चदशाङ्गुलं तिर्यङ्मानीं कृत्वा त्रिंशढङ्गुलं पार्श्वमानीं च कृत्वा ताभ्यां चतुर्श्रं विहृत्य तस्याक्ष्णयारज्ज्वा पक्षेष्टकाकरणं प्रजम्भयेत् ।
एतदुक्तं भवति -- उक्तप्रकाराक्ष्णयारज्ज्वधिकां रज्जुंमीत्वा तया पक्षेष्टकाकरणस्यैकां कोटिं बध्वा तां कोटिं अन्या कोटिं प्रत्यक्ष्णया जम्भयेत् -- मनयेत् ।
यथा तयोः कोटयोरन्तरालं एतदक्ष्णयारज्जुःसम्भवति तथा नमयेदित्यर्थः ।
एवं कृते अस्य करणस्यैकाक्ष्णयारज्जुः सार्धद्द्वयङ्गुलेन द्राघीयसी भवति ।
अन्या तेनैव हसीयसी भवति ॥
व्याख्या द्वितीया यैः कैश्विदुक्ता नाञ्जस्यभागिनी ॥
पक्षेष्टकाकरणस्य प्रजम्भनेन नमनविधिमुक्त्वा पक्षमध्यीयापक्षाग्रीयाकरणयोर्नमनसिद् धयर्थं तत्फलकानां नतिरुच्यते -- पक्षनमनी -- यया मात्रया पक्षो नम्यते सा पक्षनमनी ।
सा च पक्षमध्यलेखायाः प्रथमनितोदात् पश्चिममात्रा ।
सा च पञ्चविंशतितिलाधिकपञ्चाशदङ्गुलेत्युक्ता ।
तस्याःसप्तमं सार्धाष्टतिलं सप्ताङ्गुलं ।
तेन फलकानि पक्षमध्यीयापक्षाग्रीयाकरणयोर्दीर्घानि यानि फलकानि तानि नमयेत् -- वकीकुर्यात् ।
अयमर्थः -- यथा मध्ये कृतेन नमनेन पक्ष्मध्यीयांभागद्वयं पक्षकरण्या सप्तमं तिर्यङ्मानी पुरुषचतुर्थं च पार्श्वमानीत्युक्तप्रकारं भवति ।
तथा द्विसप्तफलकयोर्मध्ये सप्तममात्रे पक्षनमन्याःसप्तमेन एकस्मिन् फलके नतिमेकस्मिन्नुदञ्चं कुर्यात् ॥
तत्र श्लोकाः --
पक्षेष्टकायाः करणं तथा रज्ज्वा प्रजम्भयेत् ।
तस्य तिर्यग्यथा पक्षकरण्याःसप्तमं भवेत् ॥
पक्षमध्यीयाकरणे द्राघीयः फलकद्वये ।
नमनीसप्तमेन स्यान्नतिःसप्तममात्रके ॥
पक्षाग्रीयाकरणस्याप्येषैव नमनक्रिया ।
सप्तमेंऽशे नतिस्तस्य भागोने ऽन्यो भवेदृजुः ॥
साष्टादशतिलं तिर्यग्यथा पञ्चदशाङ्गुलम् ।
भागानामिष्टकानां च तथा स्याभमनक्रिया ॥
आद्यश्येने त्वादिमस्य करणस्य प्रजम्भनम् ।
ष
फलं षष्ठः पक्षकरणी षष्ठव्यासो यथा भवेत् ॥
द्वितीयस्य तृतीयस्य प्रषष्ठानां नतेः फलम् ।
व्यासस्य पक्षकरणी षष्ठता नाष्टमे नतिः ॥
आद्यश्येनविषयमिदं श्लोकद्वयम् ॥
पक्षेष्टकाः चतस्रो ऽत्र षट्च पादेष्टका अपि ।
चोडानाकसदामर्धजानोर्दशमकारिताः ॥
उप -- रसि
उपधानकाले चतस्रः पादेष्टकाःशिर (सि) सः पूर्वभागे पुरस्तादुपदध्यात् ।
तासां चतसृणामेका पुरस्तात् बाह्यविशेषात् प्रागग्रा ।
ततः पश्चात्तिस्रः ।
तासु मध्यमा प्रत्यगग्रा ॥
अप -- पञ्च
शिरसो ऽप्ययस्य परतः पञ्च ।
प्रत्यगग्रे द्वे ।
अपुच्छात्पादाप्यये इत्येव ॥
पूर्वे -- दश
अपरेण -- पक्षाप्यययोः पुरतः ।
आत्मनैकादश ।
पञ्च प्रत्यगग्राः ॥
अपश -- श
अपरेण पश्चिमपक्षाप्यययोः पश्चादेकादश ।
ष्ट्प्रत्यगग्राः ॥
पूर्वे -- च
पुच्छाप्ययस्य पुरतः पञ्च ।
तासु प्रत्यगग्राः तिस्रः ॥
अप -- च
पुच्छाप्ययस्य पुरतः पञ्च ।
तासु प्रत्यगग्रे द्वे ॥
पञ्च -- ग्रे
पुच्छाग्रे पञ्चदश उपधेयाः ।
तासु सप्त प्रत्यगग्राः ।
ता एताःषट्पञ्चाशत्पादेष्टकाः ॥
सुन्दरराजीया व्याख्या
पक्ष -- येत्
पक्षकरणी -- पक्षार्धस्य तिर्यङ्मानी पादोननवशताङ्गुला ।
अर्धे तस्य सप्तमं पञ्चदशाङ्गुलं साष्टादशातिलं ।
तस्य करणस्य यथा तिर्यङ्नानी भवति पार्श्वमानी त्रिंशदङ्गुलैव तथाक्ष्णया रज्ज्वा करणं प्रजम्भयेत् -- नमयेत् ।
एकः कर्णः चत्वारिंशदङ्गुलो द्वादशतिलान्वितः ।
अपरः सप्तविंशको विंशतितिलयुक्तः ।
आरत्नि (प्रादेश) रहिते (ष्वे)(त्वे) एकः कर्णः सार्धत्रयोविंशकः ।
अन्यः पञ्चतिलोनस्त्रिचत्वारिंशदङ्गुलः इष्टकाव्यासश् च त्रयोदशाङ्गुलस्त्रयोदशतिलयुक्तः ।
अथ पक्षाग्रीयापक्षमध्ययोर्नमनमाह --
पक्ष येत्
पक्षनमनी -- पुरुषमात्री ।
तस्याः सप्तमेन पक्षाग्रीयापक्षमध्ययोः पक्षेष्टकांशस्य तिर्यक्फलकानि नमयेत् ।
तस्य साष्टादशतिलपञ्चदशाङ्गुलव्यासस्य पक्षेष्टकांशस्य तिर्यक्फलके यथा सपञ्चतिले सप्तदशाङ्गुले भवतः तथा फलकानि तक्षेत् ।
द्वे पक्षेष्टके पार्श्वसंहिते पक्षमध्यीया षडश्रिः पक्षेष्टकामुत्तरपूर्वतीर्घकर्णां भूमौ लिखित्वा तस्या दक्षिणतः त्रिंशदङ्गुलं समचतुरश्रं कृत्वा तस्य दक्षिणपूर्वमर्धं अ (पूर्वम) क्ष्णयाजह्यात् ।
सा पक्षाग्रीया पञ्चकोणा ।
अत्राणूकाः पञ्चदशभागीयानां स्थान इति वक्ष्यमाणत्वात् अणूकसंज्ञे द्वे करणे कार्ये ।
त्रिंशदङ्गुले द्वे स मचतुरश्रे दक्षिणोत्तरे लिखित्वा दक्षिणस्य दक्षिणपूर्वमर्धमक्ष्ण या निरस्येत् ।
उत्तरस्योत्तरापरं ।
एतदेकमणूकं ।
त्रिकोणं द्वितीयं ।
तस्य षष्टयङ्गुलमेकं फलकं ।
अन्ये चतुर्थसविशेषे ॥
अथोपधानं --
अप -- शिरसि
अग्रेणैका ।
तस्याः पश्चात्तिस्रः ।
अप ---- पञ्च
पादेष्टकाः ।
उदीची रीतिः ।
पूर्वे -- एकादश
उदीच्येव रीतिरात्मन्येव ।
अप -- ग्रे
एताः षट्पञ्चाशदप्युदगायताः ॥
एकोनविंशः खण्डः
कपर्दिभाष्यम्
चतस्रश्चतस्रः पक्षाग्रीयाः पक्षाग्रयोः पक्षाप्यययोश् च विशयाः
ता आत्मनि चतसृभिश् चतसृभिः षोडशीभिर् यथायोगं पर्युपदध्यात्
विपर्यस्य कारिता उत्तरे पक्षे ।
चतस्रश्चतस्रो विशयाः ।
पक्षसन्ध्योर्दक्षिणपक्षाप्यये विपर्यस्य कारिता उत्तरे पक्षेष्टका मात्रम् ।
पक्षयोरात्मन्यर्धेष्टकामात्रं ।
ता इति विशयाः प्रत्यवमृश्यन्ते ।
आत्मनि चतसृभिश्चतसृभिःषोडसीभिः विपर्यस्य कारिताः ।
दक्षिणपक्षाप्ययस्था यथा तैरेताभिश्चतसृभिरुपदध्यात् तथा चतसृभिरुत्तरपक्षाप्ययस्थाः ।
प्रतीत्यस्मिन्नर्थे परिशब्दः ॥
चतस्रश्चतस्रः पक्षमध्यीयाः पक्षमध्ययोः
पक्षेष्टकाभिः प्राचीभिः पक्षौ प्रच्छादयेत्
पक्षमध्ये भवा वक्रभूताश्चतस्रो दक्षिणे पक्षमध्ये चतस्र एवोत्तरपक्षमध्ये ।
पक्षेष्टका उक्तलक्षणाः ।
ताभिः प्रागा यताभिः पक्षौ प्राच्छादयेत् ।
पक्षयोरुपदध्यात् ।
विपर्यस्य कारिताश्वत्वारिंशत् ॥
अवशिष्टं षोडशीभिः प्राच्छादयेत्
शिष्ठमग्निक्षेत्रं षोडशीभिः उपदध्यात् ॥
अन्त्या बाह्यविशेषा अन्यत्र शिरसः
अपरस्मिन् प्रस्तारे पुरस्ताच् छिरसि द्वे षोडश्यौ बाह्यविशेषे उपदध्यात्
अन्ते भवा अन्त्याः -- अग्नयन्तस्थाः ।
ता बाह्यविशेषाः बाह्यतःसविशेषाः अन्यत्र शिरसः -- शिरो वर्जियित्वा ।
आत्मनि मध्ये षट् प्राच्यः षट् प्रतीच्यः ।
आत्मनि रीतिद्वयम् ।
अवशिष्टं पुच्छे च ।
तासु यदि षोडशीबिरेवोपधीयन्ते संख्यापूर्यते किं तु बिद्यते ।
चतसृष्वपि रीतिषु भेदो वर्जनीयः ।
तस्मादर्धाश्वोपधेयाः ।
कथमनुच्यमाना उपधीयन्ते नोच्यमानाः? उक्ता एव "यच्चतुरश्रं त्रयश्रि वा सम्पद्येतार्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेत्ऽ इति वदता ।
ननु यद्यर्धाश्वोपधीयन्ते अतिरिच्यते संख्या; नैष दोषः; ऊनाधिकप्रस्तार इत्युक्तं पूर्वस्मिन् पटले ।
पुच्छे रीतिद्वयम् ।
तिस्रस्तिस्रोर्ऽधेष्टका उपधाय षोडश्यः पुनश्वोत्तरे पार्श्वे एकैकोर्ऽधः ।
एवमात्मनि द्वयो रीत्योर्दक्षिणतस्तिस्रोर्ऽधेष्टकाः ।
ततो द्वे षोडश्यौ एकैकोर्धः ।
शिरसि तिर्यग्द्वे षोडश्यौ ।
एवमष्टोत्तरं शतद्वयं ।
अपरस्मिन्निति -- पूर्वभागे द्वे षोडश्यौ बाह्यतःसविशेषे घोणाकारे उपदध्यात् ।
विपर्यस्य कारिता दक्षिणतः ॥
ते ऽपरेण द्वे विशये अभ्यन्तरविशेषे
द्वाभ्याम् अर्धेष्टकाभ्यां यथायोगं पर्युपदध्यात्
ताभ्यां पश्चादात्मनि अर्धेष्टकामात्रं; शेषं शिरसि ।
अभितो युज्यते यथा तथोपदध्यात् ।
चतस्र एता विशयाः ॥
करविन्दीया व्याख्या
चत -- योः
प्रत्येकं चतस्रः ॥
पक्षा -- याः
चकारेण पक्षाग्रीया अनुकृष्यन्ते ।
पक्षाप्यययोः चतस्रश्चतस्रः पक्षाग्रीया विशयाः स्युः ।
ताः सप्तमेन पक्षयोः शेरते ।
अवशिष्टे चतुर्थेनात्मनि ॥
ता आ -- ध्यात्
आत्मनि प्रविष्टपक्षाग्रीयापरितश्चतसृभिः षोडशीभिर्ः यथा युज्यन्ते तथोपदध्यात् ।
पक्षाग्रीयाणां च यथा विशेषाःसहिता भवेयुस्तथोपदध्यादित्यर्थः ॥
चत -- योः
यथायोगमित्येव ।
गतम् ॥
पक्ष -- दयेत्
यथायोगमित्येव ।
चत्वारिंशता चत्वारिंशता पक्षेष्टकाभिः प्रागायताभिः पक्षौ प्रच्छादयेत् ॥
अव -- येत्
अवशिष्टं अनुपहितमग्निक्षेत्रं पुच्छावशिष्टं षोडशीभिः प्रच्छादयेत् ।
पुच्छमध्ये द्वे रीत्यौ ।
पूर्वाश्चतुरिष्टकाः ।
पश्चिमाःषडिष्टकाः ।
द्वे द्वे विशेषसहिते
स्यातां ।
ता एता दश आत्मनि ।
आत्ममध्ये तिस्रो रीतयः ।
प्राच्यश्चतुरष्टका आत्मन्येव ।
पश्चात्पुरस्ताच्चोदीच्यौ द्वे रीत्यौ चतुरिष्टके ।
ता विंशतिः ।
शिरसि द्वे षोडशयौ ॥
अन्त्या -- रसः
अन्ते उपधेया अन्त्याः ।
पुच्छे चतस्रः आत्मनि चतस्र ।
बाह्यविशेषाः -- बहिर्गतविशेषाः ।
न चात्र संख्यापूरणं; संख्याः याःस्थाने द्विशतविनियोगात् ।
तथाहि -- षट्पञ्चाशत् पादेष्टकाः -- अष्टावष्टौ पक्षाग्रीयास्वत्वारिंशच्चत्वारिंशत्पक्षेष्टकाः ।
अष्टौ ।
पक्षमध्यीयाश्वत्वारिंशत् षोडश्यः ।
एवं द्विशतः ॥
अप -- ध्यात्
द्वितीये प्रस्तारे शिरसः पूर्वभागे प्रागग्रे बाह्यविशेषे द्वे षोडश्यौ ॥
ते -- षे
तयोःषोडश्योः पश्चात् प्रागग्रे शिरस्यर्धपादेष्टकामात्रे विशये विशेषेणात्मनि ।
एवं विशये द्वे षोडश्यावन्तर्विशेषे ॥
द्वाभ्यां -- ध्यात्
ते इत्येव ।
ते विशये इष्टके द्वाभ्यामर्धेष्टकाभ्यां विशयाभ्यां यथायोगं परिगृह्णीयात् ।
षोडश्योरर्धेष्टकयोश् च यथा विशेषाःसंहिता भवेयुः तथोपदध्यादित्यर्थः ॥
सुन्दरराजीया व्याख्या
चत -- ग्रयोः
तासामर्धेष्टकामात्राण्यात्मनि ।
ता ध्यात्
दक्षिणाग्राभिः दक्षिणाप्ययस्था उदीचीरितराः ॥
चतस्र -- ध्यीयाः
पक्ष -- दयेत्
अशीत्या प्रागायताभिः ॥
अव -- दयेत्
अणूकाः पञ्चदशभागीयानां स्थान इति वक्ष्यमाणत्वात् अणूकाभिः सह प्रच्छादनभेदपरिहाराय तत्र पुच्छात्मशिरःसु पूर्वनिहिताभिः पादरीतिभिःसह षोडश रीतयः उदीच्यः ।
पुच्छाग्रे पादरीतिरुक्ता ।
द्वितीयस्यां पार्श्वयोरणूके मध्ये चतस्रः षोडश्यः ।
एवं तृतीयाषष्ठीत्रयोदश्यो ऽणूकाभिरेव द्विप्रकाराभिः सन्ध्यन्तराले द्वादश षोडश्यः प्रगायताः शिरसो ऽपरार्धे द्वे षोडश्यौ द्विशतः प्रस्तारः ॥
अन्त्या -- शिरसः
च शब्दो ऽत्राध्याहर्तव्यः ।
द्वाभ्यां विशेषाः ।
अन्तेषु या उपधेयास्ता बाह्यविशेषाः षोडश्यो भवेयुः ।
एतच्चात्मन्येव ।
पक्षयोरशक्यत्वात् पुच्छभेदसम्भवाच्च ।
तस्मादात्मनः श्रोण्यंसेष्वष्टौ षोडशीर्दक्षि (णाग्रा) णा उदगग्राश्चोपदध्यात् ।
एकैकत्र द्वेद्वे ।
अस्मिन् पक्षे यच्चतुरश्रं त्र्यश्रि वेति वक्ष्यमाणाभिः पाद्याभिः संख्यापूरणं ।
तत्र पुच्छाप्ययस्य पुरस्ताद्द्वे अर्धे शिरसो ऽप्ययस्य पश्चाद्द्वे अर्धे ।
तासां मध्ये चतुर्विशतिः पाद्याः ।
पार्श्वयोः षट् षट् षोडश्यः ।
यद्वा एताः पाद्याः षोडशीश्वः षट्त्रिंशतमुद्धृत्य षट्त्रिंशदर् (ध्यार्) धा निधेयाः ।
तत्र दक्षिणपार्श्वस्था प्रागुत्तरविशेषाः विपरीता
उत्तराः ।
पुच्छमध्ये षट् षोडश्यः प्रागायताः ।
ततः पा (तत्प्रा) र्श्वयोस्वतस्रोर्ऽधेष्टकाः ।
शेषं पूर्ववदेव ।
अ(त)त्र आत्मनि प्राच्यः पञ्चरीत्यः उदीच्यो वा अष्टौ ॥
अपर -- दध्यात्
ते प -- शेषे
एते अपि प्रागग्रे ।
द्वाभ्यां -- दध्यात्
तयोः षोडश्योर्मध्ये शिरसो ऽप्यये द्वे अर्धेष्टके इत्यर्थः ।
कपर्दिभाष्यम्
बाह्यविशेषाभ्यां परिगृह्णीयात्
उभयत्र तृतीयापदश्रवणात् विध्यन्तरमेतत् न पूर्वयोर्विशेषणम् ।
चशब्दो ऽध्याहर्तव्यः बाह्यविशेषाभ्यां चेति ।
बाह्यविशेषाभ्यां चार्धेष्टकाभ्यां परिगृह्णीयात् ।
शिरस्यनवकाशादात्मन्येव ।
आत्मनः करणीनां सन्धिषु षोडश्यो बाह्यविशेषा उपदध्यात्
आत्मनः करण्यः, तासां सन्धिषु श्रोण्यंसेषु चतस्रः षोडश्यो बाह्यविशेषाः प्रत्यन्तविशेषाः ॥
चतस्रश् चतस्रो ऽर्धेष्टकाः पक्षाग्रयोः
नखाकारेष्वर्धेष्टकाश्वोपधेयाश्चतस्रश्चतस्रः ॥
पक्षेष्टकाभिर् उदीचीभिः पक्षौ प्रच्छादयेत्
उदगायताभिः पक्षयो रुपदध्यात् ।
षट्पञ्चाशाद्विपर्यस्य कारिताः ।
तिस्रस्तिस्रो ऽर्धेष्टकाः पुच्छपार्श्वयोः
तिस्रस्तिस्रोर्ऽधेष्टकाः पुच्छपार्श्वयोर्बाह्यविशेषाः ॥
अवशिष्टं षोडशीभिः प्रच्छादयेत्
अवशिष्टमग्निक्षेत्रं षोडशीभिः प्रच्छादयेत् ॥
अन्त्या बाह्यविशेषा अन्यत्र पुच्छात्
गतमेतत् ।
पुच्छं वर्जयित्वा ।
करविन्दीया व्याख्या
बाह्य -- यात्
ते इत्येव ।
ते एव षोडश्यौ बाह्यविशेषाभ्यामन्याभ्यामर्धाभ्यां परिगृह्णीयात् ।
एते अर्धे शिरस्यनवकाशादात्मनि भवतः ।
एतदुक्तं भवति -- विशयषोडश्योः पुरस्ताद्विशयभूते बहिर्विशेषे द्वे अर्वे तथाऽत्मनि विशयषोडश्योर्दक्षिणत उत्तरतश् च वहिर्विशेषे अन्ये अर्धे इति ॥
आत्म -- ध्यात्
आत्मनः करण्य आत्मकरण्यः ।
तासां सन्धिषु श्रोण्यंसेषु षोडश्यः चतस्रः ।
सर्वत्र छान्दसो विभक्तिव्यत्ययः ।
आत्मनि पक्षाप्यययोःसमीपेषु बाह्यविशेषाश्चतस्रः षोडशीरुपदध्यात् ।
अन्त्या बाह्यविशेषा इति वक्ष्यमाणे ऽपि बाह्यविशेषग्रहणं संख्यापूरणाय ।
पादानां चार्धानां च उपधानार्थं षोडशीनामुद्ध्वरणे प्रसक्ते आसाणुद्धरणं मा भूदित्येवमर्थम् ॥
चत -- योः
प्रतिपक्षं चतस्रोर्ऽधेष्टकाः बाह्यविशेषा इत्येव ॥
पक्षे -- दयेत्
पक्षयोरुदीच्यः पक्षेषटकाः सप्त रीतयः ॥
तिस्रर् -- श्वयोः
बाह्यविशेषा एव ॥
अव -- येत्
अवशिष्टमात्मनि त्रयस्त्रिंशत् षोडशीस्थानं पुच्छद्वादशषोडशीस्थानम् ॥
अन्त्य -- च्छात्
अन्त्याःसर्वा बाह्यविशेषा भवेयुः पुच्छादन्यत्र ।
पुच्छे त्वन्त्याःषोडश्यो ऽभ्यन्तरविशेषा एव ।
सुन्दरराजीया व्याख्या
बाह्य -- गृह्णीयात्
ते षोडश्यौ बाह्यविशेषाभ्यां द्वाभ्यामर्धेष्टकाभ्यां दक्षिणत उत्तरतश्वात्मनि परिगृह्णीयात् ॥
आत्म -- दध्यात्
अष्टाश्रेरात्मनो ऽष्टौ करण्यः ।
तत्र दक्षिणोत्तरपार्श्वकरण्योः श्रोण्यंसकरणीभिः सह चत्वारः सन्धयः ।
तत्र श्रोणिसन्ध्योर्द्वे प्रत्यगग्रे षोडश्यौ ।
अंससन्ध्योर्द्वे प्रागग्रे ।
एवं चतस्रः षोडश्यः ।
ये तु चत्वारः पूर्वापर (कोट्योः) करण्योःसन्धयः तत्र पूर्वयोस्तावद्बाह्यविशेषाभ्यां परिगृह्णीयादित्यर्धेष्टके उक्ते ।
अपरयोरपि पूर्वसादृश्यार्थं भेदपरिहारार्थं चाध्यर्धे एवोपधेये ।
चतस्र -- योः
पक्षे -- दयेत्
एकैकं षट्पञ्चाशता ।
तिस्र -- योः
बाह्यविशेषाः ।
कपर्दिभाष्यम्
यच् चतुरश्रं त्र्यश्रं वा संपद्येतार्धेष्टकाभिः पादेष्टकाभिर् वा प्रच्छादयेत्
सर्वत्र षोडश्य एव शेरते ।
यदि तथा क्षिप्येरन् भिद्येत सर्वत्र ।
अतो भेदपरिहाराय यत्ने क्रियमाणे त्रिकोणं चतुरश्रं वा प्रकारद्वयं सम्पद्यते ।
पूर्वस्मिन् प्रस्तारे चतरश्रं सम्पद्यते त्रिकोणं च ।
इह त्रिकोणमेव ।
तत्र अर्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेत् उपदध्यात् ।
पुच्छाप्यये चतस्रः षोडश्यो विशयाः ।
प्राच्यौ द्वे प्रतीच्यौ द्वे ।
तासां पश्चात् दश षोडश्यः ।
तिर्यक्पुच्छे ऽपि ।
विशयामानभितो द्वावर्धौ द्वावात्मि ।
तासां पुरस्ताच्चतस्रः षोडश्यः प्राच्यश्चतुर्थ्यः प्रत्यर्पिताः ।
तासां पुरस्ताद्विपर्यस्ताः षडुत्तरे पार्श्वे ।
तासां पुरस्ताच्चतस्रोर्ऽधेष्टकाः ।
तासां पुरस्ताच्चतस्रः षोडश्यः प्रतीच्यस्ताभिः प्रत्यर्पिताः ।
तासां पुरस्ताद् द्वे षोडश्यौ नानाग्रे प्राच्यौ ।
तयोर्मध्ये द्वावर्धौ ।
आत्मन्यर्धपादेष्टकामात्री ।
आत्मनि द्वावर्धौ विशयावभितः ।
अर्धषोडश्यौ सहितौ ।
एवं द्वादशोनं शतद्वयम् ।
इह केचिद्दीर्घायुषःसूत्रमेतदनादृत्य स्वमनीषिकया करणान्तरमुत्पाद्य संख्यापूरणमेव कुर्वन्ति ।
किं नाम तेषामशक्यम्? वयं तु सूत्रकारमतानुसारेणोक्तं गृह्णीमः ।
करविन्दीया व्याख्या
एवं क्षेत्रपूरणं कृत्वा प्रकृतितः प्राप्तं संख्यापूरणं एवं कर्तव्यमित्याह----
यच्च ---- दयेत्
एवं षोडशीभिः प्रच्छाद्यमाने सङ्ख्यापूरणाय कासुचिदुद्धृतासु च यत् क्षेत्रं चतुरश्रं त्र्यश्रि वा सम्भवेत् तत् क्षेत्रमर्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेत् -- ताभिःसंख्यां पूरयेदित्यर्थः ननु प्रच्छादयेदिति वचनेन सङ्ख्यापूरणं कथम्? उच्यते ।
तत्तदग्नौ प्रच्छादनविध्यनन्तरं सङ्ख्यां पूरयोदिति विधानात् ।
इह च षोडशीभिः प्रच्छादिते सङ्ख्याया असमाप्तेस्तत्पूरणापेक्षया द्वितीयप्रच्छादनवचनं सङ्ख्यापूरणार्थमेवेति गम्यते ।
किञ्च द्विविधः प्राकृतो ऽग्ननिः समचतुरश्रमात्रेष्टका असमचतु; रश्रमात्रेष्टकाश् च ।
प्रथमे चतुरश्राग्नौ पञ्चदशभागीयाभिरर्धेष्टका ।
भिश् च सङ्ख्या पूरिता ।
द्वितीये पादेष्टकाणूकाषड्बागीयाभिश् च पूरिता ।
तदिहापे पादा अर्धा अणूकाश् च विहि ।
तासासन्ति ।
तस्मात् पादेष्टकाभिरर्धेष्टकाभिश् च सङ्ख्चा पूरिताद्वितीये षोडशीभिश् च यथा योगं सङ्ख्यापूरणं युक्तमिति गम्यते ।
किञ्च सङ्ख्यापूरणस्य न्याय्यत्वे सति अत्रोपदिष्टेष्टकाभ्यो ऽन्याभिःसङ्ख्यापूरणस्याशक्यत्वात् पादाभिरर्धाभिश् च सुकरत्वात् ताभिरेव सङ्ख्यापूरणं युक्ततरम् ।
अतः प्रच्छादितासु काश्चिदुद्धृत्य पादार्धषोडशीभैर्यथायोगं यावत्सङ्ख्यमुपधेया इति ॥
सुन्दरराजीया व्याख्या
अव दयेत्
यच्चतुरश्रं त्रयश्रि वेति पाद्यार्धाभिः सङ्ख्यापूरणं, तत्रर्(ध्यार्) धाभिः पूरणपक्षे आत्मनि प्राच्यः षड्रीतयः ।
तत्र दक्षिणोत्तरयोर्मध्ये षट् षडर्(ध्यार्)धाः ।
द्वितीयस्यां पश्चात्पुरस्ताच्च द्वे अर्धे उक्ते ।
तयोः समीपे द्वे षोडश्यौ प्रागायते ।
तयोर्मध्ये ऽष्टावर्धेष्टकाः ।
एवमेव पञ्चमी रीतिः ।
प्रागायताभिः द्वादशभिः षोडशीभिर्मध्यरीती द्वे ।
पुच्छाप्यये द्वे षोडश्यौ ।
प्रत्यगग्रपुच्छं पञ्चदशाङ्गुलेन पूर्वाच्चतस्रः षोडश्यः उदगायताः ।
पुच्छाग्रे दक्षिणतोर्ऽधेष्टका पूर्वमुक्ता ।
तस्या उदक् षोडश्युदगग्रा तस्या उदग्द्वे अर्धे ततो द्वे षोडश्यौ ततो द्वे अर्(ध्येर्)धे ततः षोडशी ।
ततोर्(ध्यार्)धा पूर्वमुक्ता ।
एवं द्विशतः प्रस्तारः ।
पाद्याभिः पूरणपक्षे आत्मनि दक्षिणपार्श्वे द्वादशार्ध्या उद्धृत्य वा अष्टौ चतस्रः षोडश्यो निधेयाः ।
एवमुत्तरपार्श्वे ऽपि ।
अस्मिन्नपि प्रस्तारे प्रकारान्तरमाह ----
अन्त्य -- च्छात्
अत्रापि वाशब्दो ऽध्याहार्यः ।
यथा पूर्वस्मिन् प्रस्तारे अन्त्या बाह्यविशेषा इति षोडश्यो विहिताः तथात्रापि श्रोण्यंसेषु द्वे द्वे षोडश्यौ प्रागग्रे प्रत्यगग्रे चेत्यष्टौ निधेयाः ।
एतदप्यशक्यत्वात्पक्षयोर्न भवति ।
अस्मिन् पक्षे शिरो ऽप्यये अर्धेनोपधेये ।
पुच्छाप्यये ऽप्यर्धे द्वे उपधेये ।
पार्श्वस्थाश्चतस्रो रीतयोर्धे ऽष्टकाभिःपूरणीयाः ।
मध्यमरीत्योः षोडशषोडश्यः पुच्छाग्रमध्ये षट् षोडश्यः ।
ततः पूर्वस्यां मध्ये द्वे षोडश्यौ ।
शेषेर्ऽध्याः ।
ततः पूर्वस्यां मध्ये द्वे प्राच्यौ षोडश्यौ ।
शेषं पूर्ववदेव ।
एष द्विशतः ।
पाद्याभिः पूरणपक्षे ऽपि पूर्ववत्सर्वत्राविशेषात् पादायाभिः सम्भवे ऽपि विपरीतविशेषा उपधेयाः ।
केचित्तु अन्त्या बाह्यविशेषा इति पूर्वमुक्तम् ।
तयोरेव प्रस्तारयोः शेषमाहुः ।
तदनुपपन्नं, अन्त्यानां षोडशीनां अनियतविशेषाणामभावात् ।
उभयस्मिन् प्रस्तारे प्राहुः अन्त्या इति न केवलं षोडश्य एव गृह्यन्ते ।
अपितु याः काश्वान्त्या उपधेयाः ताश् च बाह्यविशेषाः कार्या इति ।
तेषां शिरसि द्वे षोडश्यौ बाह्यविशेषे बाह्यविशेषाभ्यां परिगृह्णीयात् ।
आत्मकरणीनां सन्धिषु षोडश्यो बाह्यविशेषा इति बाह्यविशेष शब्दकं अनर्थकं स्यात् ।
अन्यत्र शिरसो ऽन्यत्र पुच्छादिति च विरुध्येते ।
शिरसि पाद्यानां पुच्छपार्श्वयोरर्ध्यार्(धा)नां च बाह्यविशेषाणामेवेष्टत्वात् ॥
यच्चतु -- येत्
प्रस्तारद्वयसाधारणमिदम् ।
षोडशीभिः पूरयितुमशक्योपि यावद्द्विशतपूर्ति अर्धाः पाद्या उपधेयाः ।
तत्रार्ध्यारहिताभिः पाद्याभिः सङ्ख्यां पूरयितुमशक्यत्वात् ।
तस्मादर्ध्याभिः संमिश्राभिर्वा पाद्याभिः पूरणम् ।
तत्प्रकारश् च पूर्वमेकोक्तः ॥
कपर्दिभाष्यम्
अणूकाः पञ्चदशभागीयानां स्थाने
व्यत्यासं चिनुयाद् यावतः प्रस्तारांश् चिकीर्षेत्
मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0