आपस्तम्बशुल्बसूत्र · अध्याय 14
इति त्रयोदशः खण्डः
उपाधाने यथासूत्रमध्यर्धा उपधाय पूर्वार्धे सप्तदशेष्टका अक्ष्णया छिन्द्यात् द्वावर् धौ ।
यदि दीर्घाश्वेत् पादा उत्तरस्यां रीत्यां नेवष्टकाः छिन्द्यात् यथा प्राचीः प्रपादाः यथा दक्षिणस्यामष्टौ तथैव प्राचीरेकाद्विधा ।
तत्र तथैव पूर्णः प्रस्तारः ।
अपरस्मिन्प्रस्तारे पश्चादात्मन्यष्टादशेष्टकाः करणे छिन्द्यात् ।
द्वे द्वे इष्टके द्विधाकरणेनैव ।
यदि दीर्घाः पादाः पूर्वस्यां रीत्यां नवेष्टका भिन्द्यात् ।
यथा वा उदीच्याःश्रोण्या द्वे द्वेत्सरोः पश्चादेवाग्रतः पाशमध्येर्ऽधाः पादाश्वोदीच्यः ।
एवं प्रस्तारो द्विशतः ।
तत्र श्लोका भवन्ति ----
मितास्त्रिभिस्तिलैरूना चतुर्भिश् च शतेन च ।
द्रोणस्यैषात्सरोर्मात्रा तस्य त्रिगुणुतैव सा ॥
पादा अर्धाश् च भेदास्युः करणानि विभावसौ ।
द्रोणाख्ये तु स्मशाने च चतुरश्रे हविर्भुजि ॥
प्रस्तारे प्रथमे पादा यत्र स्युस्तत्र नोत्तरे ।
द्वावर्धौ प्रथमस्तारे चतस्र स्तूत्तरे स्तरे ॥
निधाय चोत्तरे स्तारे अध्यर्धत्वविपूर्वके ।
अध्यर्धा यत्र तत्र स्युः पादा दीर्घा यदि त्वथ ॥
प्राच्यस्युः प्रथमे स्तारे उदीच्यस्तूत्तरे स्तरे ।
अभितः पादमध्यर्धा रीतयसप्त चोत्तरे ॥
इत्.इ ॥
करविन्दीया व्याख्या
सर्व -- क्तः
सर्वस्याग्निक्षेत्रस्य दशमौशःत्सरुः ।
छान्दसोनपुंसकलिंङ्गनिर्देशः ।
सारत्निप्रदेशस्य दशमोभागो द्वादशभागीयाक्षेत्रम् ।
तस्यत्सरोर्निर्हारः समुदायात् पृथक् करणं पुच्छेन पुच्छप्रदेशेन भवेत् ।
स उक्तो निर्हारः चतुरश्राच्चतुरश्रं निजिहीर्षन्निति ।
चतुरश्रस्यात्मनः करणी शतत्रयमेकादशाङ्गुलयः षड्विंशतितिलाश् च ।
त्सरोस्तुत्र्यधिकं शतमङ्कुलयः एकत्रिंशत्तिलाश् च ॥
करण्यः का तस्य -- क श् च
तस्यद्रोणस्य करणी दशकी षड्विंशतिरह्गुलयः तिलोनाः ।
द्वादशभीगीयानां करणी एकतःषड्विंशतिरङ्गुलयः तिलोनाः अन्यत्रैकोनचत्वारिंशदङ्गुलयः अध्यर्धतिलोनाः द्वितीयं करणं पादेष्टका द्वादशभागीयानामेव ।
चकारादर्धेष्टकाश् च ।
ताभिर्विनासङ्ख्यापूरणाशक्तेः उक्तञ्च शुल्बान्तरे पादेष्टका अर्धेष्टकाश् चेति प्रथमकरणमक्ष्णया भिन्द्यात् ॥
सापादेष्टका अथवा द्वादशभागा पार्श्वमानिका ।
तत्तुरीयं ।
तिर्यक्मानिका पादेष्टका ॥
उपधाने प्राचीः
आत्मनि पूर्वभागे द्वादशेष्टकाः प्रतीचीरुपदधाति ।
त्सर्वर्गे चतस्रः ।
श्रोण्योः प्रत्येकञ्चतस्रः ।
एवं चतुर्विंशति रध्यर्धाः ॥
सर्व -- येत्
शिष्टमग्निक्षेत्रं द्वादशभागीयाभिः प्रच्छादयेत् पुच्छे चतुरिष्टके द्वे रीत्यौ द्वयोः पुरस्तार् पुच्छाप्य य विशयरूपैकाः चतुरिष्टकाश् च ।
तस्याः पुरस्ताद्दिश्येका ।
अत्मनि द्वादशेष्टकाः उदीच्योनवरीतयः ।
एकविंशति शतं चतुरश्राः ।
चतुर्विंशतिरध्यर्धाः ।
उत्तरस्मिन्पार्श्व नवचतुरश्रा उधृत्य षट्त्रिंशतं दीर्घाः पादाः प्रतीचीरुपदध्यात् ।
दक्षिणस्मिन् पार्श्वेच नवोद्धृत्यष्ट्त्रिंशतंपादाः ।
षूर्वस्यां दिशि द्वाधशभागीयानामुपान्त्ये उद्धृत्यद्वेद्द्वे चार्दे उपदध्यात् ।
अक्ष्णयापादाश्वेत् पूर्वार्धे ऽष्टादशचतुरश्रा उधृत्यद्विसप्ततिपादाः द्वे इष्टके उद्धृत्य द्वे द्वे चार्धे ।
द्विशतः एष प्रस्तारः ॥
अपरस्मिन् -- उदीचीश् च
आस्मनि दक्षिणतोद्वादश ।
तथैवोत्तरतः ।
पुच्छपार्श्वयोश्चतस्रश्चतस्रः ।
प्राच्योरीतयः द्वात्रिंशत् ॥
सर्व -- येत्
पुच्छे चतस्रश्चतुरश्रा आत्मनि द्वादशेष्टकाः प्राच्योनवरीतयः ।
ताद्वादशशतम् ।
पश्चादात्मनि ।
दशचतुरश्रा उद्धृत्य द्वात्रिंशतमक्ष्णयापादा उपदध्यात् ।
चतस्रश्वार्वाः दीर्घाश्वेत् पादाः पूर्वस्यां रीत्यां नवेष्टका उद्धृत्य षटत्रिंशतं पादा उतीच्य उपदध्यात् ।
पश्चादात्मन्यष्टादश चतुरश्राः नवपादा उतीचीरुपधाय तासां पुरस्तादभितो द्विपादाः सप्तार्धाः उपधायतासां पुरस्तादष्टादशार्दा उपधायतासां पुरस्तान्नवपादा उपदध्यात् ।
द्विशत एषप्रस्तारः ।
सुन्दरराजीया व्याख्या
सर्वस्या उक्तः
पुच्छमिवात्मनो वहिर्भूतं पश्चान्मिनुयादित्यर्थः त6 चतुरश्रद्रोणचित् द्वाधशत्रिशताङ्गुलेनाष्ठतिलोनेन समचतुरश्रः तस्य पश्चान्मध्यदेशे करणीतृतीयेनत्सरुसमचतुरश्रम् ।
तस्य करण्य कारयेत्
आत्मकरण्या द्वादशेन षड्विंशत्यङ्गुलेनैकतिलोनेन समचतुरश्राः ।
अध्यर्धाः -- पादेष्टकाश् च
तृतीयेन च नवम्यः पूर्ववत् ।
उपादाने -- दधाति
द्वादशीभिरुदीची रीतिः ॥
त्सर्वर्ग्रे -- प्राचीः
त्सर्वर्ग्रे चतस्रो ऽध्यर्धाः, श्रोण्यश् च चतस्रश्चतस्रः ।
एवं द्वादश ।
सर्वमग्निं -- प्रच्छादयेत्
द्वाधशीभिरेवं प्रच्छादिते ऽष्टाचत्वारिंशच्छतं भवति ।
पादेष्टकाभिः -- पूरयेत्
आत्मनि प्राच्यो द्वादशरीतयः ।
तत्र ददिणस्यां पश्चाद्द्वयं हित्वा पूर्वास्तिस्रो नवम्य उदीच्यः ।
ततो द्वादश पाद्याः ।
ततस्तिस्रो नवम्यः ।
ततः प्राकपाद्या द्वादश ।
ततस्तिस्रो नवम्यः उदीच्यः ।
ततः प्राग्द्वादश्यध्यर्धे ।
एवमेव द्वादशीरीतिः ।
एवं द्विशतः प्रस्तारः ॥
अपरस्मिन् -- उचीचीश् च
द्वादश द्वादश ।
दक्षिणेति द्वितीयावहुवचनस्वीकारः ।
त्सरुपार्श्वयोर्दक्षिणा उदीचीश्चतस्रश्चतस्रः ।
सर्वमग्निं -- प्रच्छादयेत्
चतुश्वत्वारिंशच्छतं भवति ॥
पादेष्टकाभिऽ-- पूरयेत्
आत्मन्युदीच्यो द्वादश रीतयः ।
अत्रापरस्यां दक्षिणाध्यर्धाया उदक्तिस्रो नवम्यः प्राच्यः ।
ततो ऽष्टौ पाद्याः ।
ततस्तिस्रो नवम्यः ।
ततो द्वादशी ततस्तिस्रो नवम्यः ।
ततो ऽष्टौ पाद्याः ततस्तिस्रो नवम्यः ।
ततोद्वादशी ।
ततस्तिस्रो नवम्यः ।
ततो ऽध्यर्धा ।
एवं पूर्वा रीतिः ।
द्विशतः प्रस्तारः ।
व्यत्यासं ---- चिकीर्षेत्
अथ परिमण्डलस्य द्रोणचितेः प्रकारो वक्ष्यते ।
षट्सप्ततिशता ङ्गुलश्त्रयस्तिलोनो वेणुरुभयताश्छिद्रः ।
मध्येशङ्कुं निहत्य तस्मिन् वेणोश्छिद्रं प्रतिमुच्य छिद्रान्तरेण परिमण्लं परिलिखेत् ।
मध्यशङ्कोः पश्चादष्टषष्टिशताङ्गुले सतिलद्वये शङ्कुः ।
तस्य पश्चात्सरुः ।
समचरश्रं तिलद्वयोनचतुःशताङ्गुलं कुर्यात् ।
मण्डलमध्यशङ्कोः पश्चाच्चतुःशताङ्गुले तिलत्रयोने शङ्कं निहत्य तस्मिन् वेणोछिद्रं प्रतिमुच्यान्येन च्छिद्रेणत्सरुणो दक्षिणापरकोणादारभ्य उत्तरापरकोणादालिखेत्, यथात्सर्वग्रं प्रध्याकारं भवति ।
मण्डलभ्रमणेत्सरुपुर्वान्तेर्ऽधे यावद्ध्रियते तावत्पश्चादागच्छति ।
ततो मण्जलमध्ये पूर्ववच्चतुरश्रं नवचत्वारिंशद् द्विशताङ्गुलमष्टतिलोनमवदध्यात् ।
तस्य करण्या द्वादशेनेष्टकाः एकविंशत्यङ्गुला नवीतलोनाः चतुरश्रमध्ये चतुश्वत्वारिंशच्छतमिष्टकाःशेरते ।
ततो दीर्घमेकं करणम् ।
तस्य तिलोनषड्विंशत्यह्गुला तिलश्वी ।
चतुस्त्रिंशकं द्वाविंशतितिलं पार्श्वम् ।
ताः प्रधिमूलमध्ये चतस्रश्चतस्रो निधेयाः पूर्वापरयोः प्रागायता दक्षिणोत्तरयोरुदगायताः ।
प्रधिशेषेषु सप्तसप्तेष्टकाः ।
चतसृणां मुखेषु तिस्रः ।
पार्श्वयोर्द्वेद्वे इति तासां चत्वरि करणानि ।
त्रिकोणमाद्यं, तस्य षट्तिलोनमष्टाविंशत्यङ्गुलमेकं फलकं ।
षट्त्रिंशकम् सप्ततिलोनं द्वितीयम् ।
त्र्यंशोनितं षट्चत्वारिंशदङ्गुलं तृतीयं कर्णरूपं, तद्धनुरिव तक्षेत्, यथाध्यर्धाङ्गुलिःशरो भवेत् ।
द्विदीयस्य षट्तिलोनमष्टाविंशकमेकं तिल्यक्फलकम् ।
त्र्यंशोनचतुश्वत्वारिंशदङ्गुलमन्यत् ।
सप्ततिलं षट्त्रिंशकमेकं पार्श्वम् ।
साष्टादशतिलं नवत्रिंशकं पार्श्वान्तरम् ।
तद्धनुरिव तक्षेत्, यथा स चतुस्तिलाङ्गुलिःशरः ।
तृतीयस्य सतिलं नवकमेकं तिर्यक्फलकमेकम् ।
सतिलं षोडशाह्गुलमन्यत् ।
द्वादशतिलोनं पञ्चत्रिंशदङ्गुलमेकं पार्श्वं द्वादशतिलयुक्तं पञ्चत्रिंशकं पार्श्वान्तरम्, तद्धनुरिव तक्षेत् ।
त्रिंशत्तिलाःशरः ।
चतुर्थस्य सतिले षोडशिके तिरश्वयौ पार्श्वे च दशतिलोनेपञ्चत्रिंशके ।
एफं पार्श्वं धनुरिव तक्षेत् ।
एकान्नत्रिंशत्तिलाःशरः ।
एषा इष्टका प्रधिमध्ये स्थाप्या, अभितस्तिस्रस्तिस्रः पूर्वोक्ताः क्रमोत्क्रमेण ।
एवं मण्डलक्षेत्रे अष्टाशीतिशतमिष्टका भवन्ति ।
ततो ऽपरप्रधेर्मध्यास्तिस्र उद्धृत्यत्सर्वग्रे निदध्यात् ।
त्सरुशेषे द्वादश दीर्घेष्टकाः ।
द्विशतः प्रस्तारः ।
एवमेवापरः प्रस्तारः ।
चतुरश्रस्रक्तयस्तु महादिक्षु भवन्ति ।
त्सरुणस्त्वन्ये द्वे करणे ।
तत्रैकस्य तिलोने षड्विंशत्यङ्गुले तिल्यक्फलके ।
चत्वारिंशदङ्गुले त्र्यंशे पार्श्वै ।
एकाक्ष्णयारझ्जुस्त्रिचत्वारिंशदङ्गुला षट्तिलयुक्ता ।
अन्या त्वेकपञ्चाशदह्गुला सदशतिला ।
एकं पार्श्वफलकं धनुरिव तक्षेत् ।
स चतुस्तिलाङ्गुलिःशरः ।
अन्यदपि पार्श्वमेवमेव ।
अन्तश्वापं तु भवति यथैवमिष्टकारूपं, एता इष्टकाःत्सरुपार्श्वयोश्चतस्रश्चतस्र उदगायताः ।
अथान्यत्तिलोनषड्विंशकं समचतुरश्रं तस्यैकं तिल्यक्फलं धनुरिव तक्षेत् यथा षोडशतिलाःशरो भवति ।
एवमेवान्यत्तिर्यक्फलकं. अन्तश्वावीं तु भवति ।
यथैवमिष्टकाःत्सरुमध्ये एताश्चतस्रः प्रस्तारो द्विशतः ।
व्यत्यसं चिनुयाद्यवतः प्रस्तारांश्वितीषोन्त् ॥
इति त्रयोदशः खण्डः
कपर्दिक्षाष्यम्
समूह्यं चिन्वीत पशुकाम इति विज्ञायते
समूहन्नेवेष्टका उपदधाति
दिक्षु चात्वाला भवन्ति । तेभ्यः पुरषिमभ्युदूहतीति विज्ञायते
समूह्यं इत्युपधानप्रकारविशेषो नाकृतिविशेषः ।
प्रकृतावेवायं विधिः नाकृतिविकारेषु ।
अग्निक्षेत्रस्य परित इष्टकाः स्थापयित्वा यथा समूहनं क्रियते तथोपदधाति सर्वत उपादायोपदधातीति यावत् ।
स एवोपधानविधिः -- "प्रतिदिशं चात्वाला भावन्ति बहिर्वेदि ।
तेभ्यश्वात्वालेभ्यः पुरीषं पांशूनभ्युदृहतीतिऽ श्रुतिः ।
परिचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते
अयमप्युपधानविधिः ॥
मध्यमां स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति । स परियाय्यः
तृतीयस्यां चितौ स्वयमातृण्णामुपधाय इष्टकागणैः प्रदक्षिणं तां स्वयमातृण्णां परित उपदधाति ।
स परिचाय्यः ।
उपचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते
परिचाय्येनोक्तः
पूर्ववत्परिचाय्येन व्यत्यासः ।
करविन्दीया व्याख्या
समू -- ते
समूहनमत्र गुणो नाकृतिविशेषः ।
तमेतमग्निं चिन्वीत पशुकामः ।
समूह्यशब्दस्य प्रवृत्तिनिमित्तमाह----
समूह धाति
समूहन्निव उपधान इत्ति परितो ऽग्निक्षेत्रमिष्टकाःस्थापयित्वा समूहन् -- सम्पादयन्निव यथायथा बाह्याभ्यन्तरा इष्टकाः उन्नता भवेयुः तथातथोपदध्यात् ।
अयमर्थः -- यथा सर्वमग्निक्षेत्रमन्तरत उन्नतं बहिर्निनतं भवति तथा पुरिषेण कृत्वा तत्रेष्टका उपधाय सपुरीषाबिः क्षेत्रपूरणं कुर्यादिति ॥
दिक्षुचा -- यते.
दिक्षु चतृसृष्वपि चात्वालाः ।
पुरीषाणां वाहुल्याच्चात्वालबाहुलयं दिक्ष्वेकैकं चात्वालं शम्यया विमाय काल एव प्रकृतिवदुत्तरवेदिषु यवयति ।
तेभ्यः
सर्वेभ्यः पुरीषाण्यादाय चितिमभ्यूहयेदिति ।
प्रकृतान्येव विमानकरणोपधानानि ॥
परिचत -- ते
परिचयनमत्र गुणः ।
क्षुत्यर्थं व्याचष्टे --
मध्यमा -- य्यः.
तृतीयस्यां चितावाक्रमणादिस्वयमातृण्णान्तमुपधाय हिरण्येष्टकाभिर्गणैः प्रदक्षिणैः प्रदक्षिणं स्वयमातृण्णां परिचिनुयात् ।
प्राकृतानां स्थानानां वाधकं परिचयनम् ।
एष द्विशतः ।
उप -- क्तः
उपचयनमपि गुणः ।
उपचयनं समीते चयनम् ।
तान्येव विमानकरणोपधानानि ।
सर्वं परिचाय्यवत् ।
अयं भेदः -- आद्यस्य बहिरारभ्य स्वयमातृण्णासमीपे समाप्तिः ।
द्वितीयस्य स्वयमातृण्णासमीप आरभ्य वहिःसमाप्तिः ।
सुन्दरराजीया व्याख्या
अथ चतुर्दशः खण्डः
समू धाति
अग्ननिक्षेत्रं परित इष्टकाःस्थापयित्वा समूहन् एकत्र राशीकूर्वन्निवोपदधाति ॥
दिक्षु चात्वाला स परिचाय्यः
स्वयमातृण्णामुपधायान्याःसर्वा इष्टकाःस्वयमातृण्णां परित उपदधाति ।
न तु प्राचीः प्रतीचीरित्यादयो विशेषाः ।
पूर्वःपूर्वो गणःसवयमातृण्णासमीपे ।
ततस्ततो बहिरुत्तरौत्तरः ।
अनयोःसमूह्यपरिचाय्ययोः प्रकृतिवदेव रूपं इष्टकाश् च विशेषावचनात् ।
अथवा समूहस्य परितःस्थित्वा समूहने क्रियमाणे मण्डलरूप इष्टकाचयो भवतीत्यर्थान्मण्डलरूपत्वमग्नेर्भवति ।
परिचाय्यस्यापि स्वयमातृण्णापरिचयनं मण्डलरूप एवाग्नावुपपद्यते इति अर्थादेव मण्डलरूपत्वं ।
तथाच बोधायनः -- समूह्यपरिचाय्यौ पूर्वेण रथचक्रचिता व्याख्याताविति ।
उपचा -- क्रः
पूर्वस्यैवेदं शाकान्तरीयं संज्ञान्तरमित्यर्थः ।
कपर्दिभाष्टम्
श्मशानचितं चिन्वीत यः कामयेत् पितृलोक ऋध्नुयामिति विज्ञायते
पितृलोके ऋध्यासमिति यः कामयेत् स एवं चिनुयात् ।
द्वयानि खलु श्ममशानानि चतुरश्राणि परिमण्डलानि च
तत्र यथाकामी शब्दार्थस्य विशयित्वात्
चतुरश्रं वा । यस्य गुणशास्त्रम्
स चतुरश्रः । त्सरुवर्जं द्रोणचितोक्तः
चतुरश्राकाराणि सन्ति श्मशानानि परिमण्डलाकाराणि च ।
तत्रेच्छातः प्रवृत्तिः शब्दस्योभयप्रवृत्तेः ।
यदि वर्तुलाकारः रथचक्रवत् ।
चतुरश्रं वेति -- गतमेतत् ॥ .॥
यस्य गुणशास्त्रं पितृलोकसम्बद्धं तच्चतुरश्रे श्मशाने न वर्तुले ।
खाला हि तत्र निक्षिप्यन्ते ।
येषु पैतृमेधिकक्रिया तेषां पितॄणां सम्वन्धः ऋध्या च ।
तस्माच्चतुरश्र एव चेतव्यः यदि चतुरश्रस्तदात्सरुवर्जं द्रोणचितोक्तः -- तत्सर्वं द्रोणचित्येव व्याख्यातम् ॥
छन्दश्चितं चिन्वीत पशुकाम इति विज्ञायते
छन्दोभिरेव यत्रेष्टकास्वीयन्ते तं छन्दस्विवं पशुकामश्विनुयादित्यस्याः श्रुतेरर्थं श्रुतिद्वयेन व्याचष्टे --
सर्वैश् छन्दोबिश् चिनुयाद् इत्य् एकम् । प्राकृतैर् इत्य् अपरम्
मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0