भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बशुल्बसूत्र · अध्याय 15

15.1

चतुर्दशः खण्डः
सर्वैश्छन्दोभिर्दाशतयिभिश्वेतव्य इत्येका श्रुतिः ।
प्राकृतैः -- प्रकृतौ यानि छन्दांसि अग्रिर्मूर्धेत्यादीनि तैरेवेत्यपरा श्रुतिः ॥
इत्यापस्तम्बसूत्रविवरणे शुल्बाख्यप्रश्ने कपर्दिस्वामिभाष्ये
चतुर्थः पटलः
करविन्दीया व्याख्या
श्मशा -- ते
श्मशानमिव चिन्वीत पितृलोके वृद्धिं कामयमानः ।
द्वयानि -- यित्वात्
गतं ।
अग्नयायतनप्रकाररूपाणि द्वयान्यपि श्मशानानि लोके दृश्यन्ते चतुरश्राणि परिमण्डलानि च ।
चतुरशः -- श्रः
प्रकृतित्वाच्चतुरश्रमेव चिन्वीत न मण्डलमिति समास उक्तः ।
श्मशानानि द्रोणचितेतिवत् कर्तव्यानि ।
त्सरुं वर्जयेदन्यत्सर्वं द्रोणवत् विमानानि ।
द्वादशबागीया अध्यर्धाः अर्धाः पादाश् च द्वादशभागीयाःसप्तविंशतिरङ्गुलयः त्रयोदशतिलाश् च ।
अध्यर्धा एकतस्तादृशाः अन्यत एकचत्वारिंशदङ्गुलयः त्रयश् च तिलाः अर्धाः पादाः एकतो द्वादशभागीयासदृशाः अन्यतस्तदर्धाः ।
पादा एकतो द्वादशभागीयासदृशाः अन्यतो नवाङ्गुलयः साधिकाश्वत्वारस्तिलाश् च ।
उपधाने प्रथमप्रस्तारे पुरस्तात् पश्चाच्चाध्यर्धाः चतुरश्राभैः प्रच्छादनं ।
पादाभिरर् धाभिश् च संख्यापूरणं ।
द्वितीये दक्षिणत उत्तरतश्वाध्यर्धाभिश्चतुरश्राभिः प्रच्छादनादि पूर्ववत् ॥
छन्द -- ते
छन्तोभिः ऋग्भिश्वीयते इति च्छन्दश्वित् एतावानेव विशेषः ।
अन्यत् सर्वं प्रकृतिरेव ॥
सर्वै -- कम्
सवैर्न्दशतयीगतैश्छन्तोभिश्विनुयात् ।
तानि सहस्रधा विभज्य तेषामेकैकेन भागेनैकैकामिष्टकामुपदध्यात् ।
यजुषां स्थाने छन्दांसि भवेयुः ।
तत्र यावत्यः यजुष्मत्यः इष्टकाः तावत्यश्छन्दांसि विभज्य तेषामेकैकेन विभागेनैकैकामिष्टकां यजुष्मतीरूपदध्यात् ।
लौकम्पृणास्तु पूर्ववदेवन ।
अथवा दशतयीगतैःसर्वैश्छन्दोभिर्गायत्रीभीस्त्रिष्टुब्भिर्जगतीभिरनुष्टुब्भिर्वृहतीभिरुष्णिग्भिः पङ्क्तिभिरक्षरपङ्क्तिभिर्विषुरुपाभिस्त्रेधा विभक्ताभिरतिच्छन्दोभिस्त्रिधा विभक्तैसर्वाभिर्द्द्विपदाभिश् च पुरस्तादारम्य याज्ञसेनीभिरुपदध्यात् ॥
प्राकृ -- नाम्
प्राकृतैः अग्निकाण्डगतैः अग्निर्मूर्धेत्यनुवाकस्थैर्गायत्रयादिभिः न दशतयीभिरित्यपरम् ।
नास्मात्परं विभज्यत इति सिद्धान्तितम् ।
अत्र श्लोकाः --
एकैकवृद्धा एकैकधा ह्यग्नयः क्रमश एकशतम् ।
पटले तृतिय उदितास्तेषां भेदाश्चतुर्तादौ ॥
प्रकृतिस्त्ववह्णीनामेकविधा वाथ सप्तविधाः ।
एकविधप्रकृतित्वे तदा षण्णां न पक्षपुच्छानि ॥
सप्तविधप्रकृतित्वे भवति च तेषां सपक्षपुच्छत्वम् ।
सप्तविधप्रभृतीनां सैव भवेत्प्रकृतिरेकशतविधात् ॥
करणीनां द्वादशांशैः तैरुक्तांशयुतायुतैः ।
पृथगुत्पन्नरूपाभिरिष्टकाभिस्त्रिधोपधेः ॥
त्रैधमेकविधादीनां चातुर्विध्यं सपक्षतः ।
एवं प्रौगयुग्मस्य त्रैधं नान्यदपक्षतः ॥
द्वौ चतुरश्रौ प्रौगौ रथचक्रद्रोणचित्समूह्यश् च ।
पर्युपपूर्वौ चान्त्यौ श्मशानचिच्छन्दश्वितिश्येनौ ।
कङ्चिदलजौ सप्तविधाः पञ्चर् पूववद्दशदहनाः ॥
प्रौगचिदुभयप्रौगो रथचक्रो द्रोणचिछ्श्मशानाग्निः ।
एते त्वपक्षपुच्छाः कूर्मचिदाद्याः परोक्ताश् च ।
अन्ये सपक्षपुच्छा अग्नय उक्ताः प्रवक्ष्यमणाश् च ॥
श्येनप्रमुखाननलान् व्याख्यास्ये पटलयोरिहोत्तरयोः ॥
इति करविन्दस्वामि कृतायां शुल्बप्रदीपिकायां चतुर्थः षटलः
सुन्दरराजीया व्याख्या
(श्मश -- यते) (द्वया -- त्वात्) (चतु) क्तः ।
अत्र चतुरश्रत्वे त्रीणि शतान्यष्टाविंशतिश्वाङ्गुलाः एकविन्तितिलाश् च करणी ।
तस्या द्वादशेन सप्तविंशत्यङ्गुलेन त्रयोदशतिलयुक्तेन द्वादशभागीयाः ।
तदर्धेन पाद्याः तृतीयेन च नवम्यः ।
अधार्श् च पूर्ववत् ।
उपाधाने ऽध्यर्धा द्वादशपुरस्तात्प्रतीच्यः ।
पस्वाद्द्वादश प्राच्यः ।
शेषं द्रोणतेव ।
तत्र सर्वाभावात् षोडशेष्टका हीयन्ते ।
अतोऽग्निमध्ये द्वे उद्धृत्याष्टादशनवम्यो निधेयाः ।
द्विशतः प्रस्तारः ।
एवमेवापरः ।
प्राच्युदीच्योस्तु विपर्यासः ।
मण्डले श्मशानीचद्रथचक्रचिता व्याख्यातः
छन्दःअयते
छन्दोभिश्वीयत् इति छन्दश्वित् ।
छान्दसः करण उपपदे व्किप् ।
अन्यत्र कर्मण्यग्नयाख्यायामिति ।
सर्वैः परं तत्र सर्वैर्गायत्रयादिभि श्चतुरुत्तरैः अतिधृति पर्यन्तैः चतुर्दशभिरुत्कृतिपर्यन्तैर्वैकविंशत्या त्रिवृत्ककुभादिविशेषयुक्तैर्दाशतयीभ्य आहृतैश्छन्तौबिः सर्वा इष्टकाश्विनुयादित्येकं मतं ।
प्राकृतैरग्निर् मूर्धेत्यनुवाकाधीतैर्याज्ञसेन्यर्थैः पुनः पुनरभ्यस्तैरित्यपरं मतं ।
अस्याग्रेः प्रकृतिवदेव रूपं ।
केचितु वयसां वा एष प्रतिमयेत्यस्यापि नित्यत्वाद्वयस आकारमपीच्छन्ति ।
यथाह -- वोधायनः -- तस्य रूपं श्येनाकृतिर्भवतीति ॥
इति श्रीमत्सुन्दहहाजकृतायां शुल्बप्रदीपिकायां चतुर्थः पटलः
कपर्दिभाष्यम्
श्येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते

15.2

वक्रपक्षो व्यस्तपुच्छो भवति
श्येन इव चेतव्यः श्यनचित् तदाकारं चिन्वीत ।
आकृत्याः फलमाकारसंपादनं स्वयमेव वक्ष्यति ।
अनृजुपक्षः व्यस्तपुच्छो ऽसङ्कोचितपुच्छः ।
कथं वक्रता? --
पश्चात् प्राङ् उदूहति । पुरस्तात्प्रत्यङ्ङ् उदूहति । एवम् इव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते

15.3

उन्नयति पुरस्तात्प्रत्यङ्ङ् उन्नयति ।
एवमेव वक्राः पक्षा यस्य स वक्रपक्षः ।
हिशब्दः प्रसिद्धौ ।
एवमिव -- एवमेव वयसामुत्पततां मध्ये पक्षनिर्णामो नमनं भवतीति श्रुतिः ॥
यावान् अग्निः सारत्निप्रादेशः सप्तविधः संपद्यते । प्रादेशं चतुर्थम् आत्मनश् चतुर्भागीयाश् चाष्टौ । तासां तिस्रः शिर इतरत् पक्षयोर् विभजेत्

15.4

अरद्निना प्रादेशेन च विर्धितो ऽग्निः प्राकृतो यावान् संपद्यते प्रादेश इति गृह्णीयादिति शेषः ।
सारत्निप्रादेशाग्नौ यत्प्रादेशं पुच्छे आत्मनि चतुर्तं पुरुषक्षेत्रं चतुर्भागीयाश्वाष्टौ शिष्टे पुरुषे ऽष्टौ चतुर्भागीयाः क्षेत्रं च गृहीत्वा तासां चतुर्भागीयानां दिस्रश्चतुर्बागीयाःशिरसि निधातव्याः ।
इतरत्सर्वं पक्षयोर्विभज्य क्षिपेत् ।
षडङ्गुलमात्रं प्रादेशे ।
षष्टयङ्गुलं पुरुषे ।
चतुर्भागीयासु पञ्चसु पादोनं नवदशाङ्गुलम् ।
एतदेवैकैकस्मिन पक्षे क्षैपेत् ।
पञ्चारत्निः पुरुषः । चतुररत्निः व्यायामः । चतुर्विंशत्यङ्गुलयो ऽरत्निः । तदर्धं प्रादेश इति कॢप्तिः

15.5

पञ्चेति -- एतत्पुरुषस्य प्रमाणम् ।
चतुरिति -- एतदरत्निप्रमाणम् ।
कॢप्तिः -- एवं कल्पना ।
इतिशब्दः प्रकारे ।
अनेनन मार्गेण कल्पयेदित्यर्थः ।
त्रिंशदङ्गुलं चतुर्भागीयम् ।
करविन्दीया व्याख्या
श्येन -- ते
श्येनः -- पक्षिविशेषः ।
तदाकारमग्निं चिन्वीत स्वर्गकामः ।
वयसां वा एष प्रतिमया चीयत इति वयोमात्रसदृशः प्राकृतो ऽग्निः ।
अयं तु श्येनसदृशः ।
कीदृशः श्येन इत्याह --
वक्र -- ते.
वक्रौ -- अनृजू पक्षौ यस्य स वक्रपक्षः ।
व्यस्तं विस्तीर्णं पुच्छं यस्य मूलादारभ्य उपर्युपरि विस्तीर्णं सः ।
पश्चात् प्राङुदूतीति उदूहनमुन्नयनं प्रथमपक्षार्धं मूलादारब्य पश्चात्प्रभृति प्रागुन्नयेत् ।
पुरस्तात्प्रत्यङ्ङुदूहति ।
द्वयं पक्षार्धं मध्यादारब्य पुरस्तात् प्रभृति प्रत्यगुन्नयेत् ।
एवमिवहीति निपादसमुदायः प्रसिद्धौ ।
वयसां मध्ये -- श्येनानां पक्षयोर्मध्ये ।
निर्णामः -- निर्णमनं निर्गत्य प्रह्वीभावः ।
विज्ञायते -- श्रूयते दृश्यत् वा ।
पक्षनिर्णाम इति वचनसामर्थ्यात् पक्षयोर्मध्ये निर्णामः दृश्यते -- पक्षिणां दृश्यते इति ॥
यावान -- जेत्.
प्राकृतमग्निमात्मपक्षपुच्छशिरःसु विभजेत् ।
कान् विबागानित्याह -- पुच्छात् प्रादेशक्षेत्रमात्मनश्वतुष्पुरुषादेकपुरुषक्षेत्रम (ष्टौ) ष्टादशचतुर्भागीयाः यावति क्षेत्रे उपधीयन्ते तावच्चात्मक्षेत्रं संगृह्य तासां चतुर्बागीयानां तिस्रो(ग्नेः)ग्रे शिरः कुर्यात् ।
अवशिष्टपञ्च दश(विंशति)चतुर्बागीयाः पुरुषः प्रादेशश्वप्राकृतयोः अध्यरत्निपुरुषयोः पक्षयोर्विभजेत् -- क्षिपेदित्यर्थः ।
एवं सत्यर्धदशमा अरत्नयश्चतुर्भागोनाङ्गुलिश्वैकैकः पक्षः ।
अर्धतृतीयपुरुष आत्मा ।
पुरुषमात्रं पुच्छं ।
तिस्रश्चतुर्भगीयाःशिरः ॥
पञ्चार -- कॢप्तिः.
"पञ्चारत्निरग्नौ पुरुषः ।
यावान् पुरुष ऊर्ध्वबाहुस्तावान भवतीति पुरुषप्रमाणविशेषविधेः ।
अन्यत्र चतुररद्निः ।
चतुर्विंशतिरङ्गुलयो ऽरत्निः ।
तदर्धं प्रादेशः ।
स च द्वादशाह्गुलः ।
कॢप्तिः-- अचार्यस्य समयः ॥
सुन्दरराजीया व्याख्या
श्येन यते
तैत्तिरीयके काम्यप्रकरणे पठितो ऽप्ययं श्येनचित् नित्य एव स्वर्गफलकत्वात् चतुरश्राग्निवत्तस्यापि स्वर्गफलकत्वं ।
"सुवर्गाय वा एष लोकाय चीयते ।
यदग्निःऽ इति लिङ्गानि चात्र प्रागेव दर्शितानि ।
वक्र यते
श्रुत्यनतरनिदं श्येनचिद्वाक्यस्य शे,भूतं ।
तत्र वक्रता पक्षमध्ये ।
व्यासः पुच्छाग्रे ।
पक्षयोर्वक्रीकरणप्रकारमपि श्रुतिरेवाह ----
पस्वात्प्राङूदूहति पक्षमध्ये ।
पुरस्तात्मत्युङ्ङुदूहति पक्षाग्राप्यययोः ।
एवमिव हि वयसां पक्षस्य मध्ये मध्यपक्षं निर्णामो वक्रता ।
मध्येपक्षनिर्णामः -- वयसामुत्पततां पक्षमध्ये निर्णाम एवमिव हि दृश्यत इत्यर्थः ।
यावा ते
सारत्निप्रोदशश्चतुरश्रो ऽग्निर्यावान् सम्पद्यते तावानेवायं श्येनचिद्धवति ।
सारत्निप्रादेशग्रहणस्य प्रयोजनमुक्तमेव ।
तत्र --
प्रादे ष्टौ
आदधीतेति शेषः पुच्छे पुरुषादधिकं प्रादेशमात्मनश्चतुर्थं पुरुषं चतुर्भागीयाश्वाष्टौ आत्मन एवादधीत ।
शिष्ट आत्मा ।
अर्धतृतीयः पुरुषः ।
पुच्छं पुरुषप्रमाण(मात्र)मेव ।
ता -- शिरः
तासां तिस्रश्चतुर्भागीयाः शिरः प्रकल्पयेत् ।
इतर जेत्.
पुच्छादात्मनश्वात्र शेषं द्वेधा विभज्य पक्षयोर्निदध्यात् ।
एकैकस्मिन् पक्षे प्रादेशार्धं षडङ्गुलं आत्मचतुर्थादर्धं षष्टिरह्गुलयः ।
पञ्चानां चतुर्भागीयानां मध्ये पुरुषायामे पक्षे न्यस्ते पादेना एकान्नत्रिंशतिरह्गुलयः प्राकृतः पक्षः ।
चतुश्वत्वारिंशदधिकशताङ्गुलयः ।
एभिः सहितः पादोनैकान्नत्रिंशच्छतद्वयाङ्गुलः सम्पद्यते ।
तदेतद्वक्ष्यति अर्धदशमा अरत्नय इत्यादि ।
पञ्चा कॢप्तिः ।
कपर्हिभाष्यम्
अर्धदशमा अरत्नयो ऽङ्गुलयश् च चतुर्भागोनाः पक्षायामः

15.6

प्रादेशदशमा अरत्नयो ऽङ्गुलयश् च चतुर्भागोनाः पक्षायामः -- पक्षयोरायमः ।
प्राकृताः षडरत्नयः अर्धपुरुषे प्रादेशसहितारत्निद्वयमष्टादशाह्गुलाश्चतुर्भागोनाश् च प्रादेशे षड्ङ्गुलाः ।
ता अष्टादशभिःसहारत्निः सर्वं सम्भूयार्धदशमा अरत्नयो ऽह्गुलास्व चतुर्भागोनाः ।
एष पक्षयोरायामः ।
द्विपुरुषां रज्जुम् उभयतःपाशां करोति । मध्ये लक्षणम् । पक्षस्यापरयोः कोट्योर् अन्तौ नियम्य लक्षणेन प्राचीनम् आयच्छेद् एवं पुरस्तात् । स निर्णामः

15.7

एतेनोत्तरः पक्षो व्याख्यातः

15.8

द्विपुरुषप्रमाणां रज्जुमुभयतः पाशां कृत्वा मध्ये लक्षणं; कुर्यादिति शेषः ।
अनेनैव मार्गेणोत्तरस्यापि पक्षस्य नमनं व्याख्यातम् ।
एषा पक्षयोर्वक्रता ॥ .7 ॥
आत्मा द्विपुरुषायामो ऽध्यर्धपुरुषव्यासः

15.9

पुच्छे ऽर्धपुरुषव्यासं पुरुषं प्रतीचीनम् आयच्छेत् । तस्य दक्षिणतो ऽन्यम् उत्तरतश् च
द्विप्जरुषायाम आत्मा अध्धर्धपुरुषव्यासः ।
एवं दीर्घचतुरश्रं विहृत्य पुच्छस्थानेर्ऽधपुरुषा तिर्यङ्भानी पुरुषप्रमाणा पार्श्वमानी भवति यथा तथा यच्छेत् -- कुर्यादित्यर्थः ।
तस्य चतुरश्रस्य दक्षिणपार्श्वे ऽन्यं तादृग्विधं चतुरश्रमुत्तरतश्वान्यम् ।
एवं त्रीणि चतुरश्राणि अर्धपुरुषव्यासानि ।
तावक्ष्णया व्यवलिखेत् । यथार्धपुरुषो ऽप्यये स्यात्

15.10

शिरस्य् अर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात् तावति दक्षिणयोर् निपातयेत्

मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc