भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बशुल्बसूत्र · अध्याय 18

18.1

नवम्यश्चतस्रः पुरस्तात् ।
एषेति -- गतमेतत् ।
किमर्थमिदम्? नियमार्थम् ।
किमत्र नियम्यते? विषमद्विशतप्रस्तारो नियम्यते नोपरि श्येनः ।
श्येन एव नियम्यते नान्यः ।
कथमवगम्यते नान्य इति? प्रस्तारपूरणवचनात् -- तत्रापि व्यत्यासं चिनुयादित्येतदेवोक्तं न पूरणवचनम् ।
तस्मादन्ये द्विशतप्रस्ताराः ।
अत्रैव परिभाषितत्वात् ।
इष्टकाकरणे पञ्चचत्वारिंशदङ्गुलं दक्षिणेन गृहीत्वा चतुर्थीः कारयेत् ।
विपर्यस्ताः सव्ये ।
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् इति ।
गतमेतत् ।
अत्र श्लोका भवन्ति --
एकोनविंशतिस्तिर्यगङ्गुलं सतिलद्वयम् ।
यथा भवेत्तथा कार्या यथायोगनतं तु तत् ॥
यथोदीच्येव षड्भागे षष्ठभागेन वर्धनम् ।
करणस्य तृतीयस्य यथायोगनतं भवेत् ॥
स विशेषश्चतुर्थस्य द्विचत्वारिंशदङ्गुलम् ।
चतुर्दशतिलैर्युक्तं करणस्य भविष्यति ॥
षष्ठस्य कर्णफलकं स्यात्र्रयस्त्रिंशदङ्गुलम् ।
अष्टादशतिलैर्युक्तं इतरे सूत्रचेदिते ॥
पार्श्वस्थाः सप्तमस्येयं विंशत्यः सह सप्तभिः ।
षढ्भिरेव तिलैरूनं फलके ऽष्टाष्टमस्य च ॥
प्रथमेन तृतीयेन विपर्यस्य पुनः पुनः ।
तथा सप्तमषष्ठाभ्यां कारयेदिष्टकाः क्रतौ ॥
पञ्चत्रिंशद्विपर्यस्य चतुर्थेनापि कारयेत् ।
एतावदेव कुशलाः इष्टकाकरणे विदुः ॥
पुच्छे तिर्यङ्निधातव्याः चतुथर्या दश चोदिताः ।
योश्वान्तरा तिर्यक् चतुर्थ्यःस्युश्चतुर्दश ॥
चतुर्थ्यः पार्श्वयोस्तासां षट्षट्तिर्यक्तु मध्यमाः ।
कोणेषु तिर्यक् पञ्चम्यः षष्ठश्वाष्टौ तथाविधाः ।
आपुच्छस्याप्ययात्तद्वत् शिरसि त्रिंशदिष्यते ।
प्राच्यश्वैव प्रतीच्यश् च प्राचीष्वेव च पञ्चमी ॥
चतुर्थ्यः पार्श्वयोस्तासां तथा शिष्टे च विंशतिः ।
अन्यत्सर्वं यथासूत्रं प्रस्तारो द्विशतः क्रतौ ॥
श्रोण्या चैव तथैवांसौ षट्सु त्वेव तताविधा ।
चतुर्थ्यो ................... दक्षिण न पैताः ॥
श्रोण्योर्दक्षिण विज्ञेयं तथा चैवांस उत्तरे ॥
इत्यापस्तम्ब सूत्रविवरणे कपर्दिस्वामिभाष्ये शुल्बाख्यप्रश्ने
पञ्चमः पटलः.
करविन्दीया व्याख्या
शेषेर् -- थ्यः
पुच्छे दश चतुर्थकरणनिष्पन्नाः तिर्यगायताः ॥
श्रोण्यं -- श् च
एवं श्रोण्योश्चतस्रः उत्तरपार्श्वे विपर्यस्य कारिताः ॥
शेषे -- म्यः
शेषे चेति चकाराच्चतुर्थ्यो ऽनुषज्यन्ते ।
आत्मशेषे षड्विंशतिश्चतुर्थ्यः ।
अष्टौ च षष्टयः ।
चतस्रः पञ्चम्यः ।
ता एता अष्टात्रिंशत् ।
असामुपधानमुच्यते --
शिरसि -- स्ता
पुच्छगतविशयानां मध्ये तिर्यगात्मनि चतुर्दश चतुर्थ्यः प्राच्यो रीतयः ।
तासां पार्श्वयोः पश्चाद्द्वेद्वे पुरस्ता द्वेद्वे दक्षिणत उत्तरतश् च ।
ता अष्टौ ।
अष्टानां चतस्रः प्राच्यश्चतस्रः प्रतीच्यः ।
चतुर्दशानामेव पार्श्वयोर्मध्ये दक्षिणत उत्तरतश् च द्वेद्वे ।
ताश्चतस्रः ।
एवं षड्विंशतिश्चतुर्थ्यः ।
अत्रानुपहिताः कोणेक् ।
चत्वारश्वतु र्भागीयादेशाः ।
तेषु चतस्रः पञ्चम्यः तिर्यक् ।
षष्टिश्वाष्टौ तिर्यगेव ।
शिरसि प्रत्येकं दक्षिणोत्तरतः प्राच्यौ तयोर्विंशययोः पुरतः प्राच्यौ चतुर्थ्यौ ।
एवं बाह्यविशेषे ॥
एष द्विशतः प्रस्तारः
उपदानविधिगतदेशादि संख्यासमुदायवशेन प्रस्तारे शतद्वये सिद्धे ऽपि द्विशतः प्रस्तार इति वचनं प्रस्तारे द्विशतत्वसिद्धिकरणाय ॥
अप -- क्रियाः
निर्णामः पक्षयोर्मध्ये वक्रप्रदेश इत्युक्तम् ।
तस्मिन् द्वितीयाः दक्षिणोत्तरपक्षयोः पञ्चपञ्च निर्णामानुरूपमुपधेयाः ॥
अप्य -- वेताः
तृतीयकरणावेताः पञ्चपञ्चैवाष्टभागेन वर्धितेनात्मानमवगताः षड्भागेन पक्षम् ॥
शेषे -- प्राचीः
दक्षिणपक्षस्य दक्षिणभागे पञ्चविंशतिः ।
उत्तरपक्षस्य उत्तरभागे पञ्चविंशतिः दक्षिणे विंशतिः ॥
पुच्छ -- म्यः
पुच्छस्य दक्षिणे पार्श्वे पञ्च सप्तम्यः ।
उत्तरे पञ्च प्राच्यो रीतयः ॥
द्विती -- काम्
अनेनान्ययोः सप्तम्योरुपधानमुच्यते ।
पुच्छपार्श्वगतसप्तमीरीत्योरन्यतरस्यां रीत्यां द्वितीया ।
प्रतिसंहितामेकामन्यस्यां चतुर्थीप्रतिसंहितां चैकां सप्तमीमुपदध्यात् ।
एवं द्वादश सप्तम्य उपहिता भवन्ति ॥
शेषे -- ष्टम्याः
पुच्छशेषे अष्टमकरणोत्पन्नाः त्रयोदशोदीच्यः पञ्च रीतयः ।
पुच्छाग्रे पार्श्वगतयोःसप्तम्योर्मध्ये पञ्चाष्टम्यौ ।
ननाग्रा द्वितीयायाम् ।
तिसृणां सप्तमीनां मध्ये तिस्रो ऽष्टम्यः ।
तृतीयायां च तिस्रः ।
चतुर्थरीत्यां तिसृणां सप्तमीनां मध्ये एका ।
पञ्चमरीत्यां सप्तम्योर्मध्ये एका ।
एवं त्रयोदशाष्टम्यः यथायोगं प्रागग्राः प्रत्यगग्राश् च भवेयुः ॥
श्रोण्यंसेभ्यश् च श्रोण्यं -- श् च
श्रोण्योश्चतस्रः प्रत्येकं द्वेद्वे दक्षिणयोर्दक्षिणा उत्तरयोरुत्तराः ।
सर्वा बाह्यविशेषाः ॥
शेषे -- मीम्
आत्मशेषे विंशतिः ।
चकारेण वचनाभावे शिरसिचतुर्थ्यौ ।
तयोश् च पुरस्तात् चतस्रो नवम्यः ॥
एष द्विशतः प्रस्तारः
प्रस्तारशतद्वयानियमशङ्क्तानिराकरणाय द्विशतवचनम् ॥
व्यत्यासर्ं -- षेत्
गतम् ॥
अथ फलकानां प्रजम्भनमुच्यते -- प्रथमकरणस्य विंशत्यङ्गुला तिर्यङ्मानी प्रजम्भिते यथैकोनविंशतिरङ्गुलयःसाष्टादशतिलद्वयं च ऋज्ववस्थिता भवति, तथा करणं प्रजम्भयेत् ।
वक्ष्यमाणप्रकारेण द्वितीयस्य करणस्य पक्षनम्नी चतुर्विंशत्यङ्गुला सार्धसप्ततिला ।
तस्याःषष्ठो भागश्चतस्रो ऽह्गुलयः
सपादतिलश् च ।
तेन द्वितीयकरणस्य दीर्घतया चत्वारिंशदह्गुलयोः फलकयोर्मध्ये चतुविंशत्यङ्गुले एकस्मिन्नुन्नतिं च कुर्यात्; यथा तस्य भागद्वयमेकैकशः पूर्वकर्णसदृशं भवति तथेति ।
दृतीयस्य तु षष्ठाष्टभागसन्धौ नमनं ।
षष्ठं भागं पूर्ववन्नमयेत् ।
अष्टमस्य तु नमनमात्मानुरूपं ऋज्ववस्थानमेव ।
तस्मिन्नमनं षष्ठापेक्षया ।
तत्र श्लोकाः ----
श्येने प्रथम आद्यस्य करणस्य प्रजम्भनम् ।
द्वितीयस्य तृतीयस्य चोच्यते फलकानतिः ॥
अस्मिन् श्येने त्वादिम्स्य करणस्य प्रजम्भनम् ।
पुच्छस्य पक्षकरणी षष्ठस्यासौ यथार्जवम् ॥
द्वितीयस्य तृतीयस्य पक्षकाणां नतेः फलम् ।
व्यासस्य पक्षकरणीं षष्ठतानादिमे नतिः ॥
एकोनविंशत्यङ्गुल्यःसाष्टांशं च तिलद्वयम् ।
तिर्यङ्भानी यता सा स्यात्तथा रज्ज्वा प्रजम्भयेत् ॥
सपादतिलसंयुक्तचतुरङ्गुलमात्रतः ।
पक्षस्य नमनी षष्ठः तेन स्यात्फलकानतिः ॥
एवं द्वितीयश्येनोक्तमार्गेणोन्नीय जम्भनम् ।
करणस्य विधातव्यं फलकानमनं तथा ॥
इति करविन्दस्वामिकृतायां शुल्बप्रतीपिकायां पञ्चमः पटलः
सुन्दरराजीया व्याख्या
शेषेर् ---- थ्यः
पुच्छ उदगायताः ।
श्रोण्यंअश् च
आत्मनः श्रोण्यंसेषु द्वेद्वे बाह्यविशेषे ।
शेषे पञ्चम्यः
आत्मशेषे षड्विंशतिचतुर्थ्यः प्राच्यः प्रतीच्यः ।
तत्र मध्यरीत्योः सप्तसप्तोदगग्रा दक्षिणाग्राश् च ।
द्वितीयपञ्चमरीत्योः पञ्चपञ्च मताः ।
सममध्ये दक्षिणोत्तरे अन्याः प्राक्प्रतीच्यः ।
आद्यन्तरीत्योर्मध्ये एकैकचतुर्थ्यौ दक्षिणोत्तरयोः पश्चात्पुरस्ताच्च द्वेद्वे षष्ठयौ ।
ताश्वाष्टौ दक्षिणोत्तराः ।

तद्रीत्योः शेषे चतस्रः पञ्चम्य उदगायताः ।
शिरसि चतुर्थ्यौ विशये
अप्यये पुच्छाप्ययवत् ।
तयो च्यौ
बाह्यविशेषे चतुर्थ्यौ ।
एष स्तारः
अतो ऽत्र संख्यापूरणाय कर्तव्यो यत्न इत्यर्थः ।
अपर तामेकैकाम्
अन्यतरतः दक्षिणे पार्श्वे उत्तरे वा द्वितीयचतुर्थीभ्यां सप्तमीभ्यां संहितामेकां सप्तमीमन्तरुपदध्यात् ॥
शेषे ष्टम्यः
षुच्छ शेषे ।
श्रोण्यंअचीश् च
द्वेद्वे बाह्यविशेषे ।
शेषे पञ्चमी
आत्मशेषे विंशतिश्चतुर्थ्यः प्रागायताः ।
मध्ये प्रागायताभिः षष्ठीभिर्द्वात्रिंशता द्वे रीती ।
तयोर्दक्षिणस्यां द्वे उद्धृत्य एकां पञ्चमीं निदध्यात् ॥
शिरसि चतुर्थ्यौ
उदगायते ॥
तयो म्यः
उदगायताः ॥
एष स्तारः -- व्यत्या र्षेत्
इति श्री सुन्दरराजकृतायां शुल्बप्रदीपिकायां पञ्चमः पटलः
कपर्दिभाष्यम्
श्येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते

18.2

वक्रपक्षो व्यस्तपुच्छो भवति । पश्चात् प्राङ् उदूहति । पुरस्तात् प्रत्यङ् उदूहति । एवम् इव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते

18.3

अस्याः श्रुतेः पुनरुपन्यासो मार्गान्तरं प्रतिपादयितुम् ।
अथवा अन्यैवैषा श्रुतिः ।
इयमेवाकारमार्गता ।
वक्रेति -- गतमेतत् ।
पुरुषस्य षोडशभिर् विंशं शतं सारत्निप्रादेशः सप्तविधः संपद्यते । तासां चत्वारिंशदात्मनि तिस्रः शिरसि पञ्चदश पुच्छ एकत्रिंशद् दक्षिणे पक्षे तथोत्तरे

18.4

पुरुषस्य षोडशमागः षोडशी ।
ताभिर्विंशोत्तरं शतं संपद्यते ।
परिगणनायां क्रियमाणायां एतावत्यः षोडश्यः सप्तार्धे शेरते ।
सप्त स्थापयित्वा षोडशीभिर्गुणिते द्वादशोत्तरं शतम् ।
अर्धपुरुषे द्वादशसु अष्टौ ।
क्षिप्ते विंशतिः ।
एवं विंशोत्तरं शतं सम्पन्नम् ।
तासामिति -- तासां षोडशीनां चत्वारिंशदात्मन्युपधेयाः; तिस्रःशिरसि; सर्वत्र निधेया इति शेषः ।
पञ्चदश पुच्छे ।
दक्षिणे पक्षे एकत्रिंशत् तथोत्तरे ।
एकत्रिंशदुत्तरे पक्षे ।
कथमेता निधेया इत्युच्यते --
अध्यर्धपुरुषस् तिर्यग् द्वाव् आयामत इति दीर्घं चतुरश्रं विहृत्य श्रोण्यंसेभ्यो द्वे द्वे षोडस्यौ निरस्येत् । चत्वारिंशत् परिशिष्यन्ते । स आत्मा

18.5

अध्यर्धपुरुषा तिर्यङ्भानी द्विपुरुषा पार्श्वमानी ।
एवं दीर्घचतुरश्रं विहृत्य श्रोणीभ्यामंसाभ्यां च द्वे द्वे षोडश्यौ प्रत्येकं निरस्येत् -- त्यजेत् ।
अक्ष्णया .... यथा श्रोण्यंसेषु चत्वारि चतुरश्राणि अर्धपुरुषप्रमाणानि कृत्वा अक्ष्णयान्यार्धानि निरस्येत् ।
शिष्टं चत्वारिंशत् ।
स आत्मा ॥
शिरस्यर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात् तावति दक्षिणोत्तरयोर् निपातयेत्
गतमेतत् --
तिस्रः परिशिष्यन्ते । तच् छिरः

18.6

तिस्रःशिष्टाः ।
तच्छिरः ।
पुरुषस् तिर्यग् द्वाव् आयामतः षोडशभागश् च दक्षिणः पक्षः । तथोत्तरः

18.7

पुरुषमात्रा तिर्यङ्बानी ।
द्विपुरुषा पार्श्वमानी ।
पुरुषषोडशमागाश्वार्धेनाष्टाह्गुलमात्रं दक्षिणे पक्षे चामामः ।
तद्वदेवोत्तरपक्षः ॥
पक्षाग्रेपक्षाग्रे पुरुषचतुर्थेन चत्वारि चतुरश्राणि कृत्वा तान्य् अक्ष्णया व्यवलिख्यार्धानि निरस्येत् । एकत्रिंशत् परिशिष्यन्ते

18.8

पक्षयोरग्रे प्रत्येकं पुरुषचतुर्थप्रमाणेन चत्वारि चतुरश्राणि कृत्वा तान्यक्ष्णया कर्णेमालिख्य अर्धानि निरस्येत् ।
सुच्यवद्दक्षिणपक्षाग्राणि बहिर्भूतानि निरस्येत् ।
द्विपुरुषायामे द्वात्रिंशत् षोडश्यो भवन्ति ।
षोडशभागेन चैका ।
तासु द्वयोस्त्यक्तयोः एकत्रिंशत्परिशिष्यन्ते ॥
पक्षाग्रम् उत्सृज्य मध्ये पक्षस्य प्राचीं लेखाम् आलिखेत्
पक्षाग्रमिति पुरुषचतुर्थेन कृतानि चतुरश्राणि लक्ष्यन्ते ।
पक्षायामे पुरुषचतुर्भागार्धमुत्सृज्येत्यर्थः ।
मध्ये पक्षस्य प्रगायतां लेखामालिखेत् ॥
पक्षाप्यये पुरुषं नियम्य लेखायां पुरुषान्ते नितोदन्तुकुर्यात् । नितोदात् प्राचीनं पुरुषान्ते नितोदं नितोदयोर् नानान्ताव् आलिखेत् । तत्पक्षिनमनम् । एतेनोत्तरः पक्षो व्याख्यातः

मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc