भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बशुल्बसूत्र · अध्याय 21

21.1

स्थानशब्दः प्रयोगवाची ।
अणूकाश्चतुर्भागीयाः सङ्ख्यापूरणे चोदिताः पञ्चदशभागीयाश् च सङ्घयापूरणे चोदिता इती यावत् ।
अस्मिन् प्रस्तारे सङ्ख्या न पूरिता सूत्रकारेण ।
तत्र ताभिःसङ्ख्या पूरयितव्या यदि ताभिः पूर्यते ।
अस्मिन्नगौ तावता न शक्यते अणूकाभिःसङ्ख्या पूरणम् ।
शक्यते तु प्रकृतौ ।
तस्मात्प्रकृत्यर्थौ योगः ।
तत्र शक्यते द्वितीये प्रस्तारे ताभिः पूरयितुम् ।
तत्र द्विशतपूरणमवश्यं कर्तव्यम् ।
प्रतिप्रस्तारं पूरयेदिति वचनात् ।
इह तु सहस्रसंख्यैव पूरयितव्या इत्युक्तं पूर्वस्मिन् पटले ।
तस्मात्प्रकृतो योगः ।
तत्र श्लोकाः ----
पक्षेष्टकानां करणं विपर्यस्यार्धविष्यते ।
पक्षाग्रीयास्तथैवार्धं विपर्यस्यैव कारयेत् ॥
विपर्यश्चैव कर्तव्याःषोडश्यः षोडशीद्वयम् ।
साहस्रे ऽथ द्विषाहस्रे पञ्चषष्टिं विदुर्बुधाः ॥
उपधाने यथासूत्रं यथा वात्मनि पक्षयोः ।
पुच्छे शिरसि शिष्टे च षोडशीनां विदुर्बुधाः ॥
षट्प्राच्यः षट्प्रीच्यश् च आत्मनि द्वादश क्षिपेत् ।
शीर्ष्णि द्वयं क्षिपेत्तिर्यगुक्ता एव चतुर्दश ॥
शिष्टं रीतिद्वयं पुच्छे तथा चात्मन्यपि द्वयम् ।
षोडशार्धेष्टकास्तास्तु क्षिपेच्च त्रिषु रीतिषु ॥
एकैकमुत्तरे पार्श्वे तिस्रस्तिस्रस्तु दक्षिणे ।
शिष्टे तिर्यग्दशैव स्यादष्टोत्तरशतद्वयम् ॥
पुच्छाप्यये तु विशयाश्चतस्रःषोडशीः क्षिपेत् ।
षोडश्यावप्यये प्राच्यौ ते चाग्रे शिरसि क्षिपेत् ॥
मध्ये तयोश् च द्वावर्धौ चतस्रो विशयाः क्षिपेत् ।
आत्मनःशेषे द्वावर्धौ षोडश्यौ शिरसि क्षिपेत् ॥
अन्यत्सर्ंव यथासूत्रं द्वादशोनं शतद्वयम् ।
आत्मनो दक्षिणे पार्श्वे चतस्रो दक्षिणायताः ॥
द्वितीये चोत्तरे पार्श्वे षड् द्वे श्रोण्यंसयोरपि ।
शिरसश्वाप्यये चैका शिरस्यपि च दक्षिणा ॥
एता निधेयाःषोडश्यो विपर्यस्तास्तरे द्वये ।
करनिन्दीया व्याख्या
अणू -- ने
परिभाषेयम् ।
पञ्चदशभागीयाः प्रथमचतुरश्रे उक्ताः ।
तासां स्थाने कार्यसंख्यापूरणे अणूका भवेयुः ।
तस्याः परिभाषाया अत्रोपदेशः कथम्? इहोपदिष्टाः षोडश्यो ऽपि क्षेत्रसाम्यादणूकाशब्देन ग्राह्या भवेयुः इत्येवमर्थम् ।
तेन अणूकाभिश्चतुरश्रे ऽग्नौ संख्यापूरणम् ।
इह तु षोडशीभिश्वोति सिद्धम् ।
केचिद्यच्चतुरश्रं त्र्यश्रि वा सम्पद्यते इत्येतदपि परिभाषामिच्छन्ति ।
तेन तत्रतत्राग्नौ तदपेक्ष्या ताभिरपि संख्यापूरणं मन्यन्ते ।
अत्र पुनः प्रच्छादयेदिति वचनं प्रच्छादने ऽपि चैता यथा भवेयुरित्येवमर्थम् ।
तेन तत्रतत्राग्नौ सति सम्भवे सत्यां चापेक्षायां ताभिःसहौभिरपि प्रच्छादनं स्यात् ।
उपधानक्रमः द्वितीयचित्यां शिरसि प्राङ्भुखे बाह्यविशेषे द्वे षोडश्यौ उपदध्यात् ।
तयोः पश्चात् प्राङ्भुखे बाह्यविशेषे विशये द्वे अर्धे ।
तयोः पश्चात्तद्विशेषश्लिष्टविशेषे द्वे षोडश्यौ विशये आत्मनि ।
तयोर्दक्षिणस्या दक्षिणतो बाह्यविशेषमेकमर्धम् ।
उत्तरस्या उत्तरतश् च बाह्यविशेषमेकमर्धम् ।
तयोर्दक्षिणत उत्तरतश् च बाह्यविशेषेणैकैकमर्धम् ।
ततः पश्चादात्मनि प्राच्यःषड्रीतयः ।
तत्र दक्षिणस्यां रीत्यां पुरस्तात् बाह्यविशेषा प्रागग्रैका षोड्शी ।
पस्वाच्च बाह्यविशेषा प्रत्यगग्रैका ।
तयोर्मध्ये षडर्धेष्टकाः ।
तासां तिस्रः प्रतीच्यस्तिस्र उदीच्यः ।
द्वितीयस्यां रीत्यां पश्चात् बाह्यविशेषेण दक्षिणामुखे द्वे अर्धे ।
तत्पुरस्तादर्धविशेषयुक्तविशेषात् प्रत्यङ्भुखैका षोडशी ।
तस्या ।
पुरस्तात् षडर्धाः ।
तासां तिस्रस्तिस्रः प्राच्य प्रतीच्यश् च ।
तत्पुरस्तातुत्तरतो विशेषा प्रागग्रैका षोडशी ।
तत्पुरस्तात्तद्विशेषश्लिष्टविशेषमेकमर्धम् ।
तत्पुरस्तात् पूर्वोपहितमर्धमस्त्येवेति द्वादशेष्टका एषा ।
तृतीयस्यां रीत्यां शिरो ऽप्ययषोडश्याः पश्चादारभ्य आपुच्छाप्ययमष्टौ षोडश्य उपधेयाः ।
तासां चतस्रः प्राच्यश्चतस्रः प्रतीच्यः ।
एवमेवोत्तरास्तिस्रो रीतयः ।
तत्र तृतीयावच्चतुर्थी ।
द्वितीयावत्पञ्चमी ।
प्रथमावत् षष्ठी ।
तत्र तिसृणां दक्षिणरीतीनां दक्षिणं पार्श्वमुत्तररीतीनामुत्तरं पार्श्वम् ।
दक्षिणानामुत्तराणं च दक्षिणा पार्श्वरीतिद्वयगता ।
अत्र प्रतीच्यो मुकुलात्मकाः ।
तत्प्रतीपमुकाः प्राच्यः ।
एवं शोभां वितन्वते ।
पुच्छे मध्यमरीत्यन्तयोर्विशयषोडस्योर्दाक्षिणत उत्तरतश् च द्वे अर्धे बाह्यविशेषे ।
ततः पश्चान्मध्ये द्वे षोडश्यौ ।
ते अभित(स्तितस्र)स्तिस्रो ऽर्धेष्टका इत्यष्टेष्टकाः ।
ततः पुच्छाग्रे षड्भिः षोडशीभिरभितोर्ऽधाभिरष्टेष्टकाः ।
पक्षाग्रयोश्चतस्रश्चतस्रोर्ऽधेष्टकाः ।
पक्षद्वये पक्षेष्टकाःसप्त रीतयः ।
ता द्वादशशतमिष्टकाः ।
पादेष्टकाभिश् च पूरणपक्षे एता एव रीतयः ।
तत्र विशेषः पुच्छगतोपान्तरीत्यां बाह्यास्वतस्रोर्ऽधेष्टका द्विधा कुर्यात् ।
आत्मनि प्रथमद्वितीयपञ्चमषष्ठेषु तन्मध्यगतार्धेषु पश्चिमतो द्वे द्वे अर्धे ।
अवशिष्टान्येष्वर्धस्थानेषु षोडशीयुग्मान्युपदध्यात् ।
द्वितीयापञ्चम्योश्वार्धा द्विधा भिद्यात् ।
ननु भेदो वर्जनीय इति तत्रतत्राग्नौ यत्नेन परिहृतः ।
स इदानीं पुच्छे प्रादुर्बुभूषति? नैतत्सारम् ।
नियतलोकानामिष्टकानामसंबाधेन समुदिताभिरिष्टकाबिःसङ्ख्यायां पूरितायां यदीष्टकैकदेशे भेद उपजायते स भेदो मर्षणीय एव, अवर्जनीयत्वादेकदेशभेदस्य ।
अत एव भेदवर्जनं स्वकण्ठेनोक्तमाचार्येण द्विशत एष इति ॥
व्यात्यार् -- षेत्
गतम् ॥
सुन्दरराजीया व्याख्या
अणू अने
प्रकृतौ चतुरश्राग्नौ पञ्चदशभागीयानां कार्यं भेदपरिहारेण संख्यापूरणम् ।
इह तु तत्कार्ये अणूका उपधेयाः ।
तत्र समचतुरश्राणामणूकानामुपधाने द्विशतः कर्तुं न शक्यते ।
तस्मादणूकक्षेत्राणां ग्रहणम् ।
तत्रापि षोडश्यो न गृह्यन्ते ।
अवशिष्टं षोडशीभिरित्येव सिद्धत्वात् भेदसम्भवाच्च ।
तस्माद (न्या ) णूकक्षेत्रादि (द्वि) प्रकारा इष्टकाः कर्तव्याः ।
दर्शिते च तासां करणे (पूर्वमेव) ।
आचार्येण तु करणे नोपदिष्टे ।
अन्त्या बाह्यविशेषा इत्यस्मिन् पक्षे अणूकानामनुपयोगात् ।
उक्तश्वोपधानप्रकारः ।
अणूकाभिर्विनैव तस्मिन् पक्षे प्रथम एव प्रस्तारे अणूकानामुपयोगः कर्तव्यः ॥
कपर्दिभाष्यम्
कङ्कचिद् अलजचिद् इति श्येनचिता व्याख्यातौ

21.2

कङ्कः पक्षिविशेषः अलजश् च ।
कङ्क इव चेतव्यः कङ्कचित् ।
अलज इव चेतव्यो ऽलजचित् ।
तौ श्येनचिता व्याख्यातौ -- पूर्वेणैव श्येनेन व्याख्यातौ ।
मुख्यत्वाद्द्विशतप्रस्तारत्वाच्च तस्यैवाकृतिः तान्येव करणानि स एवोपधानमार्गः ।
सङ्कल्प एव भेदः श्येनो ऽलजः कङ्क इति ॥
एवमि व हि श्येनस्य वर्षीयांसौ पक्षौ पुच्छाद् वक्रौ संनतं पुच्छं दीर्घ आत्मा मण्डलं शिरश् च । तस्माच् छ्रुतिसामर्थ्यात्
हिशब्दः प्रसिद्धौ ।
श्येनो ऽप्येवमेव ।
वर्षीयांसौ -- बृहन्तौ ।
पक्षौ ।
कस्मात् पुच्छाद्दीर्घौ? न केवलं बृलन्तौ किं तु तौ वक्रौ ।
सन्नतं सम्यङ्नतं आत्मसमीपे ऽल्पीयः अग्रे श्येने पृथु उच्यते तत्सन्नतमिति ।
दीर्घ आत्मा नं समचतुरश्रः न मण्डलः नापि दीर्घचतुरश्रः ।
अमण्डलमिवादीर्घचतुरश्रभूतं शिरः ।
एवम्प्रकारो लोके श्येनः ।
एवमेव कङ्कालजो लोके ।
तस्मात्तदाकारावेव कङ्कालजौ तेनैव व्याख्यातौ ।
श्रुतिसामर्थ्यात् ।
सामर्थ्यमभिधानशक्तिः ।
एतावदेव श्रुत्याभिधीयते ।
अशक्यत्वात्सर्वसाम्या (संपा) पादनस्य ।
न ह्यशङ्कनीयमर्थं वेदो विदधाति ॥
अशिरस्को वानाम्नानात्

21.3

वाशब्दः पक्षव्यावृत्तौ ।
अशिरस्क एव चेतव्यः ।
कुत इत्याह -- आनाम्नानात् ।
न हि शिर आम्नायते ।
तस्य कथमनाम्नानमित्यत्राह ----
ज्ञायते च । कङ्कचितं शीर्षण्वन्तं चिन्वीत यः कामयेत सशीर्षो ऽमुष्मिंल् लोके संभवेयम् इति विद्यमाने कथं ब्रूयात्

21.4

यदि शिरस आम्नानमस्ति शीर्षण्वन्तं चिन्वीतेति कथं ब्रूयादेवेत्यर्थः ।
यदि शिरस आम्नानं नास्ति तदा युज्यत एवैतद्विशेषणम् ।
इतरथा विशेषणमनर्थकमेव स्यात् ।
तस्मादशिरस्क एव चेतव्यः ।
चद्यशिरस्कः किमाकारःस इत्याह--
प्राकृतौ वक्रौ पक्षौ संनतं पुच्छं विकारश्रवणात्
प्रकृत्यां भवौ प्राकृतौ ।
तावेव पक्षौ वक्रीकर्तव्यौ ।
कुतः? विकारश्रवणात् ।
सन्नतं पुच्छं -- पुच्छं च सन्नतं कर्तव्यम् ।
वक्तपक्षो व्यस्तपुच्छ इति विकारःश्रूयते ।
पक्षपुच्छानां च वक्तता व्यस्तता च प्रकृतौ नास्ति ।
तस्माद्विकारत्वं पक्षपुच्छानाम् ॥
यथाप्रकृत्य् आत्माविकारात्

21.5

यथाप्रकृत्यात्मा ।
कुतः? अविकारात् ।
नहि तत्र विकारःश्रूयते ।
तस्मात्प्रङ्कृतिवदेवात्मा चतुःपुरुषःसमचतुरश्रश् च ।
अरत्निनार्ऽधप्रादेशेन वा पक्षौ विवधेयेत् ।
द्विपुरुषां रज्जुमित्यादिश्येनवत् ।
ननु प्रकृतावरत्निना वर्धयेदित्युक्तम् ।
किमिदमुच्यते अरत्निनार्ऽधप्रादेशेन वेति? अरत्निनेत्यर्धविकारत्वप्रतिपादनपरं, न पक्षपुच्छानां तावन्मात्रमायाममापादयितुम् ।
आत्मनश्चतुर्थं चतुर्भागीयाश्वाष्टौ इत्युपधातव्यमिति
श्येनप्रतिपादितं न कर्तव्यम् ।
यथाप्रकृत्येवात्मा कर्तव्यः ।
किं च प्राकृतं पुच्छमिति वचनाच्च उपधानविधिश् च न घटते ।
श्येन इव चेतव्य इत्येवं क्रियमाणे प्रथमद्वितीयानामेव विकारो नेतरेषाम् ।
इतरथा चतुर्थादयो ऽपि विकृता भवेयुः ।
तथाभूताश् च कर्तव्या भवेयुः ।
तस्माच्च करणानुप्रवेशेन चेतव्य इत्युक्तम् ।
श्येनवदेव पुच्छम् ।
करणान्युच्यन्ते -- चतुर्थषष्ठाभ्यां यथायोगनतं तत्प्रथमम् ।
द्वे पूर्ववत्संहिते द्वितीयमित्यादि ।
अथोपधानविधिः -- अष्टाचत्वारिंशत्प्रथमा उदीचीः पक्षयोः ।
श्येनवत्पुच्छम् ।
आत्मनःश्रोण्योस्तिस्रस्तिस्रः पञ्चम्य उदीच्यः ।
ततःसप्तसु रीतिषु षट्पञ्चाशच्चतुर्थ्यः दक्षिणायता उदगायताश् च ।
तासां पुरस्तादष्टौ पञ्चम्यः उदगायताः ।
श्रोण्योश्चतस्रः पञ्चम्य अक्ष्णया भिन्द्यात् ।
अष्टौ षष्ठयःसम्पद्यन्ते ।
एष द्विशतः प्रस्तारः ।
अपरस्मिन् प्रस्तारे चतस्रश्चतस्रो द्वितीया निर्णामयोरप्यययोश् च विशयास्तृतीयाः ।
चतस्रश्चतस्रः पूर्ववदष्टभागावेताः ।
पक्षेष्टकाभिः पक्षौ प्रच्छादयेत् ।
तद्द्वासप्ततिः पुच्छे श्येनवत् ।
सप्ताष्टमाभिःश्रोण्यंसेषु द्वे द्वे पञ्चम्यौ प्राचीः प्रतीचीश् च ।
प्राच्यः सप्त रीतयः ।
चतुर्मिस्तृतीयापञ्चम्यो रीत्योर्मध्ये त्रिंशत् षष्ठयः एका च पञ्चमी ।
एकत्र षोडशापरत्र चतुर्दश ।
एवं द्विशतः प्रस्तारः ।
अथवा स एवानुपुच्छमर्धपुरुषव्यासं सप्रादेशं पुरुषं प्रतीचीनमायच्छेत् ।
तस्य दक्षिणतो ऽन्यमित्यादिना श्येनवत्पुच्छं कुर्यात् ।
पक्षौ प्राकृतौ द्विपुरुषायामौ ।
करणानि वक्ष्यामः -- द्वादशाङ्गुला यथा भवति तता तिर्यक् चतुर्थषष्ठाभ्यां नमयेत् ।
प्रथमं ते एव संहिते यथा तिष्ठतः तथा कारयेत् ।
द्वितीयं तृतीयमपि यत् षड्भागेनाष्टमभागेन वा वर्धयेदिति त एव वा पुच्छे चतुर्थं त्रयस्त्रिंशदङ्गुलविस्तारं पञ्चचत्वारिंशदङ्गुलायामं चतुर्दशतिलैरूनं सविशेषं पञ्चमं अर्धसप्ताङ्गुलव्यासं षट्पार्श्वं एकोनत्रिंशदायामं तु षट्त्रिंशदङ्गुलं चतुर्दशतिलैःसह पुच्छाप्यये विशययोः अष्टादशाङ्गुलं पुच्छे पञ्चदशाङ्कुमेव ।
आत्मानि चतुर्थादयो वैकृताः ।
पुच्छे तु प्राकृता एव ।
आत्मन्युपधानविधिःस एव ।
तत्र श्लोकाः ----
अर्न्ध त्रयोदशं व्यासमशिरस्के हविर्भुजि ।
तथा चतुर्थषष्ठाभ्यां नमयेत्प्रथमं तु तत् ॥
ते द्वे तु संहिते प्राची द्वितीयं करणं भवेत् ।
तृतीयमपि षड्भागमष्टभागेन वर्धितम् ॥
पक्षेष्टकाश्चतुर्थाःस्युः पुच्छं पुच्छवदुच्यते ।
षट्पञ्चाशच्चतुर्थ्यःस्युस्तिर्यग्दक्षोद गायताः ॥
अष्टौ पुरस्तात्तिर्यक्च श्रोण्योः षट्पञ्चमीः क्षिपेत् ।
श्रोण्याश्चतस्रः पञ्चम्यो भेदवद्द्विशतस्तथा ॥
श्येनवत्पक्षपुच्छेषु निधायात्मन्यपि क्षिपेत् ।
प्राच्यां चैव प्रतीच्यां च त्रिंशदेका च पञ्चमी ॥
तासामेवोत्तरे पार्श्वे चतुर्थ्यः षोडशद्वयम् ।
प्राच्यश्वैव प्रतीच्यश् च तथा षोडश दक्षिणे ॥
प्राचीश्वैव प्रतीचीश् च शिष्टे पञ्चमीं क्षिपेत् ।
करणस्य विपर्यासं चतुर्थस्यैव नेष्यते ॥
सप्रादेशे ऽपि वा पुच्छे विस्तारो द्वादशं भवेत् ।
तथा चतुर्थषष्ठाभ्यां नमयेत्प्रथमं तु तत् ॥
ते द्वे तु संहिते प्राची द्वितीयं करणं हि तत् ।
तृतीयमपि षड्भागमष्टभागेन वर्धितम् ॥
द्वाविंशतिर्द्विगुणितं तिलानां चापि विंशतिः ।
सविशेषश्चतुर्थस्य तिर्यक्सत्यधिकं भवेत् ॥
पञ्चमं प्राकृतं विद्यात् षष्ठस्य विकृतास्त्रयः ।
षष्ठस्य पार्श्वं त्र्यधिकं कर्णः षट्त्रिंशदष्टभिः ॥
सप्तमाष्टमयोः पार्श्वमूनत्रिंशमिहेष्यते ।
आयामश्वापि षट्त्रिंशच्चतुर्दशतिलैःसह ॥
चतुर्थाद्यास्तु विकृताः पुच्छे चैवात्मनि क्षिपेत् ।
अष्टादशाङ्गुलं पुच्छे शययोरन्यदात्मनि ॥
करविन्दीया व्याख्या
कङ्क -- तौ
कङ्कालजौ पक्षिविशेषौ ।
कङ्कवच्चीयते अलजवच्चीयत् इति कङ्कचिदलजचितौ श्येनचिता व्याख्यातौ ।
तयोर्विमानेष्टकाकरणोपधानानि श्येनस्येव कार्याणीत्यर्थः ।
मुख्यत्वात् पूर्वश्येनेनेति केचित् ।
आनन्तर्याद्द्वितीयश्येनेनेत्यन्ये ।
अविशेषादुभाभ्यामित्यपरे ।
उक्तं श्येनस्वरूपमनुभाषते अत्रैव शिरसो भावप्रतिपादनार्थम् ॥
एव र्-- थ्यात्
एवमिवहीति गतम् ।
श्येनस्य वर्षीयांसौ दीर्घतरौ पुच्छाद्वक्रौ पक्षौ सन्नतं पुच्छं आत्मसमीपे ह्रसीय अग्रे व्यस्तं दीर्घ आत्मा न समचतुरश्रः अमण्डलः न मण्डलाकारः ---- ईषन्मण्डलः ।
न वा शिरश् च विद्यते ।
तच्चापि न मण्डलं नापि समचतुरश्रम् ।
एवमिव श्येनो लोके दृश्यते ।
एतावदेव श्येनसादृश्यमग्नेः ।
कुतः? श्रुतिसामर्थ्यात् -- सामर्थ्यमभिधानशक्तिः ।
एतावदेव श्येनश्रुत्या विधीयते ।
यदेतद्वक्रपक्षता व्यस्तपुच्छता दीर्घात्मतामण्डलता सशिरस्कता च ।
तस्मात् कङ्कालजावपि तदाकारौ चेतव्यावित्यर्थः ॥
अशिर -- नात्
अशिरस्को वा श्येनः अनाम्नानात् ।
नहि पक्षपुच्छात्मगतवक्रतादिवच्छिरस आम्नानमस्ति ।
श्येनविधानसामर्थ्याच्छिरसो विधानमस्तीति गम्यत इति केचित् ।
वयसां वा एष प्रतिमया चीयत इति प्रकृतावपि पक्षादिवत् शिरोविधानं प्रसज्येत् ।
नैष दोषः ।
तत्र हि पक्षपच्छविधानं परिसंख्यानार्थम् ।
तर्ह्यत्रापि तच्चोदकागतमेवेति तस्मात् सशिरस्कःश्येनः ।
किञ्च विज्ञायते च कङ्कचितं शीर्षण्वन्तं चिन्वीतेति ।
यदि चोदकप्राप्तया कङ्के शिरो विद्यते तत्कथं ब्रूयात् ब्राह्यणं कङ्कचितं शीर्षण्वन्तं चिन्वीतेति? न ब्रूयादेवेत्यर्थः ।
तस्मादशिरस्कः श्येनः ।
कङ्के शिरोविधानात् ।
तथा ते वयोमात्रसादृश्ये प्रकृते प्राप्ते श्येनप्राप्तिविधानसामर्थ्यादेव श्येने शिरो ऽप्यस्तीति गम्यते ।
"त्रिवृत्ते अग्ने शिरःऽ इत्यादिना शिरस्युपधानदर्घनाच्च ।
अतस्तयोर्विकल्प इति मन्वानः वाशब्दं ब्रूते ।
तत्र कङ्कःश्येनो ऽलज इति सङ्कलपमात्रभेदः नाकारे ।
दाक्षायणयज्ञादिवत् अशिरस्कःश्येन इत्युच्यते ॥
प्राकृ ---- रात्
प्रकृतिवदेव पक्षौ वक्रौ पुच्छात् सन्नतं वक्रपक्षो व्यस्तपुच्छ इति विकारश्रवणात् ।
आत्मा तु यथा प्रकृत्या ।
यद्वा यथाप्रकृतिरविकृतः समचतुरश्रः चतुष्पुरुष इत्यर्थः ।
अविकारात् -- न हि विकारः श्रूयते ।
पक्षपुच्छेषु विकारग्रहणं नात्मनि ।
तस्मात् प्राकृत एवात्मा ।
अरत्निनार्धप्रादेशेन च एकैकं पक्षं प्रवर्धयेत् ।
यद्यपि प्राकृतौ पक्षावित्युक्तं तथापि पुच्छस्याप्राकृतत्वश्रणादुक्तप्रकारा पुरुषमात्रता गम्यते ।

तस्मात्पुच्छे प्रादेशमुपधाय पक्षयोर्विभजेदिति केचिन्मन्यन्ते ।
केचित्पक्षयोः प्रकृतित्वविधानादात्मनो ऽविकारत्वाच्च पुच्छं सप्रादेशं मन्यन्ते ।
उभयस्मिन् पक्षे ऽप्युक्तप्रकारेणाभ्युन्नेया इत्याचार्यो मन्यते ।
अत्र पुच्छस्याप्रकृतित्वपक्षे प्रथमद्वितीयकरणानां विकारः ।
इतरथा तेषामपि करणान्युच्यन्ते ।
चतुर्थषष्ठाभ्यां प्रथमं करणं यथार्धत्रयोदशव्यासं भवति तथा प्रजम्भयेत् ।
ते द्वे प्राची संहिते ।
तद्दितीयं प्रथमस्य षड्भागमङ्गुलं तृतीयम् ।
उपधानमुच्यते ---- दक्षिणे पक्षे अष्टाचत्वारिंशत्प्रथमा
उदीचीस्तथोत्तरे दक्षिणाः ।
पुच्छे ऽशिरस्कपक्षोक्तमेव ।
त्रिंशदात्मनि ।
श्रोण्योस्तिस्रास्तिस्रः पञ्चम्य उदगायताः दक्षिणायताश् च ।
तासां पुरस्ताचतुर्(थार्)थीनामर्धेष्टकाः सप्त रीतयः ।
ताः षट्पञ्चाशत् ।
तासां पुरस्तादष्टौ पञ्चम्यः ।
श्रोण्यंसेषु चतस्रः ।
पञ्चमीरक्ष्णयाभिन्द्यात् ।
द्विशत एष प्रस्तारः ।
द्वितीयप्रस्तारे चतस्रश्चतस्रो द्वितीयाश्चतस्रश्चतस्र आत्मानमष्टभागावेताः ।
पक्षेष्टकाभिः प्राचीभिः पक्षौ प्रच्छादयेत् ।
एकैकस्मिन् पक्षे षट्त्रिंशत् ।
पुच्छे तु पूर्ववद्द्वादश सप्तम्यस्त्रयोदशाष्टम्यश् च ।
श्रोण्यंसेषु द्वे द्वे पञ्चम्यौ प्राच्यौ ।
आत्मशेषे चतुर्थीना मष्टेष्टकाः प्राच्यःसप्त रीतयः ।
तृतीयपञ्चमरीत्योर्मध्ये चतस्रश्चतुर्थीरुद्धृत्य त्रिंशतं षष्टिमेकां पञ्चमीमुपदध्यात् ।
तासामेकत्र षोडश षष्टिरिति ।
तत्र चतुर्दश एकत्र पञ्चमी ।
एष द्विशतः प्रस्तारः ।
सप्रदेशपक्षे पुच्छे पुरुषव्यासं प्रादेशपुरुषं प्रतीचीनमायच्छेत् ।
तस्य दक्षिणतो ऽन्यमुत्तरतश्वेत्यादिना पुच्छं कुर्यात् ।
पक्षौ प्रकृतावेव ।
करणविशेषो यथा तिर्यगृजुत्वेन द्वादशाङ्गुलं भवति तथा प्रथमं करणं प्रजम्भयेत् ।
ते द्वे प्राजीत्यादिना द्वितीयम् ।
तृतीयस्यापि षड्बागमष्टभागेन वर्धितम् ।
चतुर्थादीनि द्विविधानि -- पुच्छचतुर्थे त्रयस्त्रिंशदह्गुलविस्तारं ।
तस्य सविशेषः चतुश्वत्वारिंशदङ्गुलयः विंशति तिलाधिकाः ।
पञ्चममर्धसप्तदशङ्गुलव्यासम् ।
षष्ठस्य पार्श्वं त्रयस्त्रिंशदङ्गुलकम् ।
ताःषट्त्रिंशदङ्गुलयः ।
साष्टमयोःस एव व्यासः ।
पार्श्वमान्यावक्ष्णयावस्थिते एकोनत्रिंशदङ्गुले ।
आयामःषट्त्रिंशदङ्गुलयः चतुर्दश तिलाश् च ।
पुच्छाप्ययविशययोरष्टादशाङ्गुलम् ।
पुच्छे पञ्चदशाङ्गुलमात्मतिलचतुर्थ्यादयो विकृताः पुच्छ उपधेयाः ।
प्राकृत एवात्मनि उपधानविधिः ।
स एष द्वितीयश्येनः ।
विकृते तत्रोक्तकरणान्येवमुन्नीय कृत्वा चेतव्यम् ॥
सुन्दरराजीया व्याख्या
व्यत्या -- चिकीर्षेत्
कङ्क -- ख्यातौ
"कङ्कचितं शीर्षण्वन्तं चिन्वीत यः कामयेत शीर्षण्वानमुष्मिन् लोके स्यामितिऽ ।
अलजचितं चिन्वीत चतुःसीतं प्रतिष्ठाकामऽ इति श्रुतावग्नी श्येनचिता पूर्वेणोत्तरेण वा व्याख्यातौ ।
अथोक्तस्यैव श्येनचितः प्रकारान्तरं विधित्सन् उक्तौ तावत्प्रकारौ युक्ततराविति दर्शयितुमाह --
एवमिव ---- मर्थ्यात्
यथास्माभिरुक्तं एवमिव हि पततः श्येनस्य पक्षौ पुच्छाद्वर्षीयांसौ वक्रौ च मध्यतः पुच्छं च सन्नतमप्ययप्रदेशे आत्मा च आमण्डलः ईषन्मण्डलरूपः शिरश्वैवं भवति ।
तस्मात्---- तच्छब्दश्रुतेः यच्छब्दाध्याहारः कार्यः ।
यस्मादर्थे वा हिशब्दः ।
यस्मादेवंरूपः श्येनस्य पक्षपुच्छादिः प्रत्यक्षेण दृश्यते तत्मात् श्येनचितं चिन्वीतेति श्रुतिसामर्थ्यादेवंरूपपक्षपुच्छात्मशिरस्कः श्येनचिदित्युक्त इत्यर्थः ॥
अशि ------ म्नामात्
अशिरस्को वा श्येनचिद्भवितुमर्हति ।
अनाम्नानात्; न(हि)च श्येनचित्प्रकरणे शिर आम्नायते ।
आत्मनो ऽप्यविकारस्यैतदुपलक्षणम् ।
अशिरस्क (त्वे) कल्पे प्रमाणान्तरमस्तीत्याह----
विज्ञा -- ब्रूयात्
यदि श्येनाकृतिविधानमात्रेणैव सशिरस्कत्वं भवेत् ।
तर्हि कङ्कचितो ऽपि भवेदेव ।
तथा च तत्र शीर्षण्वन्तमिति विशेषो न वक्तव्यःस्यादित्यर्थः ॥
यद्यशिरस्कस्तर्ह्यस्य किं रूपमित्याह ----
प्राकृतौ -- श्रवणात्
प्राकृतावेव पक्षौ पुच्छौ षडरत्निं पञ्चारत्निं वा ।
तौ द्विपुरुषां रज्जुमुभयतःपाशामित्युक्तप्रकारेण वक्रीकर्तव्यौ ।
केचित्तु पूर्वोक्तायाम (भावात्) मार्गात् षष्टिशताङ्गुलया रज्ज्वा संनमन (मपी)मिच्छन्ति ।
पुच्छं च प्राकृतमेव सन्नतं अर्धपुरुषव्यासम् ।
पुरुषं प्रादेशाधिकं प्रतीचीनमायच्छेत् ।
तस्य दक्षिणतो ऽन्यमित्यादि पूर्ववत् ।
प्रादेशप्रवृद्धयभावे पूर्ववदेव ।
विकारश्रवणादिति ---- वक्रपक्षो व्यस्तपुच्छो भवतीति वचनादित्यर्थः ।
यथा कारात्
चतुः पुरुषः समचतुरश्र एव श्येनचित्यात्मा विकारस्याश्रवणात्
कपर्दिभाष्यम्
यथो एतच् छेयनचितं चिन्वीतेति । यावदाम्नानसारूप्यं तद् व्याख्यातम्

21.6

तत्र यावदाम्नानमेव सारूप्यं ग्राह्यम् ।
जातिवाचकानां शब्दानां किमपि सामान्यमेव प्रवृत्तिनिमित्तं दृश्यते ।
यथा गौर्वाहीक इति ।
एवमत्रापि यावदाम्नानमेव सारूप्यं गृहीत्वा श्येनशब्दो वर्तते ।
तत्तु सारूयं व्याख्यातं वक्रपक्ष इत्यादिना ॥
त्रिस्तावो ऽग्निर् भवतीत्य् अश्वमेधे विज्ञायते

21.7

तत्र सर्वाब्यासो ऽविशेषात्

21.8

तत्र नारत्निप्रादेशस्य सप्तविधस्याभ्यासः ।
कुतः? अविशेषात्; न हि कश्विद्विशेषो ऽत्राम्नायते ।
तस्मात्सर्वस्यावृत्तिः ।
दीर्घचतुरश्राणां समासेन पक्षपुच्छानां समास उक्तः

21.9

दीर्घचतुरश्राणां पक्षपुच्छानां समासविधिरूक्तः ।
"यदन्यत्सप्तभ्यऽ इत्यादिना विधासप्तमकरणीमित्यादिना (च) वा ।
वेणुत्रिकरण्या वा विहरेदित्यर्थः ॥
एकविंशो ऽग्निर्भवतीत्य् अश्वमेधे विज्ञायते

21.10

गतमेतत् ।
तत्र पुरुषाभ्यासो नारत्निप्रादेशानां सङ्ख्यासंयोगात् सङ्ख्यासंयोगात्

मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc