भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बशुल्बसूत्र · अध्याय 17

17.1

उपधानकाले एकस्मिन् पक्षे षष्टिः प्रथमा उदीचीरुदगायता निदध्यात् -- उपदध्यात् त्रिंशत्र्रिंशद्विपर्यस्य कारिताः ।
एवमुत्तरपक्षे ऽपि ।
पुच्छस्य पार्श्वयोरुभयोःषष्टयः अष्टावेकस्मिन् पार्श्वे ऽपरस्मिंश्वाष्टौ ।
कथमित्याह -- पुच्छाग्रे तिस्रः तासां पुरस्तादेकाम् ।
एवमुत्तरस्मिन् पार्श्वे विपर्यस्य कारिताः ।
पुच्छे चात्मनि च स्थिते तिर्यक् -- तयोश् चेति तयोः पश्चात्पुच्छे अनीकसंहिते -- मुखसहिन्ते मेषयूथवत् ।
षोडशः खण्डः
करविन्दीया व्याख्या
चतु -- मम्
त्रिंशदङ्गुलायामं पञ्चदशव्यासं यत्तत्पञ्चमं करणम् ॥
तस्या -- षष्ठम्
पञ्चमस्याक्ष्णया भेदं कृत्वा षष्ठं करणं भवति सा पादेष्टका ।
तस्यैकत्रिंशदङ्गुलमन्यत् पञ्चदशाङ्गुलमन्यदक्ष्णया एकोनविंशतितिलाधिकं त्रयस्त्रिंशदङ्गुलम् ।
एतत् षष्ठं करणम् ॥
पुरुष -- मम्
चतुर्विंशत्यङ्गुलायामं तदर्धविस्तारं चतुरश्रं कृत्वा तस्य दक्षिणत उत्तरतश् च तादृशे चतुरश्रे ।
एवं त्रीणि चतुरश्राणि कृत्वा दक्षिणोत्तरचतुरश्रे दक्षिणापरकोटी प्रत्यालिखेत् ।
एवं पार्श्वमान्यौ षड्विंशत्यङ्गुले अष्टाविंशतितिलाधिके ।
तिर्यङ्भान्यौ चतुविंशत्यङ्गुले ।
एतत्सप्तमं करणम् ॥
एवम -- ष्टमम्
सप्तमवत्र्रीणि चतुरश्राणि कृत्वा दक्षिणं दक्षिणापरकोटिं प्रत्यालिखेदुत्तरमुत्तरापरकोटिं प्रति ।
एवमपि ते एव पार्श्वमान्यौ पूर्वं पार्श्वं द्वादशाङ्गुलं पश्चिमं तु षट्त्रिंशदङ्गुलं ।
यदेव तदष्टमं करणम् ॥
चतुर्भ -- मम्
चतुर्भागीयाया उभयतो भेदो ऽक्ष्णयाभवेत् ।
इयमपि पादेष्टका ।
पार्श्वमान्यौ अक्ष्णया एकविंशत्यङ्गुले सप्ततिलसहिते तिर्यगेकं त्रिंशदङ्गुलम् ।
एवं नवमं करणम् ।
अथोपधानमुच्यते--
उप -- ध्यात्
उपधानकाले दक्षिणे पक्षे षष्टिः प्रथमा उदीचीर्निदध्यात् ।
उत्तरे च षष्टिम् ।
छान्दसो विभक्तिव्यत्ययः ।
पुच्छ -- ष्ठयाः
षष्ठकरणोत्पन्ना अष्टावष्टौ पुच्छपार्श्वयोः ।
उपधानप्रकारमाह ----
तिस्रो -- काम्
पुच्छपार्श्वयोरित्येव ।
तिस्रो ऽग्रे पुच्छस्य दक्षिणश्रोण्यामेका प्राची बाह्यविशेषा ।
तस्या उत्तरतो द्वे नानाग्रे विशेषसहिते ।
तयोः पुरस्तादेका बाह्यविशेषा
प्रागग्रा ।
तस्याः पुरस्तात्पूर्ववत्तिस्रः ।
तासां पुरस्तात् पूर्ववदेका ।
एवमुदक्पार्श्वे ऽपि ॥
पुच्छा -- ये
पुच्छात्मसन्धौ द्वे चतुर्थ्यौ विशये ।
अविशेषादात्मनि पुच्छं च समे ॥
तयो -- हिते
तयोश् च पशावत् द्वे पञ्चम्यावर्थेष्टके ।
अनीकं मुखम् ।
तेन संहिते मेषयुद्धवत् ॥
षोडशः खण्डः
सुन्दरराजीया व्याख्या
चतु -- पञ्चमम्
त्रिंशदङ्गुलायामं पञ्चदशाह्गुलव्यासं ।
समकर्णं दीर्घचतुरश्रम् ।
तस्या -- षष्ठम्
पुरुष -- मम्
यथा पुरस्तात्प्रादेशस्तिर्यङ्भानी पश्चात्तु प्रादेशत्रयम् ।
सप्तमाष्टमयोरुभयोरपि पार्श्वफलकानि सप्तविंशकानि षट्तिलोनानि ।
चतु -- मम्
चतुर्भागीयामुभयतो ऽक्ष्णयाभिन्नायां चत्वारो नवमा भवन्ति त्रिकोणाः ।
तेषामेकं करणं नवमं ।
तस्यैकं फलकं त्रिंशदङ्गुलं ।
अन्ये एकविशके सप्ततिले ।
उप -- ध्यात्
प्रथमाः प्रथमकरणकृताः ।
एवं षष्टय इत्यादिषु उदीचीरुदगायताः ॥
पुच्छ -- षष्टयः
प्रागायता एताः ।
आसामुपधानप्रकारमाह --
तिस्र -- काः
तिसृणां द्वे प्रागग्रे ।
एका प्रत्यगग्रा ।
पुच्छा -- ये
उदगग्रा दक्षिणाग्रा च ।
ते आत्मानं पुच्छं च पञ्चदशाङ्गुलावेते ।
तयो -- हिते
अनीकसंहिते मुखसंहिते ।
उदगायते ।
षोडशः खण्डः
कपर्दिभाष्यम्
शेषे दश चतुर्थ्यः श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचीश् च

17.2

पुच्छशेषे चतुर्थ्यो दश तिर्यगायताः ।
श्रोण्यंसेषु चाष्टौ श्रोण्याश्चतस्रः प्रागायताः ।
उत्तरस्यां दक्षिणस्यां च विपर्यस्य कारिताः ।
अंसयोश्वैवम् ।
शेषे च षड्विंशतिर् अष्टौ षष्टयश् चतस्रः पञ्चम्यः

17.3

आत्मनि शेषे शिष्टे देशे षड्विंशतिश्चतुर्थ्यः ।
अष्टौ चतस्रः पञ्चम्यः ।
तासामुपधानमार्ग उच्यते -- विशयानां मार्गे तिर्यगात्मनि चतुर्दश चतुर्थ्यः ।
तासां पार्श्वयोर्द्वे द्वे प्राच्यौ च विपर्यस्य कारिते ।
उत्तरे पार्श्वे चतुर्दशानामेव पार्श्वयोर्मध्ये द्वे द्वे तिर्यक् ।
एताःषड्विंशतिश्चतुर्थ्य उपहिताः ।
चतस्रश्चतुर्भागीयाकोणेषु स्थिताः ।
तासु चतस्रः पञ्चम्यः तिर्यक् ।
षष्टयश्वाष्टौ तिर्यगेव ॥
शिरसि चतुर्थ्यौ विशये । तयोश् च पुरस्तात् प्राच्यौ

17.4

एष द्विशतः प्रस्तारः

17.5

तयोर्विशययोः पुरस्तात्प्राच्यौ चतुर्थ्यौ विपर्यस्य कारिता दक्षिणतः ।
एषेति ।
किर्मथमिदम् यावता द्विशत एव? परिभाषेयम् ।
यो ऽयं प्रस्तारो द्विशत(ःस) इति परिभाष्यते ।
सङ्ख्यां पूरयेदित्युक्ते द्विशत एव पूर्यते ।
इतरथा का संख्या पूरयितव्येति न ज्ञायते ।
अस्ति सहस्रसंख्येति चेन्न ।
प्रतिप्रस्तारं पूरयेदिति वचनमनर्थङ्कं सम्पद्यते ।
तस्मात्परिभाषेयमिति ॥
अपरस्मिन् प्रस्तारे पञ्चपञ्च निर्णामयोर्द्वितीयाः । अप्यययोश् च तृतीया आत्मानम् अष्टभागावेताः
द्वितीया वक्रीभूताः ।
निर्णामो वक्रप्रदेशः ।
तस्मिन् प्रदेशे पञ्चपञ्च द्वितीयाः ।
अप्यययोश् च तृतीयाः -- पक्षाप्यययोश्तृतीया आत्मानमष्टभागावेता व्याप्ताः ।
चतुर्भागीयेष्टकामात्रमात्मनि स्थिताः ।
पञ्छपञ्च विपर्यस्य कारिता उत्तरे पक्षाप्यये ।
शेषे पञ्चचत्वारिंशत् प्रथमाः प्राचीः

17.6

दक्षिणे पार्श्वे पञ्चविंशतिः ।
दक्षिणे पक्षे उत्तरे पार्श्वे पञ्चविंशतिरुत्तरे पक्षेविंशतिः ।
पुच्छपार्श्वयोः पञ्चपञ्च सप्तम्यः
उत्तरे पार्श्वे विपर्यस्य कारिताः ।
द्वितीयचतुर्थोश् चान्यतरतः प्रतिसंहिताम् एकैकाम्
द्वितीयायां रीत्यां चतुथर्यां च रीत्यां अन्यस्मिन्पार्श्वे एकैका सप्तमी ।
एका दक्षिणे पार्श्वे विपर्यस्य कारिता ।
अपरा उत्तरे पार्श्वे ॥
शेषे त्रयोदशाष्टम्यः

17.7

पुच्छदेशे त्रयोदशाष्टम्यःशेरते ।
श्रोण्यंसेषु चाष्टौ चतुर्थ्यो दक्षिणा उदीचीश् च
दक्षिणस्यां दक्षिणायते विपर्यस्य कारिते ।
उत्तरस्यां श्रोण्यां उदगायते ।
दक्षिणेंऽसे उदगायते विपर्यस्य कारिते ॥
शेषे च विंशतिस् त्रिंशत् षष्ठयः एकां पञ्चमीम्

17.8

चकारेण चतुर्थ्यो ऽनुकृष्यन्ते ।
त्रिंशत् षष्ठयः एका च पञ्चमी ।
तासामुपाधानदेश उच्यते -- आत्मनो दक्षिणे पार्श्वे दश चतुर् थ्यः ।
पञ्च प्राचीः पञ्च प्रतीचीः एवमुत्तरे पार्श्वे ।
मध्ये त्रिंशत् षष्ठयः प्राचीः एका च पञ्चमी ।
तासां पञ्चदश प्राचीः ॥
शिरसि चतुर्थ्यौ तयोश् च पुरस्ताच्चतस्रो नवम्यः

17.9

एष द्विशतप्रस्तारः

17.10

व्यत्यासं चिनुयाद् यावतः प्रस्तारांश् चिकीर्षेत्

मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc