आपस्तम्बशुल्बसूत्र · अध्याय 19
आत्मपक्षसन्धौ पुरुषमात्रं वेणुं नियम्य लेखायामेव पुरुषस्यान्ते वेणोरन्ते लक्षणं कुर्यात् ।
तस्मान्नितोदात्पागायतं प्राचीनं वेणुं लेखायामेव निधायान्त्ये छिद्रे शङ्कुं लक्षणं वा निहत्य नितोदयोरन्तौ नाना आलिखेत् ।
अपरस्मान्नितोदादा रभ्यापरान्तमालिखेत् ।
पूर्वस्मान्नितोदाच्चारभ्य पूर्वान्तमिति ।
तत्पक्षनमनं पक्षस्य वक्रता ।
एतेनेति उत्तरपक्षनमनमप्येवं कुर्यात् ॥
अष्टादशः खण्डः
द्विपुरुषं पस्चादर्धपुरुषं पुरस्ताच् चतुर्भागोनः पुरुष आयामो ऽष्टादशकरण्यो पार्श्वयोस् ताः पञ्चदशपरिगृह्णन्ति । तत् पुच्छम्
पश्चात्तिर्यङ्भानी द्विपुरुषा ।
पुरस्तादर्धपुरुषा ।
पादोनपुरुषायामा ।
पार्श्वयोरष्टादशषोडशीः करोति ।
अष्टादशकरणी सा पार्श्वयोः ।
ता एताः पञ्चदशषोडशीः परिगृह्रन्ति ।
कथमर्धपुरुषव्यासा पादोनपुरुषायामा षट्करोति? तस्याभियो द्वे चतुरश्रे समे सर्वतः पादोनपुरुषमात्रे ।
तावक्ष्णया लिखेत् ।
एकैकमर्धं त्यजेत् ।
शिष्टं प्रत्येकमर्धपञ्चमं करोति ।
अर्धपञ्चमं अर्धपञ्चमं नव ।
नवसु षट्सु क्षिप्तेषु पञ्चदश ।
तत्पुच्छम् ॥
करविन्दीया व्याख्या
श्येना -- यते
द्वितीयश्येनमुपदेष्टुं सैव श्रुतिः पुनरपि पठिता ।
तत्र विशेषमाह ------
पुरुषस्य --त् तरे
षोडशीः -- षोडशभागपरिमिताः ।
ताभिः षोडशीबिः ।
सारत्निप्रादेशःसप्तविधो ऽग्निर्विंशतिशतं संपद्यते ।
तथाहि -- सप्त स्थापयित्वा षोडशीबिर्गुणिते द्वादशोत्तरं शतं भवति ।
अर्धे षोडशीभिर्गुणिते अष्टौ ।
तेष्वष्टसु क्षिप्तेषु विंशत्युत्तरं शतं षोडश्यो भवन्ति ।
तासां चत्वारिंशदात्मनि चत्वारिंशत् षोडशिनीक्षेत्राण्यात्मेत्यर्थः ।
तिस्राःशिरसि षोडश्यःस्युः ।
पञ्चदश पुच्छे ।
पञ्चदशषोडश्यः पुच्छक्षेत्रम् ।
एकत्रिंशद्दक्षिणे पक्षे ।
तथोत्तरे पक्षे ।
एकात्रिंशत् षोडशीक्षेत्रं दक्षिणः पक्ष उत्तरश् च ।
एवं विभज्य विमानमाह ----
अध्य -- त्मा
अनुपृष्ठयं चत्वारिंशद्द्वे शते चाङ्गुलय आयामः ।
विस्तारो ऽशीतिशतमङ्गुल्यस्तिर्यक् ।
एवं दीर्घं चतुरश्रं विहृत्य श्रोण्यंसेष्वर्धपुरुषप्रमाणानि चत्वारि चतुरश्राणि कृत्वा तान्यात्मपार्श्वमानीनिष्ठकोणतः तिर्यङ्भानीनिष्ठकोणं प्रत्यक्ष्णयालिखेत् ।
लेखानां बहिर्भूतास्त्यजेत् ।
चत्वारिंशदवशिष्यन्ते ।
स आत्मा भवति ।
कथम्? आयामतो ऽष्टौ षोडश्यः ।
तिर्यक् षट् ।
अष्टौ षड्गुणिता अष्टाचत्वारिंशत् ।
तत्र श्रोण्यंसेभ्यो द्वेद्वे निरस्याष्टौ निरस्ता
भवन्ति ।
शिष्टचाश्वत्वारिंशदात्मनि भवन्ति ॥
शिरस्य -- च्छिरः
शिरः प्रदेशे आत्मनोंऽसयोः पुरतः पृष्ठयायामर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्याः इत्यादिकृते तिस्रः परिशिष्यन्ते ।
तच्छिरो भवति ॥
पुरु --त् तरः
पुरुषमात्रं तिर्यगायामः ।
द्विपुरुषमात्रमर्धाष्टमाङ्गुलयश् च ।
एवं दक्षिणे पक्षे दीर्घचतुरश्रं कृत्वा ।
तथोत्तरे ऽपि ॥
पक्षाग्रे -- न्ते
पक्ष्स्याग्रे पुरुषचतुर्थेन त्रिंशदङ्गुलेन चत्वारि चतुरश्राणि कृत्वा तानि प्रत्येकं दक्षिणाप्रत्यग्व्यवलिख्य पूर्वाण्यर्धानि निरस्येत् ।
एवमेकत्रिंशत् षोडश्यः परिशिष्यन्ते ।
स दक्षिणः पक्षः ।
कथं? पक्षे द्वात्रिंशत्षोडश्यः ।
षोडशो भागश्वैकः ।
तास्त्रयस्त्रिंशत् ।
ताभ्यां चतुर्ष्वर्धेषु निरस्तेषु एकत्रिंशत्परिशिष्यन्ते ।
एवमेवोत्तरः पक्षः ।
तत्र चतुरक्षाण्युत्तराप्रत्यागक्ष्णयाविलिख्य पूर्वार्धानि निरस्येत् ॥
पक्षाग्र -- मनम्
पक्षाग्रमुत्सृज्य त्रिंशदङ्गुलमपहाय मध्ये पक्षस्य प्राचीं लेखामालिखेत् ।
पक्षाग्रे उत्सृष्टे शेषः पक्षः अर्धतृतीयाङ्गुलोनविंशत्यधिकशतद्वयाङ्गुलम् ।
तस्य मध्ये सपादाङ्गुलोनदशाधिकशताङ्गुलेन पश्चादारभ्य प्रगायतां लेखां पक्षमतीत्यालिखेत् ।
पश्चिमे पक्षाप्यये पुरुषमात्रं वेणुं निधाय नियम्यापरं वेणोरन्तरं दक्षिणाप्राक् लेखायां निपातयेत् ।
स पश्चिम पक्षान्तात् प्राक्पञ्चाशदङ्गुले पञ्चविंशतितिलाधिके निपतति ।
तत्र नितोदं--बिन्दुं कुर्यात् ।
तस्माच्च प्राचीनलेखायामेव पुरुषमात्रे द्वितीयं नितोदं कुर्यात ।
नितोदयोः नानान्तावालिखेत् ।
नितोदयोरारभ्य पक्षान्तावभि नानापृथक् आलिखेत् ।
पश्चिमान्नितोदादारभ्य पश्चिमपक्षाग्रं पक्षाप्ययं च प्रत्यगालिखेत् ।
तत्पक्षनमनं -- तदेतत्पक्षस्य नमनं भवति ।
पूर्वस्मन्नितोदादारभ्य पूर्वं पक्षाग्रं पक्षाप्ययं च प्रत्यगलिखेत् ।
तत् पक्षनमनं -- पक्षस्य नमनं भवति ।
एते -- तः
ऋजुः ॥
द्विपु -- च्छम्
पुच्छस्याग्रं द्विपुरुषप्रमाणम् ।
तस्य मूलमर्धपुरुषप्रमाणं ।
आयामश्चतुर्भागोनः पुरुषः ।
अष्टादशकरण्यौ पार्श्वयोः ।
अष्टादश करोतीत्यष्टादशकरणी ।
षोडशीनां प्रकृतत्वात्तासां अष्टादशानां करणी ।
ते खलु त्रिषोडशीप्रमाणनवत्यङ्गुलसमचतुरश्रस्याक्ष्णयाभूते ।
तथाहि -- पुच्छमूलाद्दक्षिणतः उत्तरतश् च पार्श्वमानी तिर्यङ्भानी चतुर्भागोनपुरुषप्रमाणोपेता ।
त्रिभिर्नवेति नवषोडशीक्षेत्रस्याक्ष्णयारज्जुभूते ।
अत्र चतुरश्रस्याक्ष्णयारज्जुः द्विस्तावतीं भूमिं करोतीति ते ऽष्टादशकरण्यौ षोडशीनाम् ।
ता एताश्चतस्रः करण्यः ।
द्विषोडशिकाष्टषोडशिके तिर्यङ्भान्यावष्टा दशकरण्यौ पार्श्वमान्यौ पञ्चदश षोडशीः परिगटह्णन्ति ।
कथम्? अर्धपुरुषव्यासा पादोनपुरुषायामा षट्करोति ।
तस्याभितो द्वे चतुरश्रे समे सर्वतः पादोनपुरुषमात्रे ।
तावक्ष्णया लिखेत् ।
शिष्टं प्रत्येकमर्धपञ्चमं करोति ।
अर्धपञ्चममर्धपञ्चमं च नव ।
नवसु षट्सु क्षिप्तेषु पञ्चदश ।
तत्पुच्छं -- पुच्छंसंज्ञं भवति ।
करणान्युच्यन्ते ॥
सुन्दरराजीया व्याख्या
अथोक्तमेव श्येनचितं प्रकारान्तरेण व्याख्यातुं ब्राह्नणं पुनरुपन्यस्यति------
श्येन -- यते
पुरुषस्य -- द्यते
षोडश्यः -- षोडशांशाः ।
ताश्चतुर्भागीया इष्टकाः विंशत्यधिकं शतं ।
"शदन्तविंशतेश्वेतिऽ डः ।
सारत्निप्रादेशः सप्तविधोग्निः पुरुषक्षेत्रस्य षोडशीभिर्विंशत्यधिकं शतं सम्पद्यते ॥
तासां -- त्मनि
आत्मनि चत्वारिंशत् षोडश्यो भवन्ति ॥
तिस्रः --त् तरे
अथात्मनो विमान आह --
अध्यर्धात्मा
षोडशीनां निरस्नप्रकारो ऽप्ययान प्रति श्रोण्यंसानित्युक्तो वेदितव्यः ।
शिर त्तरः
षोडशभागोर्ऽधाष्टमा अङ्गुलयः ।
अरत्निप्रादेशरहितप्रकृतिके तु पूर्ववत् पक्षायामस्य त्रिंशदङ्गुलहानिर्द्रष्टव्या ।
द्विपुरुषायामे द्वात्रिंशत् षोडश्यः ।
षोडशभागेन चैका ।
एवं त्रयस्त्रिंशत् ।
ततः--
पक्षा -- ष्यन्ये
दक्षिणेषां दक्षिणपूर्वाष्यर्धानि निरस्येत् ।
उत्तरेषामुत्तरपूर्वाणि ।
पक्षा नमनं पक्षाङ्ग्र त्रिंशदङ्गुलं चतुरश्रकृतमुत्सृज्य शिरसि पक्षस्य सार्धसप्तदशद्विशताङ्गुलस्य मध्ये लेखां कृत्वा पक्षाप्ययस्यापरान्ते पुरुषमात्रं वेणुं नियम्य तस्यां लेखायां निपातयेत् ।
सा यत्र निपतति लेखायां तत्र नितोदं कुर्यात् ।
शङ्कुं निहन्यात् तत्र पुरुषं नियभ्य ततः पुरस्तात्पुरुषान्ते नितोदं कृत्वा तदनुगुणं पूर्वापरावन्तावालिखेत् ।
पूर्वश्येने द्विपुरुषां रज्जुमित्युक्तमेव संनमनमत्र प्रकारान्तरेणोक्तमनुसन्धातव्यम् ॥
एते -- ख्यातः
द्विपु -- पुच्छं अष्टादशानां षोडशीनां करण्यो नव तिलयुक्ते सप्तविंशतिशताङ्गुले पार्श्वयोरक्ष्णयारूपे भवतः ।
पुच्छात्मशिरसां षोडशी संख्या भूमौ लिखित्वा द्रष्टव्या ॥
कपर्दिभाष्यम्
षोडशीं चतुर्भिः परिगृह्णीयात्
पुरुषस्य षोडशभागे या तिष्टति सा षोडशी ।
तां चतुर्भिः फलैकः वक्ष्यमाणैः परिगृह्णीयात् -- कारयेदिति यावत् ।
अष्टमेन त्रिभिर् अष्टमैश् चतुर्थेन चतुर्थसविशेषेणेति
अर्धेष्टकां त्रिभिर् द्वाभ्यां चतुर्थाभ्यां चतुर्थसविशेषेणेति
पादेष्टकां त्रिभिश् चतुर्थेनैकं चतुर्थसविशेषार्धाभ्यां चेति
पक्षेष्टकां चतुर्भिर् द्वाभ्यां चतुर्थाभ्यां द्विसप्तमाभ्यां चेति
पक्षमध्यीयां चतुर्भिर् द्वाभ्यां चतुर्थाभ्यां द्विसप्तमाभ्यां चेति
पक्षाग्रीयां त्रिभिश् चतुर्थेनैकं चतुर्थसप्तमाभ्याम् एकं चतुर्थसविशेषसप्तमाभ्यां चेति
पुरुषस्याष्टमेन पञ्चदशाङ्गुलेन ।
त्रिभिरष्टमैः -- तेनैव त्रिगुणितेन पञ्चचत्वारिंशदङ्गुलेन ।
चतुर्थसविशेषेण -- चतुर्भागसविशेषेण ।
"प्रमाणं तृतीयेन वर्धयेत्ऽ इत्यादिना वर्धितेन द्विचत्वारिंशदङ्गुलेन चतुर्दशतिलयुक्तेन ।
एवमेतैश्चतुर्भिः कारिता षोडशी ।
अर्धेष्टकां त्रिभिः परिगृह्णीयादिति सर्वत्र शेषः ॥
द्वाभ्यमिति -- त्रिंशदङ्गुलाभ्यां ।
सविशेषेणोक्तप्रमाणेन ।
एतैस्त्रिभिः कारयेत् ।
पादेति -- गतमेतत् ।
चतुरिति -- चतुर्थेनैकं ।
चतुर्थस्य सविशेषः
चतुर्थसविशेषः ।
तस्यार्धाभ्याम् ।
पक्षेति पक्षार्थमिष्टका -- पक्षेष्टका ।
तां चतुर्भिः परिगृह्णीयात् ।
द्वाभ्यां चेति -- द्वाभ्यां चतुर्थाभ्यां पुरुषसप्तमाभ्यां ।
अस्य नमनमुपरिष्टाद्वक्ष्यते ।
पक्षमध्य -- गतं चतुर्थाभ्यां द्विसप्तमाभ्यां वक्रभूताभ्यामित्येतैश्चतुर्भिः पक्षमध्यीयां करोति ।
पक्षेति -- गतम् ।
चतुर्थेनेति -- पुरुषचतुर्थेनैकं चतुर्थसप्तमाभ्यां वक्रभूताभ्यामेकं चतुर्थसविशेषसप्तमाभ्यामेव ॥
करविन्दीया व्याख्या
षोड -- णेति
पुरुषस्य षोडशभागे या तिष्ठाति सा षोडशी ।
तां चतुर्भिः चतुष्प्रकारैः फलकैःषोडशीं परिगृह्णीयात् -- सम्पादयेत् ।
अष्टमेन -- प्रकृतत्वात् पुरूषस्य ।
पञ्चदशाङ्गुलेनेति यावत् ।
त्रिभिरष्टमैः पञ्चचत्वारिंशदङ्गुलैः ।
चतुर्थेन त्रिंशदङ्गुलेन ।
चतुर्थसविशेषेण द्विचत्वारिंशदङ्गुलेन सार्धचतुर्दशतिलाधिकेन अक्ष्णयावस्थितेन ।
इतिशब्दश्वार्थे ।
एतेनचैतेन चेति -- अष्टमी त्रिरष्टम्यौ पार्श्वमान्यौ ।
चतुर्थतत्सविशेषौ तिर्यङ्भान्यौ ।
चतुर्थस्यैव सविसेषप्राप्तयर्थं चतुर्थशब्दः ॥
एवमेतैश्चतुर्भि.ः फलकैः षोडशीं कारयेत् ॥
अर्धे -- चेति
परिगृह्णीयादिति शेषः ।
अर्धेष्टकां त्रिभिः फलकैः परिगृह्णीयात् ।
त्रिंशदङ्गुलाभ्यां द्विचत्वारिंशदङ्गुलेन सचतुर्दशतिलेन च त्रिभिः फलकैः ॥
पादे -- चेति
एकविंशत्यङ्गुलाभ्यां ससप्ततिलाभ्यां त्रिंशदङ्गुलेन चैकेन चेति त्रिभिः ॥
पक्षा -- ति
त्रिंशदङ्गुलाभ्यां सप्तदशाङ्गुलाभ्यां पञ्चतिलाधिकाभ्यां चेति ।
पक्षेष्टकां द्वाभ्यां चतुर्थाभ्यां समाभ्यां च कारयेत् ।
अस्य च नमनमुपरिष्टाद्वक्ष्यति ॥
पक्ष -- ति
पक्षमध्यमयोग्या पक्षमध्यीया ।
तां त्रिंशदङ्गुलाभ्यां चतु स्त्रिंशदङ्गुलभ्यां द्विसप्तदशाह्गुलाभ्यां दशतिलाधिकाभ्यां चेति चतुर्भिः ॥
पक्षा -- ति
पक्षाग्रयोग्या पक्षाग्रीया ।
तां त्रिंशदङ्गुलेनैकं पञ्चतिलाधिकसप्तचत्वारिंशदङ्गुलेनैकं तथैकोनविंशतितिलाधिकेन एकोनषष्टयङ्गुलेनैकमिति त्रिभिः फलकैः परिगृह्णीयात् ।
एवं षट् करणान्युक्तानि ।
पक्षेष्टकाः पक्षमध्यीयाः पक्षाग्रीया इति त्रयाणां तत्र तत्रोपधाने योग्यत्वाय क्षेत्रसमत्वाय
सुन्दरराजीया व्याख्या
अथकरणानि--
षोडशीं -- णेति
पूर्वश्येनचतुर्थ्येषा ।
एतां चतुर्भिः फलकैः परिगृह्णीयात् ।
तत्राष्टमेन त्रिभिरष्टमैरिति पार्श्वफलके ।
उत्तरे तिर्यक्फलके ।
सविशेषं चतुर्थं चतुर्थस्य द्विकरणी चतुर्दश तिलाः द्विचत्वारिंशदङ्गुलाः ।
अर्धे णेति
पादे चेति
पूर्वश्येननमन्येषा ।
चतुर्थे त्रिंशदङ्गुले पार्श्वफलके ।
सप्तमे सपञ्व्रतिलसप्तदशाङ्गुले तिर्यक्फलके ।
पक्षमध्यी चेति
द्वे पक्षेष्टके ।
समस्ते एषा ।
पूवश्येने द्वितीयावद्रूपं ।
पक्षा चेति
पक्षेष्टका -- अर्धेष्टका ।
समस्ते एका ।
कपर्दिभाष्यम्
पक्षकरण्याःसप्तमं तिर्यङ्मानी । पुरुषचतुर्थं च पार्श्वमानी । तस्याक्ष्णया रज्ज्वा करणं प्रजृम्भयेत्
दीर्घीकुर्यात् ।
अनयेति करणी ।
पक्षकरणी -- पक्षस्य करणी पक्षकरणी इष्टका ।
तस्या उक्तं करणं पुरुषसप्तमं तिर्यङ्भानी पुरुषचतुर्थी पार्श्वमानीति ।
पक्षेष्टकां चतुर्भिरिति ।
तमेव दीर्घीभूतं करणं प्रजम्भयेत् -- दीर्घीकुर्यात् ।
कथमेकया क्ष्णया रज्ज्वायतया दीर्घीकुर्यात्करणम्?
पक्षनमन्याः सप्तमेन फलकानि नमयेत्
पक्षनमनीति नितोदलेखामूलयोरन्तरालम् ।
तत्सप्तधा विभज्य एकेन भागेन ।
किमुक्तं भवति? यावत्प्रजम्भितेन तस्याःसप्तमी तिर्यग्भवति तावत्प्रजम्भयोदिति ।
एवं यथा भवति तथा फलकानि नमयेत् ।
नतं नमनं कुर्यात् ।
पक्षनमनी सा पक्षाग्राणामप्येवमेव ।
तत्र श्लोकः ----
तिलैःषोडशभिर्न्यूनं तिर्यक्स्यात्षोडशाङ्गुलम् ।
तथा तथा चतुर्भ्यां च सप्तमाभ्यां च नामयेत् ॥
उपधाने चतस्रः पादेष्टकाः पुरस्ताच् छिरसि । अपरेण शिरसो ऽप्ययं पञ्च । पूर्वेण पक्षाप्ययाव् एकादश । अपरेणैकादश पूर्वेण पुच्छाप्ययं पञ्चापरेण पञ्च पञ्चदश पुच्छाग्रे
मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0