भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बशुल्बसूत्र · अध्याय 16

16.1

इति पञ्चदशः खण्डः
तौ चतुरश्रौ यौ पार्श्वस्थौ ।
तावक्ष्णया कर्णेन आलिखेत्; यथाप्यये आत्मपुच्छसन्धौ अर्धपुरुषमात्रं कृतं पूर्वस्य भवति ।
प्राच्यमिव दक्षिणं प्राच्यमिवोत्तरम् ।
एवं कृते ऽप्ययेर्ऽधपुरुषमात्रं भवति ।
शिरःस्थानेर्ऽधषुरुषप्रमाणेन चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धादारब्य तावत्येवार्धे मध्ये निपातयेत् -- आलिखेत् ।
तिस्रः परिशिष्यन्त इत्युपरितने वक्ष्यति ।
अत्रापि तिस्रः शिरसीत्युक्तम् ।
पञ्चदशः खण्डः.
करविन्दीया व्याख्या
अर्धद -- यामः
अपरेण यूपावटदेशं संचरमवशिष्येत्यादि विमाय पक्षाप्ययेषु शङ्कुं निहत्य दक्षिणोत्तरया रज्ज्वा नवारत्नीन् प्रादेशमङ्गुलं चतुर्भागोनां चायामं कृत्वा पक्षाग्रेषु शङ्कुं निहन्यात् ।
एवमेकादशभिरङ्गुलीभिः प्रादेशेन च पुरुषो हीयते ।
तत्रार्धाष्टमाभिरङ्गुलीभिरेका चतुर्भागीया भवति ।
तदर्धेनार्धद्विपुरुषायामां रज्जुमुभयतः पाशां कृत्वा मध्ये लक्षणं कृत्वा पक्षस्यापरकोटिशङ्क्वोः प्रतिमुच्य लक्षणेन प्राचीमपसार्य शङ्कुं निहन्यात् ।
एवं तस्यैव पूर्वयोः कोट्योः प्रतिमुच्य लक्षणेन प्रतीचीमपसार्य तत्र शङ्कुः ।
एवं कृते पश्चिमपार्श्वमान्याः पुरस्तात् पक्ष्मध्ये चतुर्विंशत्यङ्गुले सार्धसप्ततिले लक्षणं निपतति पुरतश्वैवं ।
स निर्णामः -- निर्णमनं पक्षस्य ।
अर्धदशमा इत्यादि स निर्णाम इत्यन्तेनोत्तरमपि पक्षं कुर्यात् ॥
आत्मद्वि -- व्यासः
आत्मानं प्राक्त्वेन द्विपुरुषायाममुदक्त्वेनाध्यर्धपुरुषमनुपृष्ठयं मिनुयात् ॥
पुच्छे -- येस्यात्
पुच्छे पुरुषायामानि तदर्धविस्ताराणि प्रत्यगायतानि त्रीणि चतुरश्राणि दक्षिणोत्तराणि विहृत्य दक्षिणं चतुरश्रं दक्षिणापरकोटिं प्रत्यक्ष्णयालिखेत् ।
एवमुत्तरापरकोटिं प्रति ।
एवं कृते पुच्छमूलेर्ऽधपुरुषविस्तारमग्रे ऽध्यर्धपुरुषविस्तारं पुरुषमात्रायामं चतुरश्रं भवति ॥
शिरः -- येत्
आत्मनः पूर्वकरणीमध्ये पुच्छवदर्धायामविस्तारं चतुरश्रं कृत्वा तत्पूर्वकरणीमध्याद् दक्षिणोत्तरकरण्योर्मध्ये रेखां निपातयेत -- रेखयोर्बहिस्त्यजेत् ॥
पञ्चदशः खण्डः.
सुन्दरराजीया व्याख्या
अर्धद -- यामः
व्यासः पुरुषमात्र एव ।
अथ तस्य निर्णामः --
द्विपुर् -- णामः
कोटयोरग्राप्यययोरेवं पुरस्तात्पूर्वयोः कोटयोरन्तौ नियम्य यत्पश्चादपच्छिद्यते तत्पुरस्तादागच्छति ।
एतेन -- ख्यातः आत्मा -- व्यासः
एवमेवात्मनि त्रयः पुरुषाः स्थिताः ।
पुच्छे -- येत्
आत्मनः पुरस्ताच्छिरः ।
इति पञ्चदशः खण्डः
कपर्दिभाष्यम्
अप्ययान् प्रति श्रोण्यंसान् अपच्छिन्द्यात्
अप्ययशब्देन पक्षपुच्छशिरसां सन्धिरुक्तः ।
तान्प्रत्यपच्छि न्द्यात् -- श्रोण्यंसाच्यजेत् ।
शिरसो ऽप्ययादारभ्य पक्षाप्ययं प्रति ।
एवं श्रोण्योरंसे च ।
एवं द्वे द्वे चतुर्भागीये निरस्ते भवतः ।
वक्ष्यति चत्वारिंशत्परिशिप्यन्त इति ॥
एवम् इव हि श्येनः

16.2

प्रसिद्धः ।
वक्ष्यति च "यावदाम्नानसारूप्यम्ऽ इति ।
करणं पुरुषस्य पञ्चमायामं षष्ठव्यासं कारयेद् यथायोगनतं तत्प्रथमम्

16.3

पुरुषपञ्चमायामं पुरुषषष्ठव्यासं -- अरत्निमात्री पार्श्वमानी षड्भागा तिर्यङ्भानी यथा युज्यते तथा नतः; नतशब्देन प्रजम्भनमुच्यते ।
तथा प्रजम्भयेत् ।
एकामक्ष्णयादीर्घां कुर्यात् ।
यथा युज्यत इति यथायोगः ।
तत्प्रथमं करणम् ।
प्रथममित्यस्य संज्ञा ।
ते द्वे प्राची संहिते । तद् द्वितीयम्

16.4

ते द्वे विपर्यस्ते उपसृत्य मध्यमफलके संसृष्टे यथा तिष्ठतः तथाविधं करणं द्वितीयम् ।
प्रथमस्य षड्भागम् अष्टभागेन वर्धयेत् । यथायोगनतं तत् तृतीयम्

16.5

प्रथमस्य षड्बागकरणमष्टभागेव वर्धयेद्दीर्घं कुर्यात् ।
मात्रा? तमक्ष्णया छिन्द्यात् ।
छिन्ना यथा युज्यते नमनं तता योगः ।
यथा पक्षनमने ऽध्यर्घं युज्यते तथा नतं वक्रं तृतीयकरणम् ।
चतुर्भागीयाध्यर्धा । तस्याश् चतुर्भागीयामात्रम् अक्ष्णया छिन्द्यात् । तच् चतुर्थम्

16.6

चतुर्भागीयाध्यर्धं भूमावालिक्य चतुर्बागीयां न त्यजेत् ।
तथाभूतेष्टका येन करणेन कियते तच्चतुर्थं करणम् ।
षोडशीं चतुभिरिति वक्ष्यति ।
तदेतत्करणम् ॥
करविन्दीया व्याख्या
अप्य -- श्येनः
अप्ययशव्देनात्मनः पक्षुपच्छशिरसां सन्धिरुच्यते ।
शिरसो ऽप्ययादारभ्य आपक्षाप्ययात् पुच्छाप्ययादारभ्य आपक्षा प्ययात् ।
एवमिवहीति गतम् ॥
कर -- प्रथमम्
पुरुषस्य पञ्चमं चतुर्विंशतिरङ्गुलय एकतः ।
अन्यतोविंशतिरङ्गुलयः प्रथमं करणम् ।
यथायोगनतं भवेत् -- उपधाने यथायुज्यते तथा कुर्यात् ।
नमनप्रकारश्वोपरि श्येने वक्ष्यते ।
प्रथमादयःशब्दा व्यवहारसौकर्याय ॥
तेद्वे -- यम्
प्रथमकरणे प्रागायते दक्षिणमेकमुत्तरमेकमिति संहिते चतुर्विंशत्यङ्गुले पार्श्वमान्यौ चत्वारिंशदङ्गुले तिर्यङ्नान्यौ ।
तयोरेकानमनविधिना मध्ये निर्णता एकपार्श्वे उन्नता ।
तद्द्वितीयं करणम् ।
प्रथमकरणस्य षड्भागो विंशत्यङ्गुलमष्टभागेन पञ्चदशाङ्गुलेन यथायोगनतेन वर्धयेत्; यथा षड्बागः पभानुरोधी वक्रःस्यादष्टमबाग आत्मानुरूप ऋजुर्भवेत्तत्तृतीयं करणम् ॥
चतुर्भा र्थं चतुर्भागीयाणूकाख्या ।
साध्यर्दा कार्या ।
तस्याश्चतुर्भागीयामात्रमक्ष्णयामात्रमक्ष्णया छिन्द्यात् ।
एतदृक्तं भवति--पञ्चचत्वारिंशदङ्गुलायामं त्रिंशदह्गुलव्यासं कृत्वा त्रिंशदङ्गुलमक्ष्णया छिन्द्यात् ।
एवमेका पार्श्वमानी ।
पञ्चचत्वारिंशदङ्गुलयः एका तिर्यङ्भानी त्रिंशदह्गुलयः एकाक्ष्णया स्थिता द्विचत्वारिंशदङ्गुलयः चतुर्दश तिलाः ।
एतच्चतुर्तं करणम् ॥
सुन्दरराजीया व्याख्या
अप्य -- छिन्द्यात्
पक्षपुच्छशिरो ऽप्ययेभ्यः अन्योन्यं प्रत्यक्ष्णया परिच्छिन्द्यात् ।
एवमात्मनोर्ऽधपुरुषो निरस्तो भवति ।
एवमिव -- प्रथमम्
चतुर्विंशत्यङ्गुलं ।
पार्श्वफलकम् ।
विंशत्यङ्गुलं तिर्यक्फलकम् ।
यथायोगनतं यथा युज्यते पक्षे तथा नतम् ।
तस्यैकाक्ष्णयारज्जुः पञ्चत्रिंशिका विंशतितिलयुक्ता ।
अपरा षड्विंशिका षट्तिलयुक्ता ।
एवं कृते पक्षायामस्य द्वादशभागः एकान्नविंशतिरह्गुलयः तिलौ च इष्टकाव्यासो भवति ।
तदेतत्प्रथमं करणम् ।
अरत्निप्रादेशरहितप्रकृतिके पक्षायामस्य त्रिंशदङ्गुलहानिः ।
तदनुगुणं चेष्टकानां नमनं भवति ।
तत्र कर्णौ एकविंशकैकान्नत्रिंशकौ तिलत्रययुक्तौ ।
तेद्वे -- द्वितीयम्
यथा षडश्री भवति तथा संहिते ।
प्रथ -- तृतीयम्
पञ्चदशाङ्गुलव्यासं अरत्नयायामं समकर्णं दीर्घचतुरश्रं प्रागायतं मूमौ लिखित्वा प्रथमेन प्रागायतेन युञ्जयात्तत्तृतीयम् ।
ऋज्ववस्थितमेव प्रथमापेक्षया नतमित्युच्यते यथायोगनतमिति ।
चतुर्भाग -- चतुर्थम्
एका पार्स्वमानी पञ्चदशाङ्गुला ।
अन्या पञ्चचत्वारिंशदङ्गुला ।
एका तिर्यङ्नानी त्रिंशदङ्गुला ।
अन्या द्विचत्वारिंशदङ्गुला सचतुर्दशतिला ।
कपर्दिभाष्यम्
चतुर्बागीयार्धं पञ्चमम्

16.7

एकतस्त्रिंशदङ्गुलमन्यतः पञ्चदशाङ्गुलं तत्पञ्चमम् ।
तस्याक्ष्णया भेदः षष्ठम्

16.8

तस्य पञ्चमस्याक्ष्णया कर्णेन विभज्यत इति भेदःषष्ठम् ।
पुरुषस्य पञ्चमभागं दशभागव्यासं प्रतीचीनम् आयच्छेत् । तस्य दक्षिणतो ऽन्यम् उत्तरतश् च । ताव् अक्ष्णया दक्षिणाओअरयोः कोट्योर् आलिखेत् । तत् सप्तमम्

16.9

अरत्निमात्रायामं प्रादेशव्यासं प्रतीचीनं प्रत्यगायतमायच्छेत् ।
भूमौ दक्षिणपार्श्वे ऽन्यं तथाविधमुत्तरतश्वान्यं तथाविधम् ।
तावक्ष्णया कर्णेन दक्षिणावरयोः कोट्योरारभ्य स्रुच्यवदालिखेत् ।
तत्सप्तमम् ॥
एवमन्यत् । उत्तरं तूत्तरस्याः कोट्यालिखेत् तद् अष्टमम्

16.10

एवमेव कृत्वोत्तरं चतुरश्रमुत्तरस्याः कोट्या आरभ्य दक्षिणां कोटिं प्रत्यालिखेत् स्रौववत्तदष्टमम् ।
चतुर्भागीयाक्ष्णयोभयतो भेदो नवमम्

16.11

अक्ष्णया उभयतः कर्णेन भेदनं खण्डनं तस्याश्चतुर्भागीयायास्तथाविधं नवमं करणम् ।
पादमात्रं पादेष्टका त्रिभिरिति ॥
उपधाने षष्टिःषष्टिः पक्षयोः प्रथमा उदीचीर्निर् उपदध्यात्

16.12

पुच्छपार्श्वयोर् अष्टावष्टौ षठ्ययस् तिस्रो ऽग्रे तत एकान् ततस् तिस्रः तत एका
पुच्छाप्यये चतुर्थ्यौ विशये । तयोस् तु पश्चात् पञ्चम्याव् अनीकसंहिते

मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc